________________
कर्तृकर्मशब्दार्थभङ्गः]
द्वादशारनयचक्रम् च क्रियाया असम्भवात् , नित्यानित्यैकनानाकार्यकारणसर्वासर्वगतत्वादिः स्याद्वादः नित्यत्वेनानित्यत्वमनित्यत्वेन च नित्यत्वमेकान्तरूपं बाध्यते, सापेक्षश्च सर्वं सिद्ध्यति, तद्यथा सदा सत्त्वान्नित्यत्वम् , सदा सत्त्वं द्रव्यार्थात् , [अतः]नैकान्तानित्यत्वम् , सदा चासत्त्वादनित्यत्वम् , सदा चासत्त्वं पर्यायार्थत्वात् , अतश्च नैकान्तनित्यत्वमिति ।
यदपि चोपादाननियमसत्त्वप्रतिषेधार्थमुत्तरं कर्तृकर्मेति क्रियानिमित्तको शब्दौ, तत्र प्राक् । प्रसिद्धव्यापारयोग्यद्रव्योपादानं तत् क्रियानिमित्तं न कार्यसत्त्वनिमित्तमिति, अर्थस्य व्यापारनियमः कुतः? स हि कार्यसत्त्वमन्तरेण न सिद्ध्यति, समर्थस्य करणेऽधिकारपरिग्रहात् स इति चेत् समर्थस्यैव कार्यक्रियायामधिकारपरिग्रहणात् कार्यमसदेव, ननु त्वयैव समर्थस्य करणेऽधिकारपरिग्रहादुपादाननियम इति ब्रुवता सत्कार्यत्वं समर्थितम् , एकीभावं गतार्थस्य समर्थत्वात्।
(यदपि चेति) यदपि चोपादाननियमसत्त्वप्रतिषेधार्थमुत्तरमित्यादि, कर्तृ-कारणं कर्म कार्य- 10 मिति क्रियानिमित्तको शब्दौ, तत्र प्राक् प्रसिद्धव्यापारयोग्यद्रव्योपादानं तत् क्रियानिमित्तम्, न कार्यसत्त्वं निमित्तम् , अत्र स्याद्वादी किल पृच्छति- अर्थस्य व्यापारनियमः कुत इत्यादि यावन्न सिद्ध्यति, अत्र वैशेषिकक्षेणाशंकते समर्थस्य करणेऽधिकारपरिग्रहात् स इति चेत् , एतस्य व्याख्या समर्थस्यैव कार्य क्रियायामित्यादि कारणनिदर्शनग्रन्थो गतार्थों यावदसदेव, असत् कार्यत्वमेव, ननु त्वयैव समर्थस्य कारणेऽधिकारपरिग्रहादुपादाननियम इति ब्रुवता सत् कार्यत्वं समर्थितम् , सङ्गतार्थं समर्थ एकीभावं गतो योऽर्थः 15
याश्चैकान्तसत्यसम्भवात् सदसदात्मकैकरूपत्व एव सम्भवाच्च यथाकथञ्चित्सत्त्वेनैकान्तासत्त्वं कथंचिदसत्त्वेन चैकान्तसत्त्वं बाध्यते, सदसदात्मकं च सर्वमिति सिद्ध्यति, तथैव कथञ्चिन्नित्यत्वेनैकान्तानित्यत्वं कथञ्चिदनित्यत्वेन चैकान्तनित्यत्वं बाध्यते, नित्यानित्यात्मकञ्च सर्वमिति सिद्ध्यतीति भावः। तदेव दर्शयति-तद्यथेति । अथ कार्यसत्त्वादेवोपादाननियमो नान्यथेति पक्षनिराकरणाय वैशेषिकेणोक्तं पूर्वपक्षमनूद्य निराकरोति-यदपि चेति । व्याचष्टे-कर्तृकारणमिति प्रधानक्रियानिर्वर्तकं कारणं प्रधानक्रियाविषयश्च कार्य भवति-तथा च कार्यकारणशब्दप्रवृत्तिनिमित्तक्रियात्मकप्रधानक्रियानिर्वर्तनयोग्यक्रियाविशेषसद्भावादेव साध- 20 नानां साधनत्वं न तु तत्र कार्यसत्त्वं प्रयोजकम्-कार्यकारणभावो हि नियमसारः, कारणेषु कार्यसत्वेऽपीदमेवोपादानमिदमेव कार्यमित्यादिनिर्णयस्य नियमाधीनत्वात् , नियमश्चान्वयव्यतिरेकलक्षणा प्रसिद्धिरेव, तथा च कार्योत्पत्तेः प्रागन्वयव्यतिरेकलक्षणप्रसिद्धिविषयप्रधानक्रियानिवर्तनक्षमव्यापारयोग्यं यद्व्यं तदुपादानं भवति, एवञ्च प्रसिद्ध्यानुमितयोग्यताशालिद्रव्यमुपादानमिति भावः । ननु तथाविधव्यापारयोग्यं मृद्रव्यमेव न तृणादीति नियमः कथमिति शङ्कते-अर्थस्येति प्रतिनियतार्थस्यैव प्रतिनियतार्थोत्पादानुकूलव्यापारो न यस्यकस्यचिदर्थस्येति यो नियम उच्यते स कुतः ? स नियमो हि प्रतिनियतार्थे कार्यसत्त्वमन्तरेण न 25 सिद्ध्यतीति भावः । अत्र वैशेषिकाशङ्कामाह-समर्थस्येति कार्यकरणेऽधिकारः समर्थस्यैव नान्यस्येति प्राक् प्रसिद्धः परिग्रहात्विनिश्चयादुपादानस्य नियम इत्यर्थः, व्यापाराविष्टस्यैव कार्यजनकत्वात् व्यापार एव कार्यविशेषे तन्त्रम्, न तु कार्यसत्त्वं नियामकाभावात् , तस्मात् प्रागसदेव कार्यम् , कार्यनियतपूर्वभावितावच्छेदकधर्मवत्त्वमेव सामर्थ्य प्राकू प्रसिद्धिगम्यमिति भावः । अत्र समर्थशब्दशक्त्यवलम्बनेनोत्तरयति-ननु त्वयैवेति, कथं सत्कार्यता समर्थितेत्यत्राह-सङ्गतार्थमिति, समर्थशब्दे समुपसर्गः सङ्गतार्थकः सम्मिलित इत्यर्थः, कार्येण घटादिना सह सम्मिलित एकतामुपगतोऽर्थः मृदादिलक्षणः सङ्गतार्थः, एवञ्च कार्येणैकीभावं 30 गतस्यार्थस्यैव समर्थशब्दवाच्यत्वात् समर्थस्यैवोपादाननियम इति ब्रुवता त्वयैव कारणे कार्यस्य सत्त्वं समर्थितमेवेति भावः। यदि
१ सि. क. 'त्वादिरस्या० । २ सि.क. नित्यत्वगनि० । ३ सि.क. नित्यत्वमनेका० । ४ सि. क. 'नित्यत्वमतः स० । ५ सि. क. पक्षघ्याश० ।
___Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org