________________
womwww
६८०
न्यायागमानुसारिणीव्याख्यासमेतम् [विधिनियमोभयारे [शा]पन्नस्य सत एव घटविवक्षया कर्त्तव्यत्वादसत्त्वमिष्टं त्वया तथाऽकर्त्तव्यत्वात् , सततमप्रच्युतस्याकृतकघटादिशिवकादिकर्त्तव्यात्मनो मृत्तत्त्वस्य मृत्तत्त्वविवक्षया कर्त्तव्यत्वाभावात् सदेव कार्यमिति कस्मान्ने. ष्यते ? न हि घटतायामित्यादि शिवकादिवन्मृत्तत्त्वस्य घटस्य मृत्तत्त्वस्याभावे यद्यवस्थानं स्यादसन् घटः प्राक् पश्चाज्जायत इति स्यात् , तत्तु नास्ति, यस्मात् मृद आत्मैव घटात्मा, कस्मात् ? तत्त्यागे 5 तत्स्वरूपानुपपत्तेः, यत्त्यागे यत्स्वरूपानुपपत्तिः स तस्यैवात्मा, अतीतानागतेत्यादि यावन्मृत्तत्त्ववत्-यथा
मृत्पिण्डस्यातीतानागतवर्तमानेषु कालेषु ये विशेषाः शीतोष्णादयः साशुष्कखण्डितशकलादयश्च विचित्राः पर्यायास्ते स्वभावा यस्य मृत्त्वस्य तेत्तत्स्वभावं तदेव सद्भावः सद्भूतं तदेव परमार्थीभूतं मृत्तत्त्वं तान् विशेषान् विहाय न प्रवर्त्ततेति, [अ]पि च तदिति स एवात्मा विशेषाणां मृत्त्वस्य तथा घटात्मा मृद एवात्मा, अथ वाऽतीतानागतवर्तमानविचित्रविशेषाध्यासित[स्व]भावसद्भूतघटवदिति द्वितीय10 मुदाहरण[म] स्यैव व्याख्या-मृद आत्मा[घटात्मा,]घटस्यात्मा मृदात्मेति द्विधापि प्रतिज्ञायते तेनैव हेतुनाऽनेनापि दृष्टान्तेनेति ।
एतेन सर्वास्याद्वादः प्रत्युक्तः।
(एतेनेति) एतेन सर्वास्याद्वादः प्रत्युक्त:-कार्यसदसदात्मकैकवस्तुप्रतिपादनात्मकेन तदेकान्तप्रतिषेधात्मकेन च यत्नेन नित्यानित्यायेकान्तवादः सर्वः प्रतिषिद्धो बोद्धव्यः, उपादाननियमस्यासति सति
momwwwwwwwwwwwww
15 सन्नपि येन रूपेण तस्य कृतिविषयत्वं तदात्मना प्राक्तस्यासत्त्वात् कृतिविषयतावच्छेदकधर्मावच्छिन्नं वस्तु स्वोत्पत्त्यवधिकप्राक्का
लावच्छेदेनासदित्यसत्कार्यत्वसिद्धिरिति भावः । यया युक्त्याऽसत्कार्यत्वसिद्धिस्तयैव सत्कार्यत्वसिद्धिरपि भवतीति सत्कार्यत्वं कुतो नेष्यते, विनिगमनाविरहादित्याशयेनाह-तथेति कृतिविषया अपि घटादिशिवकादयो मृदात्मना न कृतिविषयाः, तेन रूपेण तेषां नित्यत्वात्-एवञ्च कृतिविषयतावच्छेदकरूपेण प्रागसत्त्वेऽपि कृतिविषयत्वाभावप्रयोजकरूपावच्छिन्नं घटादिशिवकादिवस्तु सदिति सत्कार्यमिति कुतो नेष्यत इति भावः । घटादिशिवकादेः घटताद्यवस्थायां मृत्तत्त्वतां समर्थयति-नहि घटतायामिति,
मृत्तत्त्वव्यतिरेकेण घटादेः कदापि यद्यवस्थितिः स्यात् तर्हि तथाविधकालात् प्राक् तथाविधं घटादिकार्य नास्तीति प्रागसत् पश्चा20 त्तथाविधं जातमिति वक्तुं युज्यते, तथाऽवस्थानन्तु नास्ति सदा शिवकादिवन्मृत्तत्त्वतयैवावस्थितेः, तस्मान्नास्ति घटात्ममृदात्मनो
भेदः किन्तु य एव मृदात्मा स एव घटात्मेति भावः । तत्र हेतुमाह-तत्त्याग इति. मृत्तत्त्वत्यागे मृत्तत्त्वस्वरूपतानुपपत्तेरित्यर्थः। व्याप्तिं ग्राहयति-यत्त्याग इति । दृष्टान्तमाह-अतीतेति त्रैकालिकविलक्षणविशेषा एव स्वभावो यस्य परमार्थभूतमृत्तत्त्वस्य तथाविधं मृत्तत्त्वं तान् विशेषान् परित्यज्य न क्वापि प्रवर्त्तते, एवं ते विशेषा मृत्तत्त्वमेव तस्मात् यथा विशेषाणामात्मैव मृदात्मा
तथा मृद आत्मैव घटात्मेति भावः । स एवात्मेति विशेषाणामात्मैव मृदात्मेत्यर्थः, निर्विशेषं न सामान्यमिति भावः । तथा 25 घटात्मेति, योऽयं घटस्यात्मा स मृद एवात्मा न तु मृदात्माऽन्यो घटात्मा चान्य इति भावः, निःसामान्यं न विशेष
घटतदीयत्रैकालिकविचित्रविशेषाणां परस्परमभेदं दृष्टान्तीकृत्य मृदात्मघटात्मनोः परस्परममेदं साधयति-अथ वेति एवञ्चाभेदसिद्धौ घटात्मना प्रागसत् कार्यमिति नाहतो ब्रूते मृदात्मघटात्मनोरभेदेन यदा मृदात्मना घटः संस्तदा घटात्मनाऽपि सन्नेवेति भावः । परस्पराभेदे हेतुश्च तत्त्यागे तत्स्वरूपानुपपत्तिरेवेत्याह-तेनैव हेतुनेति । दृष्टान्तश्च द्वितीयोदाहरणमेवेत्याह-अनेनापीति ।
उक्तप्रयत्नादेव किञ्चिन्नित्यमेव, एकमेव, कारणमेव, सर्वगतमेव, अन्यच्चानित्यमेव, अनेकमेव, कार्यमेव, असर्वगतमेवेत्येवंरूपोऽस्या30 द्वादः- स्याच्छब्दासमभिव्याहारेणोपवर्णनं निराकृतं भवतीत्याशयेनाह-एतेनेति । व्याकरोति-कार्येति, अनेकान्तस्थापनेन एकान्तप्रतिक्षेपणेन यत्नेनेति भावः । कोऽसौ यत्नः प्रदर्शित इत्यत्राह-उपादानेति, उपादाननियमस्यैकान्तासत्यसम्भवात् क्रिया
१ सर्वासु 'सानव्यास्ते' क. साभव्यास्ते। २ सर्वासु तत्तस्य' इत्यधिक दृश्यते। ३ सर्वासु० स एव स्वभावः स एव प.।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org