________________
सदसत्कार्यतासिद्धिः ]
द्वादशारनयचक्र म्
यदप्युच्यते घटात्मना चासत्त्वात् क्रियोपपन्नेत्येवं किलार्हत आह, अत्रापि कुत एतदित्याद्युत्तरम्, नैवमार्हतो ब्रूते घटात्मनाऽसत्त्वादसदेव कार्यमिति, किं तर्हि ? सन्नपि घट इति ब्रूते, मृत्तत्त्वघटसत्त्वात्, तद्दर्शयति
असत्त्वाद्धात्मनेति कुत एतत् ? न पुनर्मृत्तत्त्वघटसत्त्वात् तत्त्व एवानुभवक्रमप्राप्तेः, तत्प्रत्यग्रादिवत् ।
(असत्त्वादिति ) असत्त्वाद्वटात्मनेति कुत एतत् ? न पुनर्मृत्तत्त्वघटसत्त्वात् तत् पुनः सत्त्वं मृत्तत्त्वस्य घटस्य तत्त्व एवानुभवक्रमप्राप्तेः - क्रमजन्मघटपर्यनुभवः क्रमेण प्राप्यते, तत्त्वे-द्रव्यार्थ - तोsवस्थितस्वरूप एव वस्तुनि मृदाख्ये, तत्प्रत्यया दिवत् - यथा घटस्य प्रत्यप्रेषन्मध्यममध्यमपुराणता दिभावा घटतत्त्वे व्यवस्थितस्यैव तथैव मृत्तत्वे एवानुभवक्रमप्राप्तेर्घटसत्त्वम्, तस्मादार्हतोक्त्यपरिज्ञानादसाधूक्तम् । किञ्चान्यत्
10
"
"
यदपि च न, असत्कार्यत्वसिद्धेः, एवं तर्हि मृदात्मनः कर्त्तव्यत्वाभावात् क्रियत इति हि कार्यम्, न च मृत् क्रियते, घटो हि क्रियते स त्वसन् तस्मान्न प्रागुत्पत्तेः सदसत् कार्यमिति, एतदपि नैव, असत्कार्यत्वसिद्धिवत् सत्कार्यत्वसिद्धेः, अकर्त्तव्यत्वान्मृत्तत्त्वस्य घटादेः सदेव कार्यमिति भावानां कुतो नेष्यते सत्कार्यत्वम् ? न हि घटतायां मृत्तत्त्वाभावे घटस्यावस्थानमस्ति, येन प्रागसन् स्यात्, मृद आत्मैव हि घटात्मा, तत्त्यागे तत्स्वरूपानुपपत्तेः, 16 अतीतानागतवर्त्तमानविचित्रविशेषस्वभावसद्भूतमृत्त्ववत्, अतीतानागतवर्त्तमानविचित्रविशेषाध्यासितभाव सद्भूतघटवदिति ।
१ सि. क. 'सच्चात्मक्रि० । २ सि. क. 'लाईतचाह । नात्रयस्य, सि. क. क्ष. मृद्भावेनामुत्पाद्य विनात्तयस्य । द्वा० न० ९ (८६)
,
Jain Education International 2010_04
६७९
2
यदपि चेत्यादि, एतस्य पूर्वपक्षस्योत्तराभिप्रायेणोच्यते-न असत्कार्यत्वसिद्धेरिति यावत्तस्मान्न प्रागुत्पत्तेः सदसत्कार्यमिति, गतार्थम्, अत्रोत्तरमाचार्य आह - एतदपि नैव, असत्कार्यत्वसिद्धिवत् सत्कार्यत्वसिद्धेरित्युपक्रम्य भावानां यावत्सत्कार्यत्वमिति, यथा मृद्भावादप्रच्युतस्य घटस्य मृद्भावेनानुत्पाद्याविना - 20
मूलमवतारयति-यदप्युच्यत इति । यदुच्यते घटात्मनाऽसत्त्वाद्धटोऽसन्नवेति तत् कुतः, मृत्तत्त्वभूतस्य घटस्य सत्त्वात् सन्नपीति कुतो नोच्यत इत्याह-असत्त्वादिति । मृदि यदि मृत्तत्त्वभूतो घटो न सन् भवेत् तर्हि न सोऽत्र कदापि पिण्डशिवकादिक्रमेणानुभवपथं यायात्, याति च क्रमतोऽनुभवपथं तस्मात्तत्र सदपीत्याशयेनाह - तत् पुनः सत्त्वमिति, द्रव्यार्थेन घटादेः स्वरूपमवस्थितं यस्मिन् तथाविधे मृदाख्ये वस्तुनि क्रमेण जन्म यस्यैवंविधस्य घटस्यानुभवः क्रमेणैव प्राप्यते इति शब्दार्थः । अत्रार्थे दृष्टान्तमाह-यथेति प्रत्यग्रता - नवीनता । अथ यद्यप्युक्तमापेक्षिकं सदसत्त्वं स्याद्वादी किलेत्थं समर्थयति - मृदात्मना घटस्य 25 प्रागुत्पत्तेः सत्त्वं घटात्मना चासत्त्वमिति पूर्वपक्षं विधाय तदुत्तरतया नासत्कार्यत्वसिद्धेरित्यादि तन्निराकर्तुमाह-यदपि चेति । वैशेषिकस्योत्तरमेव प्रदर्शयति-असत्कार्यन्वेति कृतव्याख्यानमेतत् । स्वोत्तरमुपदर्शयति- एतदपि नैवेति । तदुपदर्शितामसत्कार्यत्व सिद्धिमुपवर्णयति यथेति मृदात्मा घटो न कृतिविषयः, तेन रूपेण तस्योत्पत्तिविनाशराहित्यात् ततश्च तेन रूपेण
For Private & Personal Use Only
5
३ सि. क. धुत्तरनेव० । ४ डे. मृद्भावेनामुत्पाद्यावि
www.jainelibrary.org