________________
६७८
न्यायागमानुसारिणीव्याख्यासमेतम् [विधिनियमोभयारे न केवलं शब्दार्थकथनमात्रादेवोभयार्थत्वम् , किं तर्हि ? वस्तुखरूपणमपि क्रियते तद्यथा
मृदात्मानं घटात्मानं द्रव्यार्थपर्यायार्थम् , द्रव्यं हि घटो यावद्रव्यार्थमत्यन्तसन् , पर्यायस्तु यावत् पर्यायार्थमसन् , यथा च घटात्मा मृदप्येवम् , इदमपि च कुतो निष्पन्नेऽपि घटे मृत्त्वदर्शनात् मृदात्मकस्योपादानम् , न पुनधृत्यादिवत् सङ्ग्रहादिदर्शनाजलाद्यात्मकस्येति? 5 तस्मान्न मृद एव दर्शनमुभयथाऽपि ।
मृदात्मानमिति, मृदात्मानं द्रव्यार्थपर्यायाथ, वर्णयन्तीति सम्बध्यते, घटात्मानश्च द्रव्यार्थपर्यायार्थश्चेति, तयोर्यथाक्रमं व्याख्या द्रव्यं हीत्यादि-द्रव्यार्थस्य यावगव्यार्थं घटोऽत्यन्तसन्निति घटस्यैव पूर्वोत्तरावस्था मृदादिव्रीहिबीजादिर्भवतीति प्रागपि भावितार्थम् , पर्यायस्त्विति, पर्यायार्थस्य यावदसन्निति तद्विपर्ययेण गतार्थम् , यथा च घटात्मा मृदप्येवं द्रव्यार्थपर्यायार्थाभ्याम् , इदमपि च कुत इत्यादि, यदु10 च्यते निष्पन्नेऽपि घटे मृत्त्वदर्शनात् मृदात्मकस्योपादानमित्येषोऽपि विशिष्टंपार्थिवमृत्त्वदर्शनेनैकान्तः कुतः
सम्भवति ? सङ्ग्रहपक्तिव्यूहावकाशदानधर्मजलानलानिलगगनव्युदासेन धृत्यादिधर्मपृथिव्याद्यात्मकतैवेति, तत्प्रदर्शयति-न पुनधृत्यादिवत् सङ्ग्रहादिदर्शनादित्यादि, तस्मिन् वस्तुनि विद्यमानसर्वधर्मदर्शनानि यावद्निर्देश्यञ्चेति, तस्मान्न मृद एव दर्शनमुभयथापि यदि मृदि मृदात्मदर्शनमथ घटे मृदात्मदर्शनमिति ।
wwwww
रक्तत्वादिष्वित्यर्थः । द्रव्यशब्दार्थ व्याकरोति-मृद इति। पर्यायशब्दार्थ व्याकरोति-तेष्विति रूपादिपर्यायेषु नित्यतया वर्तमान 15 द्रव्यं पर्यायतः शकलीकरणादभेदभेदः पर्यायशब्दार्थ इति भावः । अथ द्रव्यशब्दपर्यायशब्दयोरर्थव्याख्यानादेव द्रव्यपर्याया
वुभयलक्षणाविति न मन्तव्यं, किन्तु वस्तुस्वरूपस्य निरूपणमपि द्रव्यार्थपर्यायार्थाभ्यां क्रियत इत्याह-वस्तुस्वरूपणमपीति । तद्दर्शयति-तद्यथेति मृदात्मा द्रव्यतां पर्यायताञ्च प्राप्त इति वर्णयन्तीति भावः, अनेन द्रव्यस्योभयार्थत्वमुक्तम् । पर्यायस्योभयार्थत्वमाह-घटात्मानञ्चेति, घटो हि मृदः पर्यायविशेषोऽतः पर्यायतां प्राप्तः, मृदात्मनो घटस्यैव च प्राचीनमृत्पिण्डाद्यवस्थाः
अर्वाचीनाश्च कपालकपालिकाशकलशर्करापांशुरजस्त्रुटिपरमाण्वादिव्रीहिबीजादयोऽवस्था इति द्रव्यतां प्राप्तोऽत एवात्यन्तसन्निति 20 भावः । तदर्शयति-घटस्यैवेति, मृत्पिण्डादिव्यतिरिक्तस्य घटस्योपलब्धिलक्षणप्राप्तस्यानुपलम्भादसन घटः, मृत्पिण्डाद्यपि च
रूपरसादिव्यतिरिक्तस्याभावात् रूपाद्यपि कृष्णादिव्यतिरिक्तस्याभावात् कृष्णाद्यपि चैकगुणकृष्णादिव्यतिरिक्तस्याभावादसदित्येवं यावत् परमाणुशो विभजनादसदेवातः पर्यायार्थतो घटोऽसन्निति भावः। तदेवं मृत् मृदपि घटोऽपि घटश्च मृदपि घटोऽपि द्रव्यार्थपर्यायााभ्यामित्येवमवस्थिते वस्तुस्वरूपे यद्भवता निष्पन्नेऽपि घटे मृत्त्वदर्शनात् मृदात्मा घट उपादानमिति विलक्षणधृतिधर्म
पृथिव्यात्मकमृत्त्वदर्शनात् घटो मृदेव, तस्मादत्यन्तसन्नित्येकान्त उच्यते तत् कथं सम्भवतीत्याशयेनाह-यथा चेति । जलादि25 धर्माणामपि तत्र दर्शनमस्तीति प्रदर्शयति-सङ हेति । धृत्यादिधर्मपृथिव्याद्यात्मकत्वदर्शनेऽविशिष्टेऽपि कथमुच्यते धृतिधर्मपार्थिवमृत्त्वदर्शनेन मृदेव घटो न तु जलादिः, संग्रहादिधर्मजलाद्यात्मकत्वेऽपीत्याशयेनाह-न पुनरिति । तथा च घटे यावद्धर्मदर्शनं
दात्मको घट इत्याह-तस्मिन् वस्तनीति । तथा च द्रव्ये मृदि पर्याये घटे वा यावव्यार्थदर्शनं तावन्मृद्धटौ द्रव्यमेव, न तु मृदात्मकतादर्शनमात्रान्मृदेवेति निरूपयति-तस्मान्न मृद एवेति, मृदि मृदात्मदर्शनं वा भवतु घटे मृदात्मदर्शनं वा भवतु,
उभयथा न तत्र मृद एव दर्शनं वक्तुं युक्तम्, किन्तु मृदोऽपि दर्शनमित्येव, तथा च मृदोऽपि दर्शनान्मृद् घटो वा मृदपीति 30 भावः । प्राक् घटस्य घटात्मनाऽसत्त्वात् क्रियोपपन्नेति जैनोक्तिरूपतो यदुक्तं त्वया तदपि तन्मतापरिज्ञानमूलमेवेति निरूपयितुं
१ सि. क.क्ष. डे. मृदप्येव । २ सि. क. विशिष्टापा । ३ सर्वप्रतिषु दर्शनमित्यादि ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org