________________
जैनोक्तिप्रदर्शनम्] द्वादशारनयचक्रम्
६७७ कार्यमुत्पत्तेः सत् , तथा घटात्मत्वात् , अपिशब्दात् सर्वात्मकत्वात् शिवकादिपांश्वादिव्रीह्याद्यात्मनापि सत्, तथा चासत्कार्यत्वानुक्तिः सत्कार्यत्वोक्तिरेव कृता तथा वदतेति, तस्मान्न स्याद्वादिन एवमाहुः एकान्तवादिन इवानपेक्ष्य पूर्वापरम् ।
कथं ताहुरिति चेदत आह
सदसदात्मकैकं वस्तुतत्त्वं द्रव्यार्थपर्यायार्थोभयलक्षणं जैना उपवर्णयन्ति खपुष्पव- 5 दन्यथाऽसम्भवात् , द्रव्यशब्दमपि मृदादिरूपाद्यतीतानागतवर्तमानभेदाभेदार्थ पर्यायशब्दं सर्वाभेदभेदार्थ तेष्वेव, तस्मादुभयोरुभयार्थत्वम् ।
सदसदात्मकेत्यादि, द्वयात्मकं वस्तुतत्त्वमित्येतस्यार्थस्य प्रत्यक्षीकरणार्थ जैनाः स्याद्वादिन एकमेवात्मानं परमार्थ द्रव्यार्थतः सत्त्वात् पर्यायार्थतोऽसत्त्वात्तदुभयलक्षणमुपवर्णयन्ति, तादृग्वस्त्विति प्रतिपादितत्वात् , खपुष्पवदन्यथाऽसम्भवात्-उभयरूपैकात्म्याभावादेकरूपस्य द्रव्यार्थात्मनः पर्यायार्था- 10 त्मनो वा निर्भेदत्वानिर्बीजत्वाञ्च खपुष्पवर्दैतिप्रसङ्गात् सदसद्रूप एवात्मा वस्तुन इति, द्रव्यशब्दव्याख्याद्रव्यशब्दश्च मृदादिरूपाद्यतीतानागतवर्त्तमान[भेदाभेदार्थ वर्णयंतीति वर्त्तते-मृदः पिण्डशिवकादयः क्रमभुवः, सहभुवः रूपरसादयश्च भिन्नाः त्रिषु कालेषु मृदादयो वर्तमानाश्च रक्तत्वादयो वृत्तहुण्डादयश्च ते च भिन्ना अप्यभिन्नाः स्वां मूर्तिमनतिवर्तमानत्वादिति भेदाभेदार्थमेव द्रव्यशब्दं वर्णयन्ति, पर्यायशब्दं सर्वाभेदभेदार्थं तेष्वेव-त्रिष्वेव त्रिकालवर्तमानकालवर्त्तिषु जाति भिन्दन्तं वर्णयन्ति, तस्मादुभयो- 15 रुभयार्थ[त्व]म् । तथेति । घटात्मनापीत्यपिशब्देन सार्वात्म्यप्रतीतेः सर्वरूपेणापि सत्त्वप्रसक्त्याऽसत्कार्यवादता भग्ना सत्कार्यवादतैव च प्रसक्ता, अत एव च स्याद्वादी नैवं ब्रूत इत्याह-अपिशब्दादिति। पूर्वापरमिति, 'विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम्' इति सूत्रेण द्वन्द्वे वैकवद्भावः। स्याद्वादिनस्तर्हि कथमाहुरित्यत्राह-सदसदिति। व्याचष्टे-व्यात्मकमिति, द्वौ आत्मानौ यस्य तद् यात्मकं तत्त्वं सर्ववस्तूनां स्वभावः, अयमर्थः सामान्यतोऽप्रत्यक्षः, तस्य विशेषतः प्रत्यक्षीकरणार्थ 20 स्याद्वादिनो हेतुमुखेन वर्णयन्तीति भावः । वर्णनप्रकारमाह-एकमेवात्मानमिति । एकस्योभयरूपैकात्म्याभावेऽसम्भवं वस्तुतत्त्वस्य दशेयति-उभयरूपति, यदि केवलं द्रव्याथोत्मक वस्तु तहि तस्यैकत्वेन परिदृश्यमाना घटपटकटमठादिभेदा न स्युः यदि च केवलं पर्यायात्मकं तथापि प्रत्यक्षादिप्रमाणप्रतिपन्नस्य पिण्डशिवकस्थासकादिपर्यायाऽत्मकमृद्रव्यस्य निवृत्तेस्तदव्यतिरिक्तपिण्डशिवकस्थासकादिपर्यायाणामपि प्रत्यक्षाद्यवगतस्य निवृत्तिप्रसङ्गः, न ह्यबाधितप्रमाणविषयस्य सामान्यस्य निवृत्तियुक्ता, सर्वभावनिवृत्तिप्रसङ्गेन सर्वव्यवहारविलोपापत्तेः, तस्मात् यद्यदात्मकं तत्तदभावे न भवति, पिंडाद्यभावे मृद्वत् , असदात्मकञ्च 25 सत् तस्मात् तदभावेऽसदपि न स्यात्, तथा सदात्मकमसत् तदभावे न स्यात्, न चैवमिष्टम् , तस्मात् सदसदात्मकं वस्त्विति भावः, निर्भेदत्वात् निर्विशेषत्वात् , द्रव्यार्थात्मैकरूपत्वेऽतिप्रसक्तेर्हेतुः, निर्बीजत्वात्-निःसामान्यत्वात् , अयं पर्यायाथैकरूपत्वेऽतिप्रसक्तेर्हेतुः । अर्यमाणद्रव्यपर्यायावपि नैकान्तेन द्रव्यपर्यायरूपावित्याशयेन द्रव्यपर्यायशब्दार्थमाह-द्रव्यशब्दश्चेति, द्रव्यस्य पर्यायात्मकत्वात् पर्यायस्य च द्रव्यात्मकत्वात्तयोरत्यन्तमेदे खपुष्पवदभावप्रसङ्गाह्रव्यमपि द्रव्यपायरूपम् , पर्यायोऽपि द्रव्यपर्यायरूपः, इयांस्तु विशेषस्तयोः, यदा पर्याय गौणीकृत्य द्रव्यं प्रधानप्रतीतिविषयो भवति, तदा तद्वस्तु द्रव्यशब्दवाच्यं भवति, 30 तस्माद्गोणीकृतभेदात्मकः प्रधानीकृताभेदः द्रव्यशब्दार्थः, भेदः पयायः, अमेदो द्रव्यम् । यदा च द्रव्यं गोणीकृत्य पयायः प्रधान प्रतीतिविषयो भवति तदा तद्वस्तु पर्यायशब्द वाच्यं भवति तस्माद्गौणीकृताभेदात्मकः प्रधानीकृतभेदः पर्यायशब्दार्थः, एवं द्रव्यशब्द भेदाभेदार्थ पर्यायशब्दश्चाभेदभेदार्थ जैना उपवर्णयन्तीति भावः । त्रिकालेति, त्रिकालवर्त्तिषु मृदादिषु वर्तमानकालवर्त्तिषु
१ सि. क. तदा। २ सि. क. सत्कार्योक्ति० । ३ सि. क. °मावक्तुरेका० । ४ सि.क. दतीवप्र०। ५ डे. इदं पदानस्ति ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org