________________
६७६
न्यायागमानुसारिणीव्याख्यासमेतम् [विधिनियमोभयारे दयः, तथा पिण्डादयोऽपीत्यसद्वादः, इत्थं पुनः कोऽनेकान्तवादी ब्रूयात् यथाऽसावसद्वादी ब्रूते रूपं रसात्मना नास्ति, रसोऽपि रूपात्मना कृष्णाद्यपि शुक्लात्मनेत्यादि, न ब्रूयादेवेत्यर्थः, किं कारणम् ? धृतिसङ्ग्रहपक्तिव्यूहावकाशदानात्मकपृथिव्याद्यात्मकत्वान्मृदादेर्घटादेश्च कथं मृदमेकामपेक्ष्य मृदात्मनैवास्तीत्यापेक्षिक सत्त्वम् ? असद्वादिवत् , कः कुशलो ब्रूयादिति सम्बध्यते, अत्र प्रयोग:-आपेक्षिकमृदात्म5 सद्विशेषणात्तु असदभिधानमेवेदं मृदात्मना सत्, घटात्मना चासदिति वचनम् , कुतः ? अभिधेयस्वतत्त्वनिरसननियतत्वात्-अभिधेयस्य मृत्पिण्डस्य स्खं तत्त्वं देशभिन्नरूपरससंस्थानादि कालभिन्नरूपरसशिवकादि पाश्वादि धृत्त्यादिलक्षणभिन्नपृथिव्यादि च, मृदात्मनैवास्ति घटो न रूपादिशिवकाद्यबादिस्वतत्त्वैरिति अस्य स्वतत्त्वानि सन्त्येव निरस्तानि स्युः, तन्निरसने नियतत्वादस्य वाक्यस्य, यद्वाक्यमभिधेयखतत्त्वनिरसननियतं तत्तदसदभिधानं दृष्टम् , यथाऽनुष्णोऽग्निरित्युक्तिः, अभिधेयस्वतत्त्वनिरसन नियतत्व]मसिद्ध10 मिति मा मंस्थाः, सिद्धमेवाबाद्यात्मव्युदसनात् , स्यान्मतं नावधार्य मृदात्मनैव सन् , नान्येनेति ब्रूमः किं तर्हि ? मृदात्मना भवन् सन् घटो यदि रूपादिपिण्डादिशिवकार्यबाद्यात्मभिरपि मैंवेद्भवतु नाम तदात्मा को दोषः ? इति, अत्र ब्रूमः, अव्युदासे तु घटात्मनापि सन्नेव, तद्भावत्वात् , ते भावा रूपादिशिवकार्येबादिव्रीह्यादयो घटादयश्चास्या मृदः, तद्भाव[स्य] भावस्तद्भावत्वं तस्मात्तद्भावत्वात् , यथा मृदात्मना प्राक
तथा चैवमसत्त्वं युगपदयुगपद्भाविपर्यायाणामसदैकान्तवाद्येव ब्रूते न तु स्याद्वादीत्याशयेनाह-इत्थं पुनरिति । मृदादीनां घटादीनां 15 च पाञ्चभौतिकत्वात् केवलं मृदात्मनैवास्तीति स्याद्वादी कथं ब्रूयादिति हेतुमाह-धृतीति, धृतिर्धारणं वर्तनं वा, पृथ्वीधर्मः
प्रजानां भूतान्तराणाञ्च धृत्या पृथिवी उपकरोति, सङ्ग्रहो जलधर्मः जल सङ्ग्रहेण पिण्डीकरणेन शुद्ध्या चोपकरोति, पक्तिः पाचनं तेजो धर्मः तेज आहारपाचनेनोपकरोति, वायुः व्यूहधर्मा सर्वपदार्थानां व्यूहनेनाविरलीकरणेन आकाशश्वावकाशधर्मा सर्वेषामव. काशप्रदानेनोपकारक इति धृत्याद्यात्मकपृथिव्याद्यात्मको घटो मृदादि च, तस्मात् घटं त्यक्त्वा एका मृदमपेक्ष्य मृदात्मनैवास्तीत्युक्ती
एकान्तवाद एवायं स्यात्, न तथा सुसमीक्षितवाक्यगुणदोषज्ञः स्याद्वादीतरनिरपेक्षं सत्त्वमसत्त्वं वा वक्तुमुत्सहत इति भावः । 20 अमुमेवार्थ प्रयोगतः प्रज्ञापयति-अत्र प्रयोग इति, सत्त्वे हि विशेषणं प्रदर्शितं मृदात्मनेति, तेन मृदात्मनैव सत्त्वं गम्यते
न तु मृत्पिण्डस्य तत्त्वभूतैः देशभेदलक्षणरूपादिभिः कालभेदलक्षणशिवकादिपांश्वादिभिः सङ्ग्रहपत्याद्यात्मकजलादिभिश्च सत्त्वमिति मृदात्मना सदित्यादिवचनमसदभिधानमेव, मृच्छब्दाभिधेयानां स्वतत्त्वानां रूपादिशिवकादिजलादीनां निरसने नियतत्वात् , यथा अग्नेरुष्णं तत्त्वं तन्निरसने नियतमनुष्णोऽग्निरिति वचनमसदभिधानमेव तद्वदिति भावः । यद्यपि मृदात्मना सदित्यत्र मृच्छब्दाभिधेयो यावानर्थस्तावदात्मना सन्निति नाभिधेयनिरसननियतमित्यसिद्धो हेतुः, तथापि मृदात्मनेत्यस्य मृत्पिण्डपर्यायरूपेणेत्यर्थः, एतस्मिन्नर्थ 25 गमकञ्च घटात्मना न सदिति वाक्यम् , अन्यथा घटस्यापि मृच्छब्दाभिधेयत्वात् तद्रूपेणापि सत्त्वात् , तस्मान्नासिद्धो हेतुरित्याशये
नाह-अभिधेयस्य मृत्पिण्डस्येति । व्याप्तिं ग्राहयति-यद्वाक्यमिति । हेत्वसिद्धिं निराचष्टे-अभिधेयेति । ननु सर्व वाक्यं सावधारणमिति न्यायमभ्युपेत्य मृदात्मनैवेत्यर्थे मृदात्मनेति न बमो येनाभिधेयखतत्त्वनिरसननियतं वाक्यं स्यात् , किन्तु तन्नियमानभ्युपगमेनैव, तथा च मृच्छब्दाभिधेयनिखिलतत्त्वात्मना घटः सन् स्यात् को दोष इत्याशङ्कते-स्यान्मतमिति ।
तथा सति घटात्मनापि सत्त्वप्रसक्त्या घटात्मना न सन्निति वचनं निरर्थकं स्यादित्याशयेनोत्तरयति-अव्यदासे त्विांत, अभिधेय. 30 स्वतत्त्वनिरसनानङ्गीकारे त्वित्यर्थः । हेतुमाह-तद्भावत्वादिति । ते भावा अस्यासौ तद्भावः, तस्य भावस्तत्त्वं तस्मादिति विग्रह
इति मत्त्वाऽर्थवर्णनपूर्वक विग्रहमाह-ते भावा इति। यो यद्भाव: स तेन रूपेणापि सन्नेवेत्यत्र दृष्टान्तमाह-यथेति । उपनयति
१ सि. क. कम० । २ सि. क. °द्यपादि० । ३ सि. क. न्यस्य० । ४ सि. क. °बापाद्या०। ५ क xx। ६ सि. क. °द्यापाद्या०। ७ सि. क. भवद्भ०। ८ सि. क. धपादि। ९ सि. क. घटारमना।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org