________________
पूर्वपक्षासत्यता] द्वादशारनयचक्रम्
६७५ वाचित्वात् , स चाभूत्वोत्पत्त्यर्थः प्राकू शब्दोच्चारणादेव साक्षादभ्युपगतः तेन स्यात्, ततः किमर्थं विवदेत, अभ्युपगम्यासत्त्वैकान्तं मृदात्मना सत् घटात्मना चासत्कार्यमिति, तथापि भ्रान्तिमपि न ब्रूते, किश्चान्यत्-अत्यन्तासमीक्षितभाषिणैकान्तवादिनापि न तुल्यतामेत्यसौ-घटादन्यस्या मृद आत्मा तेनात्यन्तमन्यो घटो भवति स्वेन च घटात्मना न भवतीत्येवं ब्रुवन् प्रत्यक्षादिविरुद्धमत्तोन्मत्तकादिवत् स्यात् सोऽपि चैकान्तवादी प्रत्यक्षादिविरुद्धं किश्चित् परिहरतीति ।
किञ्चान्यत्
देशकालभेदलक्षणोभयपर्यायमात्रत्वाच्चैवमयमसद्वाद एव स्यात् , इत्थं पुनः कोऽनेकान्तवादी ब्रूयाद्रूपं रसात्मना नास्ति रसोऽपि रूपात्मना कृष्णाद्यपि शुक्लात्मनेत्यादि, धृतिसङ्ग्रहपक्तिव्यूहावकाशदानात्मकपृथिव्याद्यात्मकत्वान्मृदादेर्घटादेश्च कथं मृदमेकामपेक्ष्य मृदात्मनैवास्तीत्यापेक्षिकमसत्त्वमसद्वादिवत् , आपेक्षिकमृदात्मसद्विशेषणात्त्वसदभिधानमेवेदं मृदा- 10 त्मना सत् घटात्मना चासदिति वचनम् , अभिधेयस्वतत्त्वनिरसननियतत्वात् , यद्वाक्यमभिघेयस्वतत्त्वनिरसननियतं तदसदभिधानं दृष्टम् , यथाऽनुष्णोऽग्निरित्युक्तिरिति, अव्युदासे तु घटात्मनापि सन्नेव, तद्भावत्वात् , तथा च सत्कार्यत्वोक्तिरेव कृता तथा वदता।। ___देशकालेत्यादि, देशतो भेदो रूपरसादीनाम् , कालतो भेदः पिण्डशिवकादीनाम् , स भेदो लक्षणं सहासहावस्थायिनामुभयेषां पर्यायाणां ते देशकालभेदलक्षणोभयपर्यायाः, तत्परिमाणं देशकाल[भेद]- 15 लक्षणोभयपर्यायमात्रं तद्भावात्-तन्मात्रत्वात् , एवं-अनेन प्रकारेणायमसद्वाद एव स्यात्-रूपं रसादन्यत् तदपि विभज्यमानं कृष्णं पुनरप्येकगुणकृष्णमित्यादि यावत् परमाणुशो विभागादसदेव रूपम् , एवं रसा
प्राक्शब्दो घटोत्पत्त्यवस्थाप्राक्कालीनां प्रागभवद्रूपामवस्थामाह, तथा च प्रागभवन् पश्चाद्भवति घटः, अभूत्वोत्पत्तिमान् घट इति यावत् , एवञ्च पूर्वावस्थावाचिप्राकूशब्दमहिम्नाऽभूत्वोत्पत्तिर्गम्यते, तस्मात् प्रागसन्नेव घट इत्येकान्तः प्रागसन् घट इत्युक्त्याऽभ्युपगत इति तत्र वादाभाव एव स्यादिति भावः। मृदात्मना सत् घटात्मना चासत् कार्यमित्यसत्कार्याभ्युपगन्तृणां येषां केषामपि स्याद्वादिन 20 बौद्धानां वैशेषिकाणां वा कुतः परस्परं वादः स्यादभ्युपगमैक्यात् , यदि तु सोऽभ्युपगमो भ्रान्तिरूप इति स स्याद्वादी ब्रूयात् स्यात्तदा वादः तमपि स न ब्रूत इत्याह-अभ्युपगम्येति । अत्रैव तस्य दोषान्तरमाह-अत्यन्तेति, सुतरां विचारव्यतिरेकेण प्रमाणासहमर्थ भाषमाणोऽप्येकान्तवादी प्रत्यक्षादिविरुद्ध कदाचित् कञ्चिदंशं परित्यजति, अयन्तु न तथा, मृद् घटादत्यन्तं भिन्ना, तस्या अत्यन्तं भिन्नो घटः प्राक् तदात्मना भवति, स्वात्मना च न भवतीति प्रत्यक्षादिविरुद्धभाषित्वात् , न हि किञ्चित खात्यन्तभिन्नात्मना भवति स्वात्मना च न भवतीति, तस्मात् स नैकान्तवादिनापि साम्यतां यातीति भावः । तथावदतः कारणे 25 कार्यस्यासद्वादः प्रसज्यत इति द्रव्याभ्युपगमेनासद्वादमापाद्य सहक्रमभाविपर्यायमात्रपक्षतोऽप्यसद्वादित्वापत्तिमाह-देशकालेति । देशान्यत्वप्रयुक्तान्यत्वं सहभाविपर्यायाणां कालान्यत्वप्रयुक्तान्यत्वं क्रमभाविपर्यायाणां लक्षणम् , द्विविधपर्यायतोऽन्यद्वस्तु नास्तीति तन्मात्रमेवेति वादवदयमसद्वाद इति दर्शयति-देशतो भेद इति, समुदायरूपेण सहोत्पद्यमानानां रूपरसादीनां परस्परेषां परस्परे एव देशाः, तेभ्यो भेदस्तेषां लक्षणम् , प्रत्येकरूपेणायुगपद्भवितृणां पिण्ड शिवकादीनां परस्परेषां परस्परे एव कालाः, तेभ्यो भेदस्तेषां लक्षणम् , एवंलक्षणपर्यायद्वयमात्रमेव तदुक्तवचनात् प्रतीयते, मृदात्मना सत् घटात्मनाऽसदित्येतावन्मात्रोक्तेरिति 30 भावः । तेन किमित्यत्राह-अनेन प्रकारेणेति । असद्वादं दर्शयति-रूपमिति । रूपस्यावान्तरविभागकरणात् यावत्परमाणु विभक्तं भवति, एवं रसादयोऽपि विभक्ताः परमाणु यावत् भवंति, तेषां परस्परतोऽन्याऽन्यत्वापादनात् शुक्लादिव्यतिरेकेण रूपस्यासत्त्ववत् शुक्लादीनां सर्वेषामसत्त्वमेव स्यादित्यसद्वाद एवेति भावः । एवमेव दर्शयति-तदपि विभज्यमानमिति ।
१ सि. लक्षणभेदासहावस्था०। २ सि.क. कुष्टं ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org