________________
६७४
न्यायागमानुसारिणीव्याख्यासमेतम् [विधिनियमोभयारे यदप्युक्तमापेक्षिकमित्यादि, स्याद्वादी किलेत्थं सदसत्त्वं समर्थयतीति पूर्वपक्षः, मृदात्मना घटस्य प्रागुत्पत्तेः सत्त्वम् , निष्पत्युत्तरकालमपि सत्त्वदर्शनात् , तदात्मकत्वान्मृदुपादानोपपत्तिः, घटात्मना चासत्त्वाद्धटाद्यर्थक्रियोपपत्तिरिति, अत्र किलोत्तरं कटन्दीकार आह न, असत्कार्यत्वसिद्धेः, एवं तीत्यादि
व्याख्या-मृदात्मनः कर्त्तव्यत्वाभावात् , क्रियत इति हि कार्यम् , न च मृत् क्रियते, घटो हि क्रियते स 5 त्वसन्निति, तदुपनयति-तस्मान्न प्रागुत्पत्तेः सदसत्कार्यमिति, अत्र न पूर्वपक्ष इत्याद्याचार्यो ब्रूते अत्रैवं
पूर्वोत्तरपक्षयोर्न किश्चित् सत्यम्-प्रागतीतेषु पूर्वपक्षोऽपि कश्चित् सत्यः स्यात् , विकलादेशवशार्पणात् , यथा सद्भागमाश्रित्योपादानमसद्भागमाश्रित्य क्रियाभाव इत्यादि, इह तु न पूर्वपक्षो नोत्तरपक्षः सत्यः ।
पूर्वपक्षासत्यत्वं तावत्
को हि नाम सोऽनेकान्तवादी ब्रूयात्-प्राक् मृदात्मना सत्, घटात्मना चासत् कार्य10 मिति, यदि ब्रूयादनेकान्तवादत्याग एकान्तवादाभ्युपगमश्च, एवं हि मृदोऽकार्यत्वेऽसत्कार्य
वाद एवावस्थापितः स्यात् , ततश्चैवं ब्रुवाणेषु को भेदः, अभूत्वोत्पत्तिवाचकप्राक्शब्दोच्चारणादेव चासत्त्वैकान्तः साक्षादभ्युपगतः, ततः किमर्थ विवदेत, अत्यन्तासमीक्षितभाषिणैकान्तवादिनापि न तुल्यतामेत्यसौ ।
को हि नाम सोऽनेकान्तवादीत्यादि, एवं ह्यसत्कार्यवाद एवावस्थापितः सदसत्कार्यमव1b स्थाप्य कोऽनेकान्तवादी, एवं ब्रूयादित्यादि, प्रागित्यादि तस्यैव प्रत्युच्चारणं यावद्धटात्मना चासदिति, न
ब्रूयादेवेत्यभिप्रायः, यदि ब्रूयादनेकान्तवादत्याग एकान्तवादाभ्युपगमश्च, कुत इति ? तद्दर्शयति-एवं हि मृदोऽकार्यत्व इत्यादि गतार्थो यावत् को भेद इति, य एवैष वैशेषिको बौद्धो वा स्यादाहतोऽपीति, किश्चान्यत् अभूत्वोत्पत्तीत्यादि यावदभ्युपगतः, प्राक्शब्दो ह्यभूत्वोत्पत्यर्थवाची, घटावस्थातः पूर्वावस्था
तमेव पूर्वपक्षमनुवदति-मृदात्मनेति, स्पष्टम् । अस्य स्याद्वादिमतत्वेनोपन्यस्तस्य पूर्वपक्षस्योत्तरं कटन्दीकृतोक्तं वर्णयति20 अत्र किलोत्तरमिति । घटो मृदात्मना सन् घटात्मना चासन्नित्यभ्युपगमे कार्यभूतस्य घटात्मना घटस्य प्रागसत्वात् मृदात्मना
घटसत्त्वस्य प्राक् सतः क्रियाविषयत्वाभावात् क्रियाविषयीभूतं कार्य कथं सदसदित्याशयेनाह-मृदात्मन इति। मृदात्मनो घटस्य कृतिविषयत्वाभावादित्यर्थः, मृदात्मा घटो हि मृदेव, सा च सिद्धव, न तु साध्यरूपेत्याशयेनाह-क्रियत इतीति । कृतिविषयीभूतश्च घटस्वरूपेण घटः, स प्रागसन्नेवेति दर्शयति-घटो हीति । त्वदुपवर्णितस्याद्वादस्य स्याद्वादसिद्धान्तपरिज्ञानवैधुर्यविलसितत्वेनास्याद्वादत्वादसत्यत्वे तदुत्तरवर्णनमपि सुतरामसत्यमेवेति मनसिकृत्याह-अत्रैवमिति, मृदात्मना घटस्य सत्त्वमित्यादावित्यर्थः । 25 तत्पूर्वतनेषु वादेषु कश्चिदशः सत्योऽस्ति, वस्त्वंशमात्रमवलम्ब्याविरोधेन विधिप्रतिषेधविधानात्, सद्भागमाश्रित्य घटस्योपादाननियमो नान्याश्रयेण, असद्भागमाश्रित्य क्रियाया भावो नान्याश्रयेणेति वस्तुपर्यायघटावलम्बनेनोपादानक्रिययोरविरोधेन विधानात् कश्चिदंशः सल्योऽस्तीत्याह-प्रागतीतेष्विति । तत्रादौ पूर्वपक्षासत्यत्वं दर्शयति-को हि नामेति । प्रागुत्पत्तेमदात्मना सत्
सदित्यक्तावसत्कार्यवाद एव व्यवस्थापितः स्यात्, तस्मान्नायं सिद्धान्तः स्याद्वादिन इत्याह-एवं हीति । मृद एकान्तेनाकार्यत्वमभ्युपेत्य मृदात्मनेत्याद्यभिदधानो यः कोऽपि भवेत् सोऽसत्कार्यवाद्येव स्यात् , नास्ति कश्चिद्वक्तृभेदोऽर्थमेदा30 भावादित्याह-एवं हि मृद इति । मृदात्मना घटः प्राक् सन्नित्युक्तौ कथमसत्कार्यस्यावस्थापनमित्यत्राह-अभूत्वोत्पत्तीति,
अत्र प्राकूशब्दोऽभूत्वोत्पत्तिबोधकः । स कथमित्यत्राह-घटावस्थात इति, प्रागसन् घटो भवति, अत्रासच्छब्दसमभिव्याहृतः
१ सि. क. कृत्य इति । २ सि. क. गमः। ३ सि. क. °भूत्वोन्नार्थ ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org