________________
स्थाद्वायुक्तित्वभ्रमभङ्गः] द्वादशारनयचक्रम्
६७३ दर्शितः, अन्यथा कार्य सदसन्नेति लाघवार्थं ब्रूयात् , एतदपि न किञ्चिदित्याद्युत्तरं यावत् खात्मनि, एकस्मिन् घटपटादावर्थे स्वात्मनि, इतरेतरभूताभूततत्त्वं जगत्-घटात्मना घटोऽस्ति, पटात्मना नास्तैि, तथेति, स्वेनात्म[ना] भूतत्वमभूतत्वञ्चेतरात्मना, तस्माद्भूताभूततत्त्वं जगदिति व्यापितां दर्शयति-न केवलं कार्यमेव सदसदिति, तथा वृत्तावृत्ताभ्यां पिण्डशिवकपर्यायार्थाभ्यां क्रमभा[विभ्याम] विभक्तो द्रव्यार्थ एकस्तस्य भावना-मृत्पिण्ड एव शिवकीभवति, शिवक एव स्थासकीभवतीत्यादि यावद्धटो यावच्च पाशुर्या- 5 वच्च परमाणुरित्यवस्थासु मृत् पिण्डात्मना भवति शिवकाद्यात्मना न भवतीति पिण्डो भावाभावात्मकः, तथा शिवकोऽपि शिवकात्मना भवति न पिण्डात्मना तथोत्तरास्ववस्था वितरेतराभावस्वरूपेण स्वेन च भावरूपेण सदसदेव, 'सच्चासत्' (वै० अ० ९ आ० १ सू० ४) इति वचनात् , एवं सकलं जगत् वृत्तावृत्तपर्यायार्थेनाविभक्तद्रव्यार्थभावनायां सदेवासत् , किन्तूभयेत्यादि, किं पुनर्युगपद्भाविनामयुगपद्भाविनाश्च पर्यायाणां रूपरसादीनां शिवकादीनाञ्च प्रत्यपेक्षया भावयितव्यो यस्य वस्तुनः स्वात्मा तस्मिन् 10 भावयितव्ये, निःसन्दिग्धमेव तदाऽसत्त्वमपीत्यर्थः, तदुपसंहरति तथा चेति गतार्थम् ।
यदप्युक्तमापेक्षिकं सदसत्त्वं स्याद्वादी किलेत्थं समर्थयति-मृदात्मना घटस्य प्रागुत्पत्तेः सत्त्वम् , घटात्मना चासत्त्वमिति, न, असत्कार्यत्वसिद्धेः-एवं तर्हि मृदात्मनः कर्तव्यत्वाभावात् , क्रियते इति हि कार्यम् , न च मृत् क्रियते घटो हि क्रियते स त्वसन् , तस्मान्न प्रागुत्पत्तेः सदसत्कार्यमिति, अत्र न पूर्वपक्षो नोत्तरपक्षश्च सत्यः।
सन्नेति समानविभक्तिकनिर्देश एव लाघवात् कुर्यादिति भावः । अथ सदसतोवैधर्म्यनिराकरणाय निखिलं जगत् स्वपररूपेण सदसत् भूतमभूतञ्चेति सदसत्त्वयोरेकाधिकरणभावेनैव निर्धारणमस्तीत्याशयेनोत्तरयति-एतदपि नेति । सर्वेषां घटपटाद्यर्थानां सर्वथा भावरूपत्वे सर्वसर्वात्मकत्वप्रसङ्गात् प्रतिनियतप्रतीतिव्यवहारादयो न स्युः, सर्वथाऽभावरूपत्वे वा शून्यताप्रसक्त्या हिताहिततत्प्रवृत्तिनिवृत्त्याद्यभावात् तदावेदकशास्त्रप्रणयनाद्यनुपपत्तिः स्यादिति स्वरूपेण वस्तूनां सत्त्वं पररूपेण चासत्त्वमवश्यमभ्युपगन्तव्यमिति दर्शयतिइतरेतरेति। भूतो घट इत्यादिव्यवहारविषयं भूतत्वं न घटस्य सर्वात्मना, तस्य द्रव्यत्वेनैव नित्यत्वात् , तथा द्रव्यातिरिक्तेनैव रूपेणाभू- 20 तत्वं वाच्यं तच्च रूपं पर्याय इति सर्व वस्तु द्रव्यात्मना भूतं-नित्यं पर्यायात्मना चाभूतमनित्यम् , भूतशब्दस्य त्रिकालवस्तुविषयत्वात् , तस्मादितरेतररूपेण भूताभूतत्वं सर्ववस्तूनां तत्त्वं स्वरूपमिति निखिलं जगदितरेतरभूताभूततत्त्वमिति सर्ववस्तुव्यापित्वमस्य स्वरूपस्येति दर्शयति-तस्मादिति । क्रमभाविपर्यायैरेव न सदसत्त्वमित्येतत् ख्यापयितुं प्रथम क्रमभाविपर्यायैः सदसत्वं दर्शयतिवृत्तावृत्ताभ्यामिति, वर्तमानावर्त्तमानपर्यायाभ्यामित्यर्थः, मृत्पिण्ड एव शिवको भवति शिवक एव स्थासकः, स एव कोशःस एव कुसूलः, स एव घटः स एव कपालः स एव कपालिका, सैव शकलं तदेव शर्करा सैव पांशुः स एव रजस्तदेव त्रुटिः सैव 25 परमाणुरित्येवं निरन्तरं वस्तुनः परिणामात् तदेव वस्तु वर्तमानपरिणामेन सत् , अवर्तमानपरिणामेन चासदिति सदसद्रूपमिति भावः। । परिणामपरम्परा दर्शयति-मृत्पिण्ड एवेति । मृदः सदसद्रूपत्वमाह-अवस्थाखिति । तत्र वैशेषिकं वचनमपि दर्शयतिसच्चासदिति । क्रमभाविपर्यायैः सदसत्त्वं प्रदर्श्य सहभाविपर्यायैरपि सदसत्त्वं वर्णयति-किन्तूभयेति, वस्तुनः स्वात्मनि ऋमिकपयायः सहभाविपयायैश्च सदसत्त्वं निःसंदिग्धमेवेति भावः । ननु पूर्वपक्षतया स्याद्वादिनोऽभिमतमिति यदुपणितं त्वया तदपि स्याद्वादानवबोधविजृम्भितमेवेति त्वदीयः पूर्वपक्षस्तदुत्तररूपतो वर्णितः पक्षश्चासदर्थ एवेति दर्शयितुमाह-यदप्युक्तमिति । 30
__ १ सि. क. क्ष. डे. एकस्मिन्न कस्सिन् । २ सि. क. क्ष. डे. नास्तिपतयेति घटपटादावर्थे तत्त्वात्मनि । ३ सि. क. सदपी।
___Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org