________________
६७२
न्यायागमानुसारिणीव्याख्यासमेतम् [विधिनियमोभयारे नियमोऽस्तीत्यनेकान्तः सिद्ध्यतीति, सद्भागमाश्रित्य च क्रियाया अभाव एव-यो घटस्य कार्यस्य सत्त्वमेव द्रव्यार्थतो वाञ्छति, तस्य क्रियाया नास्त्येव प्रयोजनम् , नैव क्रियाऽस्तीत्यनियमः, किं कारणं ? तस्य वादिनः सर्वस्य सर्वात्मकत्वात् , मृत्पिण्डो हि युगपदयुगपद्भाविसर्वधर्मात्मकः, तेन प्रकारेण तथा, द्रव्यार्थवादप्रकारेण, तथा भावस्तथात्वं सर्वसर्वात्मकत्वं, तस्मात्तथात्वादसन्नाम किश्चिन्नास्ति, अतोऽत्यं5 तमसतोऽभावात् प्रत्येकनयविवक्षायामन्यतराश्रय इतरस्याभावान ह्यत्र विशेषहेतुनार्थ एव ।।
यत्तूच्यते सदसतोर्वैधादेकस्मिन्नेव कार्ये प्रागुत्पत्तेः सदसच्छब्दार्थयोरेकाधिकरणभावेन प्रयोगो नास्ति-सदेवासदित्यनुसन्धानं नास्त्येकाधिकरणभावेनेति प्रयोगानुपपत्तिः, एषोऽर्थो दर्शितः कार्ये सदसत्ता नेति सप्तम्यभिधाने नेति, एतदपि न किञ्चित् , इतरेतरभूताभूततत्त्वं जगत्, न केवलं कार्यमेव सदसत्, वृत्तावृत्तपयोयार्थेनाविभक्तद्रव्यार्थभावनायां 10 निखिलं जगत् सदेवासत् , किन्तूभयपर्यायप्रत्यपेक्षया भावयितव्ये निःसन्दिग्धमेव वस्तुनः स्वात्मनि, तथा चेतरेतराभावरूपेण स्वेन च भावरूपेण सदेवासत् सर्वमिति न सदसतो_धर्म्यम्।
यत्तूच्यत इत्यादि, यावत् सप्तम्यभिधानेन दर्शयति, सूत्रार्थः कृतव्याख्यातः सदसतोवैधादिति, किमुक्तं भवति परस्परविरोधात् समानाधिकरणभावेनैकस्मिन् प्रागुत्पत्तेः सञ्चासच्च तदेवेति [सद]
सच्छब्दार्थयोर्विरोधादेकस्मिन्नेव कार्ये कुतः सत्त्वं प्रागुत्पत्तेः ? किन्तर्हि ? असत्त्वमेवेति सदसच्छब्दार्थ15 योरेकाधिकरणभावेन प्रयोगो नास्तीति, तद्व्याचष्टे-सदेवासदित्यनुसन्धानं नास्त्येकाधिकरणभावेनेति बुद्ध्या निर्धारणं नास्ति तदभावात् प्रयोगानुपपत्तिः, एषोऽर्थ एकस्मिन्नेव कार्ये सदसत्ता नेति सप्तम्यभिधानेन
Miwww
वतीत्यर्थः । सद्भागमाश्रित्य क्रियाया नियमोऽपि नेत्याह-सद्भागमाश्रित्येति । सदसदात्मके वस्तुनि योऽयं सद्भागो द्रव्यार्थतः तमाश्रित्येत्यर्थः, एतन्मते हि कार्यतयाऽभिमतानां सर्वेषां द्रव्यात्मना सदा सत्त्वान्न किञ्चिन्निवर्तनीय रूपमसदस्तीति क्रिया किंकरी स्यादिति क्रियाया अभाव एवेति नास्ति क्रियाया नियम इत्याह-यो घटस्येति । हेतुमाह-तस्य वादिन इति, द्रव्यार्थतः 20 सत्त्वाभिलाषिणो जलभूम्योः पारिणामिकं रसादि वैश्वरूप्यं स्थावरेषु दृष्टम् , तथा स्थावराणां जङ्गमेषु, जङ्गमानां स्थावरेषु, स्थावराणां
स्थावरेषु, जङ्गमानां जङ्गमेषु जात्यनुच्छेदेन सर्व सर्वात्मकमिति वादिनः सर्वसर्वात्मकत्वान्नासन्नाम किञ्चिदस्ति, यदाश्रित्य क्रियानियमो भवेदिति भावः । सर्वसर्वात्मकत्वे निदर्शनमाह-मृत्पिण्डो हीति । उभयात्मकैकरूपत्वे विशेषहेत्वभावादित्युक्तौ विशेषहेत्वपेक्षैव नास्ति पर्यायार्थनयाश्रयणे कार्यस्योपादानानपेक्षणाद्रव्यार्थनयाश्रयणे चासत एवाभावाद्विशेषहेतुना किं क्रियत
कनयविवक्षायामिति । सदसतोवैधादिति सूत्रं व्याख्यातमेव पूर्वमित्याह-सूत्रार्थ इति । तात्पर्य 25 वक्ति-किमुक्तमिति, सत्त्वमसत्त्वञ्च इतरेतराभावरूपत्वात् परस्परं विरुद्धमत एव च तयोर्न सामानाधिकरण्यमिति यदेव सत्
न तदेवासदिति प्रागुत्पत्तेः कार्यस्यासत्त्वेन तत्रैव कथं सत्त्वं स्यात् किन्त्वसत्त्वमेव तस्येति भावः । शब्दगतं सामानाधिकरण्यञ्च भिन्नप्रवृत्तिनिमित्तकत्वे सत्येकार्थप्रतिपादकत्वं, तच्च न सदसच्छब्दयोः, एकार्थावच्छेदेन विरुद्धधर्मद्वयप्रतिपत्तिप्रयोजकशब्दद्वयप्रयोगासम्भवात् सत एवासत्त्वेनानुसन्धान प्रत्यभिज्ञानं न सम्भवतीत्याशयेनार्थ वर्णयति स्वयमेव-सदेवासदिति, अनु
सन्धानप्रकारोऽयम् , अत्रेदं तात्पर्य कारणमन्तरेण कार्यस्य जन्माभावात् कार्यजन्म कारणपरतंत्रं तथैव तस्य सत्तापि कारणाधीनैव, 30 अन्यथा क्षणिकवादिवदसत्त्वेनाकान्तं सदर्थक्रियाकारि न स्यात्, कार्यमुत्पन्नमेव प्रध्वंसमुपेयात् , असदर्थमेव तत् सृष्टं स्यादिति
तत्र सत्तासम्बन्धलभ्यं कार्यस्यात्मभरणं तस्मात् सत्तासम्बन्धपूर्वकाले कार्यमसदेवेति निर्धार्यते । तदर्थसूचकं तद्वचनमुपन्यस्यति-एषोऽर्थ इति, अधिकरणबोधकसप्तमीप्रयोगात् सत्त्वासत्त्वयोरेकाधिकरणवृत्तित्वं प्रतिषिद्धं भवति, अन्यथा कार्य सद
१ सि. क. सपूभिः। २ सि. क. सामान्यधिः ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org