________________
www.wwwwwwwww
विपर्ययेऽप्यनेकात्मता] द्वादशारनयचक्रम्
६७१ सत्येव नियतत्वादभावो विषयः, उक्तवत् , ते चोपादानक्रिये स्वस्वविषये नियते इति कथं ज्ञायते ? एकस्योभयात्मकत्वात्-सदसदात्मकं ह्येकं कार्यं मयाऽभ्युपगतं त्वया च दोषाभिधित्सया, तस्मादेकस्योभयात्मकत्वात् , यद्यदुभयात्मकमेकं तस्य तस्य स्वविषयनियतता दृष्टा, एकपुरुषनियतपितृपुत्रत्ववत्, न ह्येकस्येत्यादिदृष्टान्तव्याख्यानं यावन्नं तु नियमाभाव इति, एवमित्यादिदान्तिकव्याख्यानमिति, नियमाभावसाधर्म्यप्रदर्शनं दोषाभावप्रदर्शनम् , उभयैकत्वमेव च विशेषहेतुः, तस्य विषयनियतत्वान्नास्ति विप- 5 र्ययप्रसङ्गः, तस्मात् पूर्वाभ्यां श्रेयस्त्वमेव ।
अभ्युपेत्यापि विपर्ययप्रसङ्गमपि
विपर्ययप्रसङ्गापत्तावप्येवंविधार्थतैव, सदसदात्मनो वस्तुनोऽसद्भागमाश्रित्योपादाननियमाभाव एव, अनुपादानसत्तादिभावसामान्यलभ्यस्वरूपत्वात् , अस्य नोपादाननियमोऽस्ति, सद्भागमाश्रित्य क्रियाया अभाव एव, तस्य वादिनः सर्वस्य तथात्वादसन्नाम किञ्चिन्नास्ति। 10
(विपर्ययेति) विपर्ययप्रसङ्गापत्तावप्येवंविधार्थतैव-अनेकान्तसिद्धेर्न पापस्य गन्धोऽपि सदसदात्मनो वस्तुनो योऽसौ पर्यायार्थोऽसद्भागो मृदि घटाभावः तमाश्रित्योपादाननियमाभाव एव, कस्मात् ? अनुपादानसत्तादिभावसामान्यलभ्यस्वरूपत्वात्-मृद्रव्यादेः प्रागुत्पत्तेः कार्यमसदेव समवाय्यसमवायिकारणसान्निध्ये जायते, न तस्योपादानेनार्थः कश्चित् , उत्पन्नं सत् सत्तयाऽभिसम्बध्यते द्रव्यगुणकर्माख्यं द्रव्यत्वेन द्रव्यं गुणत्वेन गुणः कर्मत्वेन कर्मेत्येभिर्भावैः सामान्याख्यैर्लभ्यस्वरूपञ्चास्येति नैव कार्यस्योपादान- 15
aummmmmmmmmmwww
सैद्धार्थीयैरित्यादिना ग्रन्थेन प्रागुपदर्शितवदित्यर्थः । उपादानक्रिययोः सदसन्नियततां साधयति-ते चेति, एकस्योभयात्मकतोभयवादिसिद्धेति दर्शयति-सदसदात्मकमिति, मया प्रमाणेन त्वया चाभ्युपगमवादेनाभ्युपगतमिति भावः । दृष्टान्तमाहएकपूरुषेति, यथैक एव पुरुषरूपोऽर्थः कश्चित् प्रति पुत्रः कच्चिच्च प्रति पिता भवति, तत्र पुरुषापेक्षया विशेषाभावेऽपि पितृत्वं पुत्रत्वापेक्षमेव नियतम्, न पितृत्वापेक्षम् , पुत्रत्वं च पितृत्वापेक्षमेव, न पुत्रत्वापेक्षम् , तथा प्रकृतेऽपीति भावः । न तु नियमाभाव इति न विपर्ययप्रसङ्ग इति च प्रदर्शनं यथा न नियमाभावस्तथा विपर्ययप्रसङ्गोऽपि नेति साम्यप्रदर्शनं विज्ञेयमित्याह-20 नियमाभावेति । नास्ति विपर्ययप्रसङ्गः, उभयैकत्वात् , नियमाभावाभाववदिति मानं भाव्यमित्याह-उभयैकत्वमेव चेति, यदुभयात्मकमेकं तस्य विषयनियतत्वान्न तत्र विपर्ययप्रसङ्गोऽस्ति यथा पितृपुत्रात्मकत्वेऽपि पुरुषस्य पितृपुत्रत्वयोः खखविषयनियतत्वान्न तत्र नियमाभावस्तदुभयाभावस्तद्वदिति भावः । उभयात्मकैकवस्तुत्वे विशेषहेत्वभावाद्विपर्ययप्रसङ्गो यो भवतोक्तस्तं खीकृत्याप्यनेकान्तसिद्धिं दर्शयति-विपर्ययेति । योऽयमसद्भागमाश्रित्योपादाननियमः सद्भागमाश्रित्य च क्रियाप्रसङ्ग उपदर्शितस्तत्रापि नैकान्तता, किन्तु अनेकान्तसिद्धिरेवेत्याशयेन व्याकरोति-अनेकान्तसिद्धेरिति । उत्पत्तिपूर्वकाले मृद्र- 25 व्यादावसदेव घटादि कार्य जायते, उत्पन्नत्वादेव घटादिकार्यस्य उपादानादिकारणेन न किञ्चित् प्रयोजनमस्तीति कार्यमुपादानानपेक्षमेव, अवस्थाविशेषोऽयं जायते, उत्पद्यत इत्यादिशब्दैरुच्यते समुद्युक्तकारकव्यापारप्रतिष्ठः घटादिः, व्यावृत्तवस्तुव्यापारो घटादिस्तु समाश्रितसत्तादिसामान्यः अस्ति-आत्मानं बिभर्ति सत्तां भावयतीत्यादिव्यपदेशभाग्भवतीति उपादानानपेक्षः सत्तादिभावसामान्येन लभ्यखरूपो घटादिर्भवतीति नैवास्त्युपादाननियम इत्याशयेनाह-अनुपादानेति । एतदेव व्याचष्टे-मृहव्यादेरिति।न तस्येति, कार्यस्योपादानेन न किञ्चित् प्रयोजनम् , परिनिष्ठितखरूपत्वादित्यर्थः । उत्पन्नमिति, उत्पन्न कार्य खाव- 30 धारणफलकं सत्तादिसम्बन्धमनुभवति, अस्ति-आत्मानं बिभर्ति न ध्वंसते द्रव्यमेव न गुण इत्येवं फलकं द्रव्यत्वादिसम्बन्धमनुभ
१ सि. क. क्ष० डे. तूभयाभावः । २ सि. क.क्ष. डे. "भावाप्र० ।
द्वा० न०८(८५)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org