________________
६७०
न्यायागमानुसारिणीव्याख्यासमेतम् [विधिनियमोभयारे न्यतराश्रयेण तावंशी वस्तुनि स्त एवेति चेन्न विपर्ययप्रसङ्गात् , एकस्योभयात्मकैकवस्तुत्वे कुत एतत् सद्भागमाश्रित्यैवोपादाननियमो न त्वसद्भागमाश्रित्य, असद्भागमाश्रित्यैव च क्रिया, न सद्भागमाश्रित्येति विशेषहेत्वभावादिति पूर्वदोषपापीयस्त्वमेव' इति ।
यत्पुनरिदमित्यादि, पूर्वपक्षः परस्य यावत् पूर्वदोषपापीयस्त्वमेवेति, जैनेनायं परिहारः पूर्व5 दोषपापीयस्त्वेऽभिहितः-सदसत्कार्यवादिना सद्भागस्योपादाननियमः-मृदि सत्त्वाद्धटस्य मृदुपादाननियमः, तस्या वा असद्भागस्य क्रिया च घटस्य युज्यते, सदसदंशयोरन्यतराश्रयेण तावंशौ वस्तुनि स्त एवेति चेदित्याशङ्कायाम् , एवश्वेन्मन्यस इत्यान्तीयं परिहारमाशंक्योत्तरमाह-एतच्च न, विपर्ययप्रसङ्गात्, विपर्ययः सद्भागमाश्रित्य क्रियाप्रसङ्गोऽसद्भागमाश्रित्योपादाननियमप्रसङ्गः, अनिष्टौ च ते जैनस्य, एकस्यो
भयात्मकैकवस्तुत्वे विशेष हेत्वभावात्-तस्मिन् सत्युभयात्मके कुत एतदित्यादि गतार्थ विपर्ययप्रसङ्गापादनं 10 विशेषहे त्वभावात्-हेतुहेयनियमाभावात् ।
अत्राचार्य आह
एतदपि न किञ्चित् , कार्यत्वादेव, क्रियत इति हि कार्यम् , तस्मिन्नुपादानक्रिययोः स्वविषयनियतौ, एकस्योभयात्मकत्वात् , एकपुरुषनियतपितृपुत्रत्ववत्, न ह्येकस्य पुरुषस्य पितृपुत्रत्वात्मकत्वेऽपि ते अनियतविषये दृष्टे किन्तु नियतविषये एव, न तु नियमाभावः, 15 एवं वस्तुन उभयात्मकैकरूपत्वेऽप्युपादानक्रिययोः स्वस्वविषयनियतत्वान्न विपर्ययप्रसङ्गः।
(एतदपीति) एतदपि न किञ्चित् , नोत्तरस्य गन्धोऽप्यस्तीत्यर्थः, कस्मात् ? कार्यत्वादेव, क्रियत इति हि कार्यम् , तस्मिन् कार्ये उपादानक्रिययोः स्वविषयनियतौ[भावा]भावावेव न[भिय] [भावः] खो विषयः स्वविषयः, उपादानस्य सत्येव नियमः, तस्य तत्र नियतत्वात् भावो विषयः, क्रियायाः पुनर
परेणोद्भाविते जैनेन यत्प्रतिविधानमभिहितं तद्वादी दर्शयति-जैनेनायमिति, मृदात्मना घटस्य सत्त्वादुपादाननियमो घटात्मना 20 चासत्त्वात् क्रियाया उपपत्तिरिति यः परिहारः सदसदैकात्म्ये जैनेनोक्त इति भावः। सोऽयं परिहारो न युज्यते विपर्ययप्रसङ्गादित्याह-एतच्च नेति। आश्रयाश्रयिभावे नियामकाभावात् क्रिययाऽपेक्ष्यं सत्त्वमुपादानापेक्ष्यमसत्त्वमपि स्यादिति दर्शयति-विष-. र्यय इति । नियामकाभावमाह-एकस्येति । सद्भाग एवोपादानेनापेक्षितत्वात् हेतुः, असद्भागस्तेनानपेक्षितत्वाद्धेयः, असद्भाग एव क्रिययाऽपेक्ष्यत्वाद्धेतुः, सद्भागस्तु तयाऽनपेक्षितत्वाद्धेय इत्यत्र नियामकाभावादित्याशयेन व्याचष्टे-हेतुहेयेति । एकस्योभ
यात्मकत्वमेव तयोः प्रतिनियतविषयत्वे नियामकत्वेष्टेात्रोत्तरस्य गन्धोऽस्तीत्याशयेनाह-एतदपीति । अनन्तधात्मकमेकं वस्तु 25 निरन्तरप्रवृत्तिस्वभावतया तत्तद्देशकालाद्यपेक्षयाऽन्यान्यरूपेणात्मानं प्रकाशयति द्रव्यात्मना सन्तमात्मानं घटाद्यात्मना घटाद्यात्मना
सन्तं कपालाद्यात्मनेत्यादिरूपेण, अत एव प्रवृत्तिविषयत्वात् क्रियत इति कार्यमुच्यते, मृदात्मना विद्यमान एव घटात्मना प्रवर्तत इति मृदात्मना सन्नेव घट उपादानम् , तस्मादुपादानस्य विषयो भाव एव, तच्चोपादानं घटात्मना प्रवर्तत इति प्रवृत्तिविषयोऽभाव एवेत्युभयात्मकैकरूपत्वेऽप्युपादानक्रिययोः खखविषयनियतत्व न भज्यत इत्याशयेनोत्तरयति-कार्यत्वादेवेति प्रवृत्तिमत्त्वादेवेत्यर्थः।
तस्मिन् कार्य इति, घटाद्यात्मना प्रवृत्तिविषयीभूते वस्तुनि भावाभावात्मके इत्यर्थः । प्रतिनियतविषयत्वमेव दर्शयति-स्खो 30 विषय इति । तस्य तत्रेति, उपादानस्य सति नियतत्वाद्भावो विषयः, क्रियाया असति नियतत्वाचाभावो विषयो यदुच्यते
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org