________________
स्याद्वादस्य श्रेष्ठता]
द्वादशारनयचक्रम् असत्कार्यपक्षेऽपीत्यादि, वैशेषिकं प्रत्यसत्कार्यवादिनमुपादाननियमाभावदोष उक्तो योऽयं स किं विरुध्यते ? इति पूर्ववत् प्रश्नोपक्रमं भाणयति-यदसावेकान्तेनेत्यादि, यदसौ वैशेषिकः पर्यायार्थाश्रयेण क्रियागुणव्यपदेशाभावादसत् कार्यमिति द्रव्यार्थतो हेतुषु तुर्यादिषूपादानेषु च तन्तुषु सन्निहितस्याव्यक्तस्य क्रियामन्तरेण क्रिययाऽभिव्यंग्यपटाख्यस्यार्थस्य पर्यवज्ञया-अनपेक्ष्य तं ब्रूयात् तस्य पटार्थितायां तत्तदुपादाननियमो न युज्यते, तत्रासत्त्वात्तृणादिवत्-यथा तृणाद्युपादानं पटार्थितायां न युक्तं तत्र तस्या- 5 सत्त्वात् , एवं तन्तूपादानमपीति-इत्थमसत्कार्यैकान्तवादेऽप्युपादाननियमाभावदोषः, सोऽनेकान्तवादे स्यादादिविशिष्टे नास्ति, स्यादसत्कार्यमिति दत्तसत्तावकाशमपि वदेत्तथा यदि वैशेषिकोऽपि विशेषं ब्रूयात् क एनं किञ्चिदपि ब्रूयात् , न तथा तस्य वादिनो विशेषितान्वयव्यतिरेकधर्मधर्मिव्यवस्थस्य तिलतुषशतभागमात्रमपि वाच्यमस्तीति, उक्तञ्च हेतुविसयोवणीतं जह वयणिज्जं परो नियत्तेइ । जदि तं तहा पुरिल्लो दाइंतो केण जिव्वंतो॥' (संम० का ३ श्लो० ५८) तस्मान्न स्तः स्याद्वादिनः पूर्वदोषौ, कुतः पापीयस्त्वम् ?। 10
ताभ्यां वा श्रेयस्त्वमेवेत्यत आह
एवमस्मिन् पूर्वश्रेयस्त्वार्थ आधुद्धाहे दर्शित एव स स्वपक्षरागादस्मत्प्रद्वेषाद्वा नावबुद्धस्त्वया।
(एवमिति) एवमयं पूर्वश्रेयस्त्वार्थ:-पूर्वाभ्यां वादाभ्यां श्रेयसो वादस्य भावः पूर्वश्रेयस्त्वं, तदेवार्थः स्याद्वादस्येति, सोऽयमायुगाहः पूर्वश्रेयस्त्वार्थः परिहृतदोषवचनावकाशः, तस्मिन्नााद्राहे प्रति- 15 ज्ञानिर्देशदर्शित एव मया-स्यात्सत् कार्य स्यादसत् कार्यमिति स पुनस्त्वया स्वपक्षरागादस्मत्प्रद्वेषाद्वा नावबुद्धः।
यत्पुनरिदं 'सद्भागस्योपादाननियमः, असद्भागस्य क्रिया च युज्यतेऽतः सदसदंशयोरप्युत्तरमनभिदधानः केवलं क्रियागुणव्यपदेशाभावात् प्राक् पटाद्यसदिति ब्रूते तदिदमभिधानं पर्यायेगेवेत्याशयेनाह-यदसाविति । द्रव्यार्थतस्तन्तुषूपादानकारणेषु तुर्यादिषु हेतुषु च सन्तं कारकक्रियां विनाऽव्यक्तं क्रियया च प्रकाश्यं पटमुपेक्षमाण 20 एवासौ तथा वक्तीत्याह-द्रव्यार्थत इति । एवञ्चासत्त्वाविशेषात् तन्तुवत् सर्वेषामुपादानतया ग्रहणं प्रसज्यत इति तन्तव एवो.
तु तृणादय इत्युपादाननियमाभावः प्रसज्यत इति दर्शयति-तस्य पटार्थितायामिति । यदि वैशेषिकोऽपि द्रव्यार्थतः पटोऽस्ति पर्यायार्थतया नास्तीत्यमुं सिद्धान्तमभ्युपगच्छेत्तर्हि क एनमुपादाननियमाभावदोषं ब्रूयादित्याह-यदि वैशेषिकोऽपीति, अयं यदि स्यादसत् कार्यमिति द्रव्यार्थतः कार्यसत्ताया अवकाशं दत्त्वा पर्यायार्थतो विशेषं ब्रूयादित्यर्थः । न तथेति, सामान्यविशेषात्मकवस्तुस्वीकारादेव न तस्याणुमात्रमपि किञ्चिद्दोषजातं वक्तव्यमस्तीति भावः । उक्तार्थे सैद्धान्ती सम्मतिमादर्शयति-उक्त-25 ञ्चेति, कार्य हि द्रव्यार्थतः सत् पर्यायार्थतोऽसदिति परस्परापेक्षया सदसत्त्वे स्यात्पदयुक्त कार्ये धर्मिणि व्यवस्थिते, एवमेव तयोरात्मलाभात् , इमां व्यवस्थामुज्झित्वा यो वादी एकान्तं सद्रूपमसद्रूपं वा वदेत् स परेण निवर्त्तनीयो भवेत् , यदि स एव वादी द्वितीयधर्माकान्तं स्याच्छब्दयोजनया अदर्शयिष्यत न केनाप्यसावजेष्यतेति भावः । उपसंहरति-तस्मान्नेति । न पूर्वदोषपापीयस्त्वं स्याद्वादस्य, किन्तु पूर्ववादाभ्यां श्रेष्ठत्वमेवेति दर्शयति-एवमयमिति । व्या चष्टे-पूर्वाभ्यामिति, श्रेयसो भावः श्रेयस्त्वं, पूर्वाभ्यां श्रेयस्त्वं पूर्वश्रेयस्त्वं तदेवार्थोऽस्या सौ पूर्वश्रेयस्वार्थः,-पूर्ववादावधिकश्रेष्ठताप्रयोजनक इत्यर्थः, कस्मात् ? परिहृतपूर्वदोषाव-30 काशत्वात् , कथं ? कार्यस्य स्यात्पदलाञ्छितेन सताऽसता वा निर्देशादिति भावः । इत्थं मया प्रदर्शितोऽपि त्वया नावबुध्यत इत्याहतस्मिन्निति, अनवबोधे हेतुश्च स्वपक्षरागः परपक्षप्रद्वेषो वा रागापेक्षया प्रद्वेषस्य प्रबलमौढ्यहेतुत्वा(लवत्त्वात् तस्यैव प्राधान्येनोपादानं वाशब्देनोपदर्शितम् । प्रकारान्तरेण वादिनोक्तं पूर्वदोषपापीयस्त्वं निरसितुमनुवदति-यत्पुनरिति । पूर्वदोषपापीयस्त्वे :
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org