________________
न्यायागमानुसारिणीव्याख्यासमेतम् [विधिनियमोभयारे . तत्परेणैवासौ वाचयति प्रश्नपूर्वकम्- तत्र हि सत्कार्यपक्षे क्रिया किं विरुध्यते ? यदसावेकान्तेन सन्नेव घटः इत्याह ततस्तस्य क्रियाकरणं न युज्यते, कर्त्तव्यत्वाभावात् कृतवदित्येवं तस्य क्रियाऽभावदोषो भवति, न पुनराकांक्षितकर्त्तव्यपर्यायव्यवादिनः स्याद्वादिनः, यदि त्वसौ स्यादादिना कर्त्तव्यत्वमपि 5 विदधीत क एनमेवं ब्रूयात् ‘क्रियाभावदोषस्ते प्राप्तः, कर्त्तव्यत्वाभावात् , कृतकवदिति।
(तत्र हीति) तत्र हि सत्कार्यपक्षे क्रिया किं विरुध्यते ?-केन हेतुना सांख्ये, यदसावेकान्तेनेत्यादि यावत् कृतकवदिति, द्रव्यार्थतो हि मृत्पिण्डे घटोऽस्ति, न पर्यायतः, सांख्यस्तु सन्नेव घटः कार्यत्वपर्यायनिरपेक्ष इत्याह, ततस्तस्य क्रियाकरणं निष्पन्नस्य सर्वथा विद्यमानस्य न युज्यते, कर्त्तव्यत्वाभावात् कृतकवत्निष्पन्नघटवदित्येवं तस्य सत्कार्यवादिनः क्रियाभावदोषो भवति, न पुनराकांक्षितकर्त्तव्य[त्वपर्यायद्रव्यार्थ10 वादिनः स्याद्वादिनः स्यात्-सन्नेव मृत्पिण्डे घटः केनचिद्धर्मेणासन्नपीति वदतः परिहृतपूर्वोक्तसत्कार्यैकान्तवाददोषत्वात् , यदि त्वसौ सांख्योऽपि स्यादादिना कर्त्तव्यत्वमपि विदधीत-स्याद्वादिवत् कथञ्चित् कुतश्चिदित्यादिनाऽनेकान्तवाचिना विशेषणेन विशेष्य सदेव कार्यमिति, ततः क एनमेवं ब्रूयात्-को वादी सुसमीक्षित वाक्यगुणदोषोऽपि क्रियाभावदोषस्ते प्राप्तः कर्त्तव्यत्वाभावात् कृतकवदिति च ब्रूयात् परिहृतपूर्वदोषं वादिनं सांख्यमन्यं वाऽभ्युपेतानेक[न्ति]बादमिति । 15 असत्कार्यपक्षेऽप्युपादाननियमः किं विरुध्यते ? यदसावेकान्तेन क्रियागुणव्यपदेशा
भावादसत्कार्यमिति हेतुषु सन्निहितस्याव्यक्तस्यार्थस्यपर्यवज्ञया ब्रूयात् तस्य पटार्थितायां तत्तदुपादाननियमो न युज्यते, तत्रासत्त्वात्तृणादिवदित्यसत्कार्यैकान्तवादेऽप्युपादाननियमाभावदोषः, सोऽनेकान्तवादे स्यादादिविशिष्टे नास्ति तथा यदि वैशेषिकोऽपि विशेषं ब्रूयात् क एनं किञ्चिदपि ब्रूयात् , तस्मान्न स्तः स्याद्वादिनः पूर्वदोषौ, कुतः पापीयस्त्वम् ? ।
20 सत्त्वेऽपि मृदात्मना सत्त्वान्नोपादाननियमाभाव इति भावः । सत्कार्यपक्षेऽसत्कार्यवादिना क्रियाविरोधदोषो य उद्भावितः स केन
हेतुनेति प्रश्नं कुर्वन् स्याद्वादं समर्थयितुमाह-तत्र हीति, कार्यस्य सदसत्त्वविचारे हीत्यर्थः । आर्हताभीप्सितमाह-द्रव्यार्थतो हीति, कारणे कार्यस्य द्रव्यार्थतः सत्त्वमसत्त्वञ्च पर्यायार्थत इति सिद्धान्तः, सांख्यस्तु द्रव्यार्थपर्यायार्थनिरपेक्षं कार्यसत्त्वमाह-तथा चोभयथापि तदानीं सत्त्वं फलितं पश्चादिव, ततः क्रियाकरणं विरुद्ध कारकव्यापारसाध्यरूपाभावात् , तद्धि द्रव्यतः पर्यायतश्च पूर्व
सदिष्यते, तस्मात् किमस्ति कर्त्तव्यं कारकव्यापारैरिति क्रियाभावदोष इति भावः । अयं दोषो न स्याद्वादिनः सम्भवति, तेन 25 पर्यायरूपेण सत्त्वानभ्युपगमात्, पर्यायरूपतासम्पत्यर्थ कारकव्यापारापेक्षणात् , तस्मात् सत्कार्यकान्तवाददोषः परिहृत इत्याशयेनाह
न पुनरिति । यदि सांख्योऽपीमं सिद्धान्तमभ्युपगच्छेत् तर्हि न तममुं दोषं कोऽपि ब्रूयादित्याह-यदि त्वसाविति । कुतो न ब्रूयादित्यत्र हेतुमाह-परिहृतेति । असत्कार्यपक्षे सत्कार्यवादिना य उपादाननियमविरोध उद्भावितः स केन हेतुना विरुद्ध्यत
प्रश्नं कुर्वन् स्याद्वादं समर्थयति-असत्कार्यपक्षेऽपीति । किं द्रव्यार्थतस्तन्तुषु पटोऽसन् , किं वा पर्यायेणेति पृष्टे किञ्चिद
१ सि. क. तसौ । २ सि. क. साख्येऽपि ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org