________________
पूर्वदोषपापीयस्त्वभङ्गः] द्वादशारनयचक्रम्
६६७ सत्तातो विपरीतम् , अतो व्यवस्थापित इत्यादि, व्याख्यातदृष्टान्ते सोपाख्यनिरुपाख्यत्वैककाष्ठीकृतहेतुधर्मयोः सदसत्त्वैककाष्ठीभूतसाध्यधर्माविनाभाव उपसंह्रियते, तस्मात्ताभ्यां धर्माभ्यां भिन्नौ विरुद्धौ चेत्यभिमताभ्यामेव प्रतिपद्यतां भवान् सोपाख्यनिरुपाख्यत्वात् , सामान्यादिद्रव्यादिवत्-सामान्यविशेषसमवायाः सामान्यादयः, द्रव्यगुणकर्माणि द्रव्यादीनि, सामान्यादयश्च द्रव्यादीनि च यथा सन्त्यसन्ति च सोपाख्यनिरुपाख्यानि चेति सोपाख्यनिरुपाख्यत्वं सदसदैकात्म्ये हेतुः, सदसत्त्वमपि सोपाख्यनिरुपाख्य- 5 त्वैकात्म्ये तथैव हेतुस्त्वन्मतेनैव, उपनये तु द्रव्यादीनां दृष्टान्तत्वेनोपादानं त्वयैवेष्टत्वात् , अत्रापि सदसत्त्वैकात्म्ये सोपाख्यनिरुपाख्यत्वैकात्म्ये च नि:संशयमविपक्षतेति ।
इदानीं स्याद्वादे परोक्तान् दोषान् परिह काम आह
यत्तूक्तं स्याद्वादिनं प्रति पूर्वदोषपापीयस्त्वान्न सदसत् कार्यम् , तत्र हि सदसत्कार्यपक्षयोः सति क्रियाया अभावः, असति चोपादाननियमाभावः, विरोधादिति अवतो जैन- 10 स्यापि हेतूपादानक्रियानियमाभाव इति द्विदोषता पापीयसीति, तन्न, परिहृतपूर्वदोषत्वात् ।
यत्तूक्तमित्यादि, टीकायां प्रशस्तमतौ स्याद्वादिनं प्रति पूर्वदोषपापीयस्त्वान्नेत्युक्तौ दोषौ, तत्र सदसत्कार्यपक्षयोः सांख्यवैशेषिकेष्टयोर्यथासंख्यं क्रियाऽनुपपत्त्युपादाननियमाभावदोषौ यथोक्तं उपादाननियमस्यासति[सति]च क्रियाया अभावप्रसङ्गात् सदसत्कार्यमिति दोषद्वयं ब्रुवतो जैनस्य पूर्वदोषपापीयस्त्वं किलेत्थमुच्यते, तद्यथा-तत्र हीत्यादि यथासंख्यं प्रत्येकदोषप्रदर्शनग्रन्थो गतार्थो यावद्धेतूपादानक्रियानिय- 15 माभाव इति-हेतवो दण्डाद्या घटस्य मृदुपादानं क्रिया कुलालव्यापार इति, अस्मिन् पुनः सदसत्कार्यपक्षे द्विदोषता पापीयसी सदसत्पक्षाभ्यामेकैकदोषाभ्यां, सत्त्वात् कार्यस्य घटार्थायाः क्रियाया अभावः असस्वादुपादान[T]भाव इत्येतहिदोषत्वात् पापीयानेष पक्ष इति, अत्राचार्य आह-तन्ने परिहृतपूर्वदोषत्वात्-परिहृताव स्मिन् सदसदैकात्मककार्यपक्षे पूर्वोक्तौ क्रियाभावोपादाननियमाभावदोषाविति ।
सत्त्वधर्माभ्यामविनाभावो व्यवस्थापित इत्याशयेनाह-व्याख्यातेति । सिद्ध्यत्वविनाभावः सामान्यविशेषसमवायेषु तद्विपर्ययेण 20 द्रव्यगुणकर्मसु तयोः, ततः किमित्यत्राह-ताभ्यां धर्माभ्यामिति । सामान्यादिद्रव्यादिवदित्यत्र द्रव्यादिदृष्टान्तीकरणाभिप्रायमादर्शयति-उपनये विति । प्रशस्तमतिना स्वटीकायां स्याद्वाद उद्भावितान् दोषानुद्धर्तुमाह-यत्तूक्तमिति । तदुक्तिमेव प्रकाशयति-पूर्वदोषेति । कार्यस्य सदसदैकात्म्यपक्षोऽपि पूर्वदोषाभ्यां पापीयानेव, को पूर्वदोषावित्यत्राह-तत्रेति, कार्यस्य सत्त्वपक्षे सांख्याभिमते, असत्त्वपक्षे वैशेषिकाभिमते क्रमेण क्रियानुपपत्तिरुपादाननियमाभावश्च दोषाविति भावः । तावेव दोषावुपदर्शयति-यथोक्तमिति । स्याद्वादिनैव सत्पक्षेऽसत्पक्षे चोद्भावितौ दोषावुभयात्मकतायामपि दुष्परिहरावेवेत्याह-दोषद्वयमिति। 25 दोषद्वयमाह-सत्त्वादिति, कारणकाले कारणे कार्यस्य पश्चादिव सत्त्वे कारकव्यापारवैफल्यमित्थमपि च तत्प्रवृत्ती तव्यापारानुपरमप्रसङ्ग इति भावः। असत्त्वादिति, कारणे कार्यस्यासत्त्वे प्रध्वंसदशायामिव प्रागभावदशायामपि करणं भवेत् , असत्करणे च नियतोपाादनग्रहणं न प्राप्नोति, असत्त्वाविशेषात्सर्वेषामुपादनताऽनुपादानता वा स्यात् , असति च दण्डादिव्यापारो निरालम्बनो न प्रवर्ततेति भावः । प्रागुत्पत्तेः घटादिकार्य मृदात्मना सत् घटाद्यात्मना चासदिति स्यादादिविशेषितत्वात् सदसतोन पक्षद्वयोदितदोषप्रसक्तिः स्याद्वाद इत्याशयेन समाधत्ते-परिहतेति, घटात्मनाऽसत्त्वात् मृदात्मना सत्त्वेऽपि न क्रियानुपपत्तिः, घटात्मना5-30
१ सि. क. पितेत्या । २ सि. क. दृष्टान्तः । ३ सि. क. पूर्ण० । ४ सि. क. याधीटासी। ५ सि. क. तत्वप० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org