________________
६६६
न्यायागमानुसारिणीव्याख्यासमेतम् [विधिनियमोभयारे एवं सोपाख्य[त्वनिरुपाख्य]त्वाविरोधमापाद्य प्रस्तुतकार्यसद[स]त्त्वाविरोधे साधनमाहाऽऽचार्य:
सदसदेव तु सोपाख्यनिरुपाख्यत्वात् , सामान्यवत् , अथ वा सोपाख्यं निरुपाख्यञ्च, सदसत्त्वात् , सामान्यवत् , सामान्यं स्वसत्, न सामान्यसत् , वस्तुवदिति सदेवासत् सामान्यम् , तदेव च सोपाख्यम् , स्वपरप्रत्ययाभिधानाधानात्तदेव निरुपाख्यञ्च, वस्तुवत् 5 सामान्याद्यन्तराभावादिति सोपाख्यमेव निरुपाख्यम् , वस्तुनि विपर्यय इति व्यवस्थापिते दृष्टान्ते ताभ्यां धर्माभ्यामेव प्रतिपद्यतां भवान् सोपाख्यनिरुपाख्यत्वात् सामान्यादिद्रव्यादिवत् सदसत्त्वमिति ।
(सदसदेव त्विति) सदसदेव तु सोपाख्यनिरुपाख्यत्वात् सामान्यवदिति, अथ वा सोपाख्यं निरुपाख्यञ्च, सदसत्त्वात् सामान्यवदिति सदसत्त्वैकात्म्ये साध्ये सोपाख्यनिरुपाख्यत्वं हेतुः, सोपाख्य10 निरुपाख्यत्वे च सदसत्त्वं प्रोक्तन्यायेन त्वयैवाभ्युपगतत्वात् , सामान्यदृष्टान्तस्य सदसत्सोपाख्यनिरुपाख्यत्वैकात्म्यैकार्थ्यं दर्शयति-सामान्यं स्वसत्-खसत्तया सत्, न सामान्यसद्वस्तुवत् , सम्बन्धसत्तयेत्यर्थः, यथा त्वन्मतेनैव सामान्येन सम्बन्धाद्रव्यगुणकर्माख्यं वस्तु सम्बन्धसदिष्यते न तथा सामान्यम सामान्यस्य सामान्यान्तरसम्बन्धाभावादिति सदेवासत् सामान्यम् , इतिशब्दस्य हेत्वर्थत्वात्, एवं
सामान्यस्य सदसत्त्वैकात्म्यम् , तदेव च सोपाख्यं स्वपरप्रत्ययाभिधानाधानात्-स्वात्मनि सम्बन्धिनि च 15 प्रत्ययमभिधानश्चाधत्ते सती सत्ता, सन्ति द्रव्यगुणकर्माणीति च, सामान्यं तदेव निरुपाख्यश्च-नास्योपाख्याऽस्ति, वस्तुवत्-वस्तुन इव सम्बन्धिसामान्याशुपाख्या नास्ति, सामान्यादेः सामान्याद्यन्तराभावादिति सोपाख्यमेव निरुपाख्यम् , इत्थमुक्तन्यायेन सोपाख्यनिरुपाख्यत्वयोधाभावः, वस्तु[नि]विपर्यय इति-द्रव्यादित्रये वस्तुनि स्वतो निरुपाख्यता सामान्येन सोपाख्यता, स्वतः[अ]सत्त्वं सम्बन्ध्यन्तरसत्त्वञ्च
सत्तासम्बन्धप्राक्कालीने स्वरूपसति दृष्टत्वाव्यभिचार आदर्शितस्त्वयैवेति भावः । इत्थं सोपाख्यत्वनिरुपाख्यत्वयोः परस्परं विरोधं 20 निराकृत्य सोपाख्यनिरुपाख्यत्वयोः सदसत्त्वाभ्यां परस्परव्याप्यतामभ्युपेत्य सोपाख्यनिरुपाख्यत्वाभ्यां सदसत्त्वयोः, सदसत्त्वाभ्यां
वा सोपाख्यनिरुपाख्यत्वयोः कार्यवस्तुनः साधयति-सदसदेव त्विति । अथ च त्वयापीत्यादि ग्रन्थेन सदसत्त्वयोः सोपाख्यनिरुपाख्यत्वयोश्च त्वयाऽङ्गीकृतत्वात् कार्यद्रव्ये हेतो सिद्धतेत्याशयेनाह-सदसदैकात्म्य इति । दृष्टान्ते साध्यहेत्वोः सङ्गमनं विधत्ते-सामान्यमिति, खरूपसत्तया सत् सामान्यमेव सम्बन्धसत्तयाऽसदित्यर्थः। सम्बन्धसत्तयाऽसत्त्वे वैधHदृष्टान्तमाह
वस्तुवदिति, अर्थवत्-द्रव्यगुणकर्मवदित्यर्थः । तानि हि संबंधसत्तया सन्ति, सामान्यन्तु न सम्बन्धसत्तया सत् , तत्र सामा25 न्यसम्बन्धाभावादिति दर्शयति-यथेति । एवं प्रथमप्रयोगानुसारेण सायं द्वितीयप्रयोगानुसारेण हेतुं सदसत्त्वं प्रदर्य तत्रैव
सामान्ये सोपाख्यनिरुपाख्यत्वं दर्शयति-तदेवचेति, सामान्यमेव च सोपाख्यम् , स्वस्मिन् सामान्ये परस्मिन् द्रव्यगुणकाख्येऽर्थे सदिति प्रत्ययमभिधानच्च कारयतीति भावः । सामान्ये निरुपाख्यत्वं घटयति-तदेव निरुपाख्यश्चेति, सामान्यमेव हि सोपाख्य, तेन द्रव्यादेः स्वस्य चोपाख्यानात् , यद्धि खपरोभयधर्मिकप्रत्ययाभिधानाधायकं तदेव सोपाख्यं, नैतादृर्श सोपाख्यं सामान्ये वर्त्तते, अनवस्थाप्रसङ्गात् , द्रव्यादि च सामान्यरूपतथाविधोपाख्यया सोपाख्यमेव, न निरुपाख्यमिति भावः। द्रव्यादौ सामान्याद्वै30 परीत्य सोपाख्यत्वनिरुपाख्यत्वसदसत्त्वयोर्दर्शयति-वस्तुनीति, द्रव्यादेः न स्वतः सोपाख्यता, स्व स्वादतः खतो निरुपाख्यता, सामान्येन च सोपाख्यतेति सामान्याद्वैपरीत्यम् , तथा द्रव्यादेः स्वतोऽसत्त्वं सम्बन्ध्यन्तरसत्त्वञ्च सामान्यतो वैपरीत्यमिति भावः। तदेवं सामान्ये दृष्टान्ते एकात्मतापन्नयोः सोपाख्यनिरुपाख्यत्वयोः तत्रैवैकात्मतापन्नाभ्यां सद
सि, क. क्ष. डे. °न्तरास० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org