________________
निरुपाख्यत्वादिचर्चा]
द्वादशारनयचक्रम् साधारण आत्मा, पूर्वक्षणे उत्तरे च क्षणे विलक्षण]स्तस्य भावः सत्त्वं तेन सत्त्वेन प्रतिवस्तुप्रतिक्षणविलक्षणसत्त्वेन च सद्वस्तु तदुपाख्यातुं केनचिदशक्यमसाधारणत्वात् , यदसाधारणं न तदुपाख्यातुं शक्यते, सुखादिपर्यनुभववत्, तस्मान्नायमेकान्तः सत् सोपाख्यमेवेति, स्यान्मतं [न] ब्रूमः सत् सोपाख्यमेवेति यतोऽस्य व्यभिचार उच्यते, किं तर्हि ? सत् सोपाख्यं निरुपाख्यं वा स्यात्, निरुपाख्यन्त्वसदेव, तत्सता साधर्म्य न भजत इत्येतदपि नोपपद्यते व्यभिचारादित्यत आह-अथ च निरुपाख्यतायामपि नैव 5 तदसत् , सामान्यसोपाख्य[त्वा]त् , उपसामीप्येनाख्या उपाख्या सत्तेत्यर्थः, सहोपाख्यया सोपाख्या, यदप्यसाधारणं सुखादि पर्यनुभवादि तदपि सामान्येनोपाख्यायते किमपि सुखं दुःखमित्यादि, तस्मान्निरुपाख्यस्यापि सत्त्वदर्शनादयुक्तमुक्तमसन्निरुपाख्यं सत्सोपाख्यमिति, तस्मात् केनचिदात्मना सदेवासत् सोपाख्यञ्चेति नास्ति सदसतोवैधर्म्यम् , अथ वा सामान्यसोपाख्यत्वात्-यथा सामान्यं स्वेनात्मना सोपाख्यं स्वसत्तया, न विशेषणात्मना सामान्यान्तरेण, न तु द्रव्यादिवस्तुवदिति सत् सोपाख्यं निरुपाख्यमसञ्चति दृष्ट- 10 त्वात्तथैवैकत्वं सदसतोः, नास्ति विपक्षता, किश्चान्यत् अपि च त्वयापीत्यादि, त्वत्कल्पनयैव सदसदित्येतत् प्रदर्शयितुमिदमुच्यते, प्राग्व्याख्यातार्थ एवैष ग्रन्थो यावद्विशेषणसम्बन्धः कल्प्य इति, इह तु प्राग्विशेषणसम्बन्धात् विद्यमानमेव निरुपाख्यमितीष्टं त्वया, इत्येतस्यार्थस्य प्रदर्शनार्थमुपन्यस्तः, अत आहअथ च मतमसन्निरुपाख्यत्वादिति निरुपाख्यत्वस्य सति दृष्टत्वाद्व्यभिचार उक्तः, असच्च तत् सम्बन्धसत्त्वात् , तस्यामवस्थायां सोपाख्यश्च तदुत्तरकालं सत्तासम्बन्धोपाख्यत्वात् । . परिणमति, न हि परिणामव्यतिरेकेण क्षणमात्रमपि वस्तु भवितुमर्हति, उत्पादादित्रैरूप्यस्य तदानीमभावादवस्तुत्वापत्तेः, ते चानुक्षणभाविपरिणामाः सजातीयविजातीयव्यावृत्तत्वेन न साधारणा न केनचिच्छब्देन निर्देष्टं शक्यन्त इति प्रतिवस्तुविलक्षणसत्त्वेन सन्तोऽपि निरुपाख्या इति भावः । सजातीयविजातीयव्यावृत्तत्वमेवाह-असाधारणत्वादिति, समानधर्मेण विरुद्धधर्मेण चान्यैरसमानत्वादित्यर्थः, बीजधरणिसंयोगानन्तरं हि यावदङ्घरोत्पत्तिं प्रतिक्षणं क्रियाविभागादिन्यायेन परिणामा भवन्ति, अन्यथा बीजस्य तादवस्थ्यादरानुदय एव भवेत् , न च ते परिणामाः सङ्केतव्यवहारकालव्यापकत्वाभावेन केनचिदप्युपाख्यातुं शक्यन्त 20 इति भावः । व्याप्तिं दर्शयति-यदिति । ननु सत् सोपाख्यमित्युक्त्या सोपाख्यताव्याप्यत्वं सत्त्वस्य नाभीप्सितम्, यतोऽनुक्षणपरिणामेषु व्यभिचार आपद्येत, किन्तु निरुपाख्यताव्याप्यत्वमसतः, तस्मादसत् न सता साधर्म्य भजत इत्याशयेनाह-स्यान्मतमिति, सत् सोपाख्यमेवेत्यनेन यत् सत् तत् सोपाख्यमेव न निरूपाख्यमिति न नियमः, सत् सोपाख्यं स्यात् निरुपाख्यमपि स्यादित्यर्थः, वयन्तु निरुपाख्यं त्वसदेवेति ब्रूम इति शंकितुराशयः । अत्रापि व्यभिचारमाविर्भावयति-एतदपि नोपपद्यत इति, नियमोऽयमपि न युक्तो व्यभिचारादिति भावः । अनुक्षणपरिणामस्य केनचिदुपाख्यातुमशक्यत्वेऽपि नासावसद्भवितुमर्हति, 25 विशिष्टशब्देन ह्यसौ निरुपाख्यः, न तु सामान्यशब्देन, तेन तु सोपाख्यमपीत्याशयेनाह-अथ चेति, असाधारणशब्दानभिधेयत्वेऽपि नानुक्षणपरिणामोऽसन् सामान्यसद्रूपत्वादित्यर्थः । हेत्वर्थमाह-उपेति, सामीप्येन यदभिधानं तद्युक्तत्वादित्यर्थः, वस्तु, . सत्, अर्थ इत्याद्यभिधानानि केवलान्वयित्वात् शीघ्रोपस्थितिकत्वाच्च वस्तुसमीपगानीति भावः । हेतुं दृष्टान्ते सङ्गमयति-यदपीति । निगमयति सदसतोर्वधर्म्यनिराकरणं-तस्मादिति, सत एवासत्त्वात् सोपाख्यत्वाच न सदसतोः प्रतिपक्षतेति भावः। खपररूपेण सोपाख्यत्वनिरुपाख्यत्वे दर्शयितुमन्यथा व्याचष्टे-अथ वेति, यथा हि द्रव्यादिवस्तु स्वात्मनाऽपि सोपाख्यमन्येन 30 द्रव्यत्वादिनाप्युपाख्यं भवति न तथा सामान्य वस्तु, किन्तु खरूपेणैव सोपाख्यं नान्येन विशेषणेन, तेन तु निरुपाख्यमेव, तस्मात् सामान्यरूपं सत् सोपाख्य निरुपाख्यमपि, असदपि चेति सिद्धत्वात् सदसतोरैकात्म्यमेवेति भावः । त्वदभिप्रायेणाथ न सदसतोः प्रतिपक्षता, सत्तासम्बन्धप्राकाले खरूपसत एवासत्त्वादिति पूर्वोदितग्रन्थमेवोपन्यस्यति-अपि चेति । सोपाख्यनिरुपाख्यत्वविचारौपयिकव्याख्यार्थमाह-इह त्विति । व्याख्याग्रन्थमाह-अथ च मतमिति, अनेन ग्रन्थेनासत्त्वसाधकनिरुपाख्यत्वहेतोः
१.सि. क. क्ष० डे० प्रतिवस्तुप्रतिक्षण । २ सि. क. क्ष० डे० तदपाख्यत्वां० ।
... 15
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org