________________
न्यायागमानुसारिणीव्याख्यासमेतम् 1 [विधिनियमोभयारे द्वर्त्तमानमेव न स्यात्ततश्च नैव स्यात् , वान्ध्येयवत् क्षणिकवादवत् , तस्मान्न सदसतोः प्रतिपक्षत्वम् , इतश्च नानैकात्म्यम् , विधिप्रतिषेधैकविषयत्वात् , भावितैकात्म्यचेतनाचेतनत्ववत् ।
___इतरंथा चेत्यादि, एवं सदसदात्मकत्वमनिच्छतो वस्तुतस्तु-नैव भवेद्वस्तु, अपूर्वत्वात् निर्बीजत्वात् , नास्य पूर्वमिति बहुव्रीहिसमाश्रयेण, न पूर्वमपूर्वं प्रागसत्त्वादिति तत्पुरुषाश्रयेण वा, 5 खपुष्पवत् , वैधाण चम्पकपुष्पवत , मूलाङ्कुरादिभवनेन पूर्वस्यैव सत एव चम्पकस्य पुष्पीभवनात् , तच्च
सदसदात्मकं चम्पककुसुममिति, एवमपरत्वादनुत्तरत्वादभेदत्वादिति योज्यम् , तस्माद्वर्त्तमानमेव न स्यात् , ततश्चावर्त्तमानत्वादपि नैव स्यात् , वान्ध्येयवत् , क्षणिकवादवदिति च खपुष्पक्षणभङ्गवैलक्षण्यप्रस्तुतेरुदाहरणद्वयमेतत् , तन्निगमयति-तस्मान्न सदसतोः प्रतिपक्षत्वमिति, इतश्च नानैकात्म्यम्-सदसतोरैकात्म्यमेव, द्विःप्रतिषेधस्य प्रकृत्यापत्तेः, कुतः ? विधिप्रतिषेधैकविषयत्वात्–विधिरन्वयः, प्रतिषेधो व्यतिरेकः, 10 तावुभावेकविषयावित्येतत् प्रत्येकवस्तुस्वरूपप्रतिपत्त्यर्थतदतत्प्रवृत्तिव्यावृत्तिसदसदात्मक इत्यविभक्तस्वरूपपर्यनुभवातीतानागतवर्त्तमानभिन्नभवनसदसदेकक्रिय इत्यादिवचनात् सिद्धम् , तस्मात् सदसदैकात्म्यमेव, भावितैकात्म्यचेतनाचेतनत्ववत्- यथा च चेतनाचेतनयोर्विधिप्रतिषेधैकविषयत्वेन भावयित्वा चेतनश्वेतनोऽचेतन[श्च] इत्युक्तं तथेहापि द्रव्यादिसदसदेकात्म्यान्नास्ति सदसतोः प्रतिपक्षतेति ।
यदपि च वैधर्म्यमुच्यते सत्सोपाख्यमसन्निरुपाख्यमिति तदपि नोपपद्यते, सतोऽप्यनु15 पाख्यत्वात् , को हि प्रतिवस्तुविलक्षणसत्त्वेन सद्वस्तु प्रतिक्षणमुपाख्यातुं शक्नोति, असा
धारणत्वात् , स्वसुखादिपर्यनुभववत् , अथ च निरुपाख्यतायामपि नैव तदसत् , सामान्यसोपाख्यत्वात् , यदप्यसाधारणं सुखादिपर्यनुभवादि तदपि सामान्येनोपाख्यायते किमपि सुखं दुःखमित्यादि, अपि च त्वयापि द्रव्यादिकार्येण वस्तूभृतिप्रकाशमात्रेण द्रव्यादेरुपयोगक्रिया नास्तीत्यशक्तसदसत्त्वादिति विचित्रोपभोगक्रियाप्रसिद्ध्यर्थं सत्ताद्रव्यत्वादिविशेषण20 सम्बन्धः कल्प्य इति वदता अथ च मतमसत् तत् सम्बन्धसत्त्वात् तस्यामवस्थायाम् , सोपाख्यञ्च तदुत्तरकालं सत्तासम्बन्धोपाख्यत्वादिति व्यभिचार उक्तः।
यदपि चेत्यादि, सदसतोः प्रतिपक्षत्वभावनार्थं वैधर्म्यमुच्यते त्वया सत् सोपाख्यमसन्निरुपाख्यमिति, तदपि नोपपद्यते, सतोऽप्यनुपाख्यत्वात् , को हीत्यादि, वस्तुनि वस्तुनि रूपरसादौ ययोर
अपूर्वत्वादिति मौलहेतोर्नास्य पूर्व कारणं बीजमित्यपूर्वमिति बहुव्रीहिसमासात् निर्बीजत्वादिति न भवति पूर्वमपूर्वमिति तत्पुरुषसमा25 सात् प्रागसत्त्वादिति वाऽर्थो भवेदित्याह-निर्बीजत्वादिति । वैधर्म्यदृष्टान्तं घटयति-मूलेति, पूर्वस्यैव कारणस्यैव, सत एव
रादिभावेन प्राक सत एवेति समासद्वयापेक्षया व्याख्या । एवमन्येऽपि तदुपलक्षिता अपरत्वादयोऽत्रोद्धावनीया इत्याहएवमिति । यत् पूर्वमसत् तदिदानीमप्यसद्भवति वन्ध्यापुत्रवत् , यच्चेदानीमसत् तत् पश्चादप्यसदिति सदाऽसदेव भवेदित्याशयेनाह-तस्मादिति । उदाहरणद्वयकारणमाह-क्षणिकवादवदितीति । सदसदैकात्म्ये हेत्वन्तरमाह-विधीति। अन्वयव्यतिरे
कविषयत्वं कथमित्यत्र तत्पूर्व प्रदर्शितमेवेत्याह-तावुभाविति । दृष्टान्तमाह-भावितेति । दृष्टान्त घटयति-यथा चेति । 30 एवं सदसदैकात्म्यं व्यवस्थाप्य वादिनोक्तं सदसतोवैधयं निराकर्तुमाह-यदपि चेति । असदेव निरुपाख्यमिति नियमो नास्ति, सतोऽपि निरुपाख्यत्वादित्याशयेन निराकरोति-तदपीति । सतोऽपि निरुपाख्यत्वं समर्थयति-को हीत्यादि, प्रतिवस्तु प्रतिक्षणं • सि. इतरथा तैवेत्यादि । २ सि. क. न सूनैव । ३ सि. क. 'र्थ तदेतत् प्र० । ४ सि. क. कमिति ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org