________________
६६३
wwwwwww
manand
वस्तुसदसदात्मता]
द्वादशारनयचक्रम् घटः स्वतोऽत्यन्ताविभक्तवृत्तिपर्यनुभवः-तामात्मनो वृत्तिं प्राक् पश्चाञ्च परितोऽनुभवति, तस्माद्भवनात्मकत्वादभूतखपुष्पविलक्षण:-केनचिद्रूपेण खपुष्पस्याभवनात् घटस्य च पूर्वोत्तररूपैर्भवनात् , अर्थान्तरभूतक्षणभङ्गविलक्षणश्च - प्राक् पश्चादिदानीश्च भवनात् , भवनस्य प्रवर्तनस्य द्रव्यार्थतोऽत्यन्तमभिन्नत्वात् , क्षणभङ्गवादेऽत्यन्तं क्षणे क्षणेऽन्यत्वाभ्युपगमात्तद्विलक्षणं एव भवतीति, नन्वेवं द्रव्यार्थभवनस्याभेदादभवनं निरवकाशमेवेत्येतच्च न भवतीत्यत आह-अतीतानागतवर्तमानभिन्नभवनसदसदेकक्रियः-यान्यतीतानि भव- 5 नान्यनागतानि च तानि वर्तमानभवना द्भिन्नानि देशकालाकारनिमित्तादिभेदात्, तेभ्यश्च वर्तमानभवनम् , परस्परविलक्षणत्वाच्च परस्पररूपेण न सन्ति, अथ च भवनक्रियकैव सर्वाणि तान्युच्यते, कथम् ?
आकाशवत्-यथा तवाप्याकाशं शब्दादिसमवायिनां घटादिसंयोगिनाश्चाधारभूतमेकमविच्छिन्नभवनमपि तेषु घटपटशब्दादिभवनाधारतया भिद्यमानत्वाद्भेदाभेदाभ्यां सच्चासञ्चेत्येषणीयम् , अन्यथा तेषां घट[पट]शब्दादीनां सङ्करप्रसङ्गात् , तथाऽस्मन्मतेनाप्यवगाहसामान्याद्भवदेवाङ्गुलिघटाद्यवगाहेर्भेदादसञ्च, तथो-10 क्तभावनो घंटो द्रव्यादिकार्यञ्चेति, यथाकाशं तथाभूतत्वात्तन्तुपटाद्यपि क्रमभावि सदसत्, यथा वा तत्तन्तुपटादिक्रमभावि सदस तथा युगपद्भावि खमपि सदसद्भिन्नाभिन्नञ्चेतोऽपीतोऽपीति उभयात्मकत्वप्रदर्शन इति ।
इतरथा च नैव भवेद्वस्तु, अपूर्वत्वात् , खपुष्पवत्, वैधयेण चम्पकपुष्पवत् , तस्मा-पूर्वपूर्वभावादत्यन्तविलक्षणमपि तु स्वभावस्याप्यनुवर्त्तनात् क्षणभङ्गविलक्षणमित्याह-अर्थान्तरेति पूर्वक्षणादर्थान्तरभूतः-अत्यन्तभिन्नो यो क्षणभङ्गः तद्विलक्षण इत्यर्थः । ननु द्रव्यार्थतः पूर्वोत्तरभावयोरभेदे द्रव्यार्थस्य सदैकरूपतया पटशिवकादिरूपेणाभवनं 15 निरवकाश, भावैकरूपत्वात् , अन्यथा भावैकरूपता न स्यादित्याशंक्य समाधत्ते-नन्वेवमिति । यद्यपि वस्तु सततपरिगमनशील, ते च परिणामाः द्रव्यक्षेत्रकालाकारनिमित्ताद्यपेक्षा एव, एवञ्च विशिष्टस्य देशस्य कालस्याकारस्य निमित्तादेश्च सम्बन्धात् विशिष्टा परिणामाः पृथक् पृथक् प्रविभक्ता नान्योऽन्यरूपेण सन्तीत्यसद्रूपास्तथापि भवनक्रियास्तास्सर्वा अविशिष्टा अपि; तस्मात् वर्तमानभवनमतीतानागतभवनाभ्यामभवनरूपमपि भवनरूपत्वात् भवनात्मकमित्याशयेनाह-अतीतानागतेति । परस्परं भेदमाचष्टेयानीति । अन्योऽन्यरूपेणाभवनमाह-परस्परेति । भवनरूपतामाह-अथ चेति । दृष्टान्तमुपदर्शयति-आकाशवदिति, यत्र 20 देशे शब्दानां समवायः परिसमाप्तो भवति यत्र च घटपटादिसंयोगाः परिसमाप्तास्ते प्रदेशा आकाशस्य भवन्त्यनेके, शब्दसंयोगादेः । सर्वदा प्रदेशवृत्तित्वात् तद्भेदेनाकाशस्य भेदात् , प्रतिदेशञ्चेदमाकाशमिदमाकाशमित्यभिन्नाभिधानप्रत्ययप्रवृत्तेरनुवृत्तिलक्षणोऽमेदश्चेति मेदाभेदरूपमाकाशं, पटघटादिसंयोग्याकाशानां घटपटादिसंयोगैरसत्त्वादाधाररूपेण च सत्त्वात् सदसदात्मकमिति तवाप्येषणीयमिति भावः । समवायस्य व्याप्यवृत्तित्वेऽपि वृत्तिमतः शब्दादेः प्रदेशवृत्तित्वात् तस्यापि प्रदेशवृत्तित्वमेवेति सूचनाय शब्दसमवायिनामिति पृथगुक्तिः, संयोगस्तु परिमितदेशवृत्तिरिति प्रत्यक्षादिप्रसिद्ध एव, आकाशश्च सर्वेषामधिकरणमेकं भवनलक्षणम् , तदवच्छिन्दन्तोऽर्थाः घटपटशब्दादयः, तत्कृताऽवच्छेदानि तेषामाधारभूतानि तत्तद्भवनलक्षणान्याकाशानीति मेदाभेदरूपमाकाशमत एव चाकाशानि परस्पररूपेण न सन्ति, आधारभवनाघेकक्रिया चैकैव तानि सर्वाणीति सदसद्रूपमाकाशमिति शब्दार्थयोजना। अन्यथेति, घटपटशब्दादिभेदेनाधारभूताकाशस्य भेदाभावे आधारभेदाभावे आधेयभेदाभावात् घटपटादीनामैक्यप्रसङ्गेन घटोऽपि पटः स्यात् , पटोऽपि घटः स्यादित्येवं सङ्करप्रसङ्गः इति भावः । स्वमतेनाप्याकाशदृष्टान्तं वर्णयति-अस्मन्मतेनापीति, निखिलानामर्थानामवगाह्यमाकाशम् , आकाशमपि व्यापित्वेन खावगाह्येव, मूर्तास्तु भावाः परस्परप्रतिबन्धका नावकाशदायिनः, 30 न वा खाधिकरणाः, न हि किञ्चिदल्पपरिमाणं वस्तु खाधिकरणं दृष्टमित्यवगाहसामान्येन भवदाकाशमवगाह्यवस्तुभेदाद्भिन्न सत् परस्पररूपतोऽभवनमपीति भावः । दार्शन्तिकं निगमयति-तथोक्तभावन इति, प्रत्येकवस्तुखरूपेत्यादिना भावितो घटोऽपि भेदाभेदाभ्यां सदसद्रूप इति भावः । युगपदयुगपद्भाव्याकाशतन्तुपटाद्योः सदसत्त्वे भिन्नाभिन्नत्वे च परस्परदृष्टान्तदाान्तिकभावता . प्रकाशयति-यथाऽऽकाशमिति । वस्तुनः सदसत्त्वानभ्युपगमे वस्त्वेव न भवेदिति विपक्षे दोषमादर्शयति-इतरथा चेति,
१ सि, क. क्षणति । २ सि. क. न्यत्वाभवत्येवाडुति० । ३ सि. क. घटोनव्यादिकार्यञ्चेति । xx सि. द्वा० न० ७ (८४)
.
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org