SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ६६२ न्यायागमानुसारिणीव्याख्यासमेतम् [विधिनियमोभयारे प्रतिपक्षो न भवति, तदात्मकत्वात्-स आत्माऽस्य भावस्य, अस्याभाव आत्मा, तद्भावात् तदात्मकत्वात् घटोर्द्धग्रीवादित्ववदेव, इतश्च तत्प्रवृत्तित्वात्-स एवाभावो यस्य सतः प्रवृत्तिः, तेनाभावरूपेण भावः प्रवर्तत इत्यर्थः, एक एव भावाभावरूपेणार्थो घटवन्मृत्पिण्डशिवकादिरूपादि[युगपद] युगपद्भाविधर्म भावाभावप्रवृत्तिरिति, अथवा अङ्गमात्मा, आत्मा च प्रवृत्तिरित्येकार्थमेवेति व्याख्यानं तदङ्गन्त्वस्य भवत् 5 सद्भवतीति, सत्त्वं नाम भवत एव, नाभवतः, भवनश्च कीदृशं ? अभावानुविद्धमिति । तद्दर्शयति प्रत्येकवस्तुस्वरूपप्रतिपत्त्यर्थतदतत्प्रवृत्तिव्यावृत्तिसदसदात्मकः स्वतोऽत्यन्ताविभक्तवृत्तिपर्यनुभवनात्मकत्वादभूतखपुष्पविलक्षणः अर्थान्तरभूतक्षणभङ्गविलक्षणश्च अतीतानाग तवर्तमानभिन्नभवनसदसदेकक्रियः, तस्मादभावो भावाङ्गं भावात्मा भावप्रवृत्तिरेव, आकाश10 वदितोऽपीतोऽपीति । प्रत्येकवस्त्वित्यादि दण्डको यावत्सदसदात्मकः, एकमेकं प्रति प्रत्येकं वस्तुनः स्वरूपं प्रतिपत्तुं प्रत्येकवस्तुस्वरूपप्रतिपत्त्यर्थं तत्प्रवृत्तं घटाख्यं शिवकादिव्यावृत्तं पटादिव्यावृत्तश्च, तस्मात्तदेव घटाख्यं घटात्मना प्रवृत्तं भवति, पटशिवकाद्यात्मना व्यावृत्तञ्च भवति, अतः सदसदात्मकः, तस्मादभावो भावाङ्गं भावात्मा भावप्रवृत्तिरेव, एवं तावद्युगपद्भाविरूपादिभावेनापि भवन् स घटो नाभावेन 15 स्वाङ्गात्मप्रवृत्तिस्वरूपेण विना भवतीत्युक्तं द्रव्यक्षेत्रापेक्षम् , कालभावापेक्षमप्युच्यते स एव च भविता mmmmmm काशाद्यपेक्षयैकदेश इति भेदाश्रयेणेदम् , अभेदाश्रयेणाह-तदात्मत्वादिति, असतः सदात्मत्वादित्यर्थः । उत्पत्तिस्थितिविनाशरूपाः सर्वाः प्रवृत्तयो भावात्मानो भावस्यैव, न ह्याविर्भावतिरोभावलक्षणप्रवृत्तिमन्तरेण क्षणमात्रमपि वस्त्ववस्थातुमुत्सहत इत्यभावलक्षणा प्रवृत्तिर्भावस्यैवेत्याशयेनाह-तत्प्रवृत्तित्वादिति । एक एव स्थितिलक्षणोऽर्थ आविर्भावतिरोभावरूपेणोत्पादविना शरूपेण वा युगपदयुगपद्भाविधर्मैः सततं प्रवर्त्तते, यथा स्थितिलक्षणा मृत् पिण्डशिवकस्थासककोशकुसूलघटादिरूपायुगपद्भाविधमैः 20 रूपरसादियुगपद्भाविधर्मैश्चाविर्भावतिरोभावलक्षणभावाभावात्मना सततं प्रवर्तत इत्याशयेनाह-एक एवेति । अङ्गिनोऽङ्गमात्मैव, तदभावेऽङ्गिरूपताया एवाभावप्रसङ्गात् , आत्मैव च प्रवृत्तिः, निरात्मकस्य प्रवृत्त्यसम्भवा दित्याशयेन तेषां शब्दानां पर्यायत्वमाहअथ वेति । प्रतिकलमॉ आत्मानं प्रवृत्तिं वाऽन्तरा वस्तु नैव भवितुमर्हति, भाव एव च वस्तु सद्भवतीत्याह-तदङ्गमिति । एकाङ्गभवनमपराङ्गतिरोधानव्यतिरेकेण नैव सम्भवतीति भवनमभावानुविद्धमेवेत्याह-भवनश्चेति । अभावस्य भावाङ्गतादि ख्यापयति-प्रत्येकेति । द्रव्यक्षेत्रकालभावापेक्षया प्रत्येक वस्तु सदसदात्मकमिति प्रतिपादयितुमादौ द्रव्यक्षेत्रापेक्षया निरूपयति25 एकमेकं प्रतीति प्रत्येकव्यक्त्यवच्छेदेन वस्तुतत्त्वविषयनिर्णयायेत्यर्थः, घटादिवस्तु स्वस्वरूपेण प्रवृत्तत्वात् सदात्मकं खेतररूपेण शिवकादिना सजातीयेन पटादिना च विजातीयेन व्यावृत्तत्वादसदात्मकमिति तदतत्प्रवृत्तिव्यावृत्तिसदसदात्मक विज्ञेयम्, पटादिशिवकादिभिर्यदि घटाख्यं वस्तु व्यावृत्तं न भवेत् , पटादिशिवकादिरेव तद्भवेत् , तद्विजातीयतया न प्रतीयेत, इति व्यावृत्तेन तेन भाव्यमतोऽभावः पटशिवकादीनां घटादिवस्तुनोऽङ्गमात्मा तस्यैव प्रवृत्ति विशेषः, यदि च तत् व्यावृत्तिरूपमेव भवेत् तर्हि निरन्वयाभावस्यालीकत्वात् तदङ्गादि न भवेदिति तदङ्गत्वादिभ्यः सदसदात्मक इति भावः । एवमयुगपद्भाविभावेन सदसदात्मकत्वमुपदर्य 30 युगपद्भाविभावेनापि सदसदात्मकत्वमाह-एवं तावदिति । घटादेः केवलं पटशिवकादिनाऽभवनमात्रात्मकतायां तस्य न स्यात् खपुष्पविलक्षणतेति खात्मीयां वृत्तिमपि पटशिवकादिव्यावृत्ततादशायामप्यत्यन्ताविभक्तरूपेणानुभवति, तस्मादेकान्ताभावात्मकखपुष्पादिविलक्षणं घटादि वस्त्वित्याह-स एव च भवितेति । अनुक्षणं तत्तद्रूपेण भवदपि तद्धटादि बौद्धाभिमतक्षणवन्न १ सि. क. तदङ्गत्वस्य । २ सि. क. भवमच । ३ सि. क. न । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002586
Book TitleDvadasharnaychakram Part 3
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1957
Total Pages430
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy