________________
न्यायागमानुसारिणी व्याख्यासमेतम्
[ उभयनियमारे
( सर्वेति ) सर्वशक्तिपक्षे तु मम विशेषणव्यवस्थितां कुतश्चिदनादेयामव्यतिकीर्णामनन्यशब्दवाच्यमित्यादि यावत् प्रयुज्यंते प्रयोगसाफल्यमस्तीति, तन्निगमयति- तस्मादुभयोरपीत्यादि यावत् सम्भवतीति पूर्वपक्ष: ।
अत्र वयं ब्रूमः, इदमप्यस्मदभिप्राय साधनफलम्, योग्यशब्दनिबंधना हि विवक्षा - 5 पेक्ष्यार्थगतशब्दं बुद्धौ शक्तिमध्यारोपयतीति, तत्र वस्तु तावदनेन त्वद्वचनेनैव शब्दादन्यत् सिद्धम्, तच्च तदिदंसंबन्धात्मकशब्दार्थयोः शब्दशक्तिबुद्धिविवक्षाख्यस्यार्थस्याधारभूतम्, योग्यशब्दाच्च बाह्यार्थसिद्धिः, योग्यानुरूपः शब्दः केनचिदर्थेन युज्यते, तस्मादर्थात्सिद्धात् पश्चाद्भवति शब्दः, यथारूपं तथा हि स योग्यः, अर्थनिबन्धना हि विवक्षा, इतरथा वचनस्य प्रवृत्त्यसम्भवात्, न हि शब्दोऽनामृष्टप्रत्याय्य प्रत्यायकभावो वक्तुमिष्यते, नच विवक्षामात्रेण, 10 शब्दार्थस्य च शक्तिः शकनात्, शक्नोति वक्तुं शब्दः, शक्यते वक्तुमर्थ इति ।
(अति) अत्र वयं ब्रूमः - इदमप्यस्मदभिप्रायसाधनफल [ म् ] सामान्योपसर्जना विशेषा एव भवन्तीत्येतदेव साधयति, एतदस्य फलं भविष्यति, तद्भावयितुकामो योग्यशब्देत्यादि प्रत्युच्चारयति यावदध्यारोपयतीति, अशक्तिपक्षे शब्दशक्तिप्रदर्शनोपसंहारोऽयम्, तत्फलत्वाच्छेषग्रन्थस्य, तत्र वस्तु तावदित्यादि, अनेनैव तावत्त्वद्वचनेन शब्दादन्यद्वस्तु [ अ ] शक्त्याख्यं शक्तिमद्वा सिद्धम्, तत्पुनर्वस्तु कीदृशमिति चेत् 15 दर्शयति - तदिदं सम्बन्धात्मकेत्यादि, सोऽयमित्यभिसम्बन्धादित्येतस्मादेव वचनात् तच्छब्दवाच्यं वस्तु इदंशब्दवाच्याच्छब्दादन्यत्, अर्थाद्वा तच्छब्दवाच्यादिशब्दवाच्यः शब्दोऽन्यः, आधाराधेययोर्भेदात्, तदिदंसम्बन्धात्मकशब्दार्थयोः योऽसौ प्रयुज्यते शब्दः, वक्तुमिष्यते च - यद्विषया बुद्धिरुत्पादयितुमिष्टेत्यर्थः शक्तिश्च यत्राध्यारोप्यते तद्वस्तु, अर्थस्यास्य - शब्दशक्तिबुद्धिविवक्षाख्यस्यार्थकलापस्याधारभूतं, आधेयानामाधारप्राणतः सिद्धेः, योग्यशब्दाच्च बाह्यार्थसिद्धिः, योग्यानुरूपः शब्दः केनचिदर्थेन - कश्चित्तदनुरूप एव 20 नियतविषया भवन्तीति क्रियादिपरिकल्पना शब्दकृतेति भावः । इत्थं पूर्वपक्षिते उभयनियमनय आह - अत्र वयं ब्रूम इति । व्याचष्टे-इदमपीति सामान्यमुपसर्जनं विशेषः प्रधानमित्येवंविधमस्मदीयाभिप्रायमेव भवदभ्युपगमः साधयतीति भावः । तत्कथमित्यत्राह - योग्यशब्देति, अयमभिप्रायोऽशक्तिपक्षे प्रधानभूतः शेषाभिप्रायास्तत्समर्थनपरा इति तदभिप्रायपर एव ग्रन्थो गृहीतोऽत्रेत्याह-अशक्तिपक्ष इति । अर्थे शक्तिर्नास्ति, शब्दैरेव क्रियादिपरिकल्पना नियतेत्यादित्वद्वचनेनैव शब्दोऽन्योऽन्यश्चार्थ इति सिद्धमेवेत्याह-अनेनैवेति । शब्द एवार्थ इत्येवं शब्देऽर्थस्य निवेशनं सोऽयमित्यभिसम्बन्ध इत्युच्यते त्वया, तेन तयोरेकी करणं 25 न सम्भवति परोक्षवस्तुशक्तत्वात् तच्छब्दस्य सन्निकृष्टवस्तुविषयत्वाचेदंशब्दस्य सन्निकृष्टत्वपरोक्षत्वयोरेकत्र विरोधात्तौ विभिन्नाश्रयादेव भवत इति तच्छब्दवाच्यं वस्तु इदंशब्दवाच्याच्छब्दादन्यत्, परोक्षार्थत्वात्, इदंशब्दवाच्यो वा शब्दस्तच्छब्दवाच्यादर्थादन्यः सन्निकृष्टार्थत्वादिति दर्शयति-सोऽयमितीति । आधाराधेययोरिति, वस्तुशब्दयोः शब्दार्थयोर्वा भेदादित्यर्थः । तयोर्भेदमेवाविष्करोति-तदिदमिति, तदिदंपदार्थयोर्मध्येऽर्थः शब्दस्य शक्तेर्बुद्धेर्विवक्षायाश्चाधारभूतः । आसमन्ताद्धारणं यत्करोति स आधार उच्यते, शब्दादीनाञ्चाधेयानां धारकाभावे ते क्वावतिष्टेरन्निति तेषामभाव एव स्यादित्याधेयानां सिद्धिराधारप्राणैवेत्यर्थेऽवश्यमभ्युपेय इति 30 दर्शयति आधेयानामिति । हेत्वन्तरमाह-योग्यशब्दाच्चेति, योग्यो हि शब्दोऽर्थ प्रकाशयति शब्दे योग्यता चार्थतादात्म्यं वास्तु, अर्थविषयबोधजनकत्वं वा भवतु सर्वथाऽर्थः शब्दप्राग्भावित्वेन ज्ञायतेऽतोऽर्थसिद्धिरावश्यकीति भावः । पृथुबुधोदराद्यर्थे घटशब्दो योग्यांऽनुरूपश्च तत्तादात्म्यात्तद्बोधकत्वात् तद्बोधनेच्छ्या प्रयुज्यमानत्वेन पश्चादुपस्थितत्वाच्चेत्याशयं प्रकाशयति-योग्यानुरूप इति । १ सि. क्ष. डे. संहारोत्यस्तत्कत्व ० ।
७८२
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org