________________
७८३
बाह्यवस्तुसत्ता]
द्वादशारनयचक्रम् शब्दो युज्यते, पृथुबुनाद्यर्थेन घटशब्दः, तस्माद्धटाख्यादर्थात् सिद्धात् पश्चाद्भवति शब्दः, अनुशब्दस्य पश्चादर्थत्वात् , सिद्धेऽर्थे पश्चात् शब्देनार्थस्य 'योगोऽनुरूपः, यथारूपमित्यादि, अथवाऽनुरूपो-योग्यो यथार्थोऽनुशब्दः यथारूपं-यद्यद्रूपं यथारूपम्-अनुरूपं यथा युज्यते तथेत्यर्थः, कथं च युज्यत इत्यत्राह-तथा हि स इत्यादि तेन हि प्रकारेणासौ योगमर्हति योग्यः शब्दः, तमर्थ प्रत्याययिष्यामीति प्रयोगदर्शनात् तस्यार्थस्य वाचकत्वोपेत इत्यर्थः, यो ह्यर्थस्यावाचकः स नानुरूपो न योग्य इत्युक्तं भवति त्वयैव, 5 यस्मादर्थनिबन्धना विवक्षा, हिशब्द[स्य] हेत्वर्थत्वात् , इतरथेति, अर्थप्रत्यायनादृते वचनस्य प्रवृत्त्यसम्भवात् , न हि शब्द इत्यादि, शब्दो हि समीक्षित प्रत्याय्य]प्रत्यायकसम्बन्धो वक्तुमिष्यते न ह्यनामृष्टप्रत्याय्यप्रत्यायकभावः, विवक्षायाश्वार्थमन्तरेणासम्भवात्-न च विवक्षामात्रेणेत्यादि, स च शब्दो विवक्षितेऽनुरूपेऽर्थे प्रयुक्तः श्रोतबुद्धौ तां तां शक्तिमाधातुं शक्नोति, नान्यथा, शब्द[स्य]र्थस्य च शक्तिः शकनात् शक्नोति वक्तुं शब्दः, शक्यते वक्तुमर्थ इति ।
10 एवश्चानेन त्वद्वचनेन पलायमानस्यापि ते बाह्यवस्तुसद्भावोऽनतिक्रमणीयः प्रतिपाद्यते बलात् , अतः स्त्रीपुंनपुंसकैकद्विबहुत्वकर्तादिविशेषलक्षणाः शक्तयः परिगृहीता एव त्वया, अस्मन्मतवदेव च विशेषणस्वरूपप्रवृत्त्या विना न कश्चिच्छक्तिमानन्यः किन्तु विशेषा एव विशेषेणास्मदभीष्टाः शक्तय इति यद्युच्यते त्वया, उच्यतां को वारयति ? ताश्च स्वार्थसत्यः शक्तयो विशेषरूपेण विशेषा एव, तासाञ्च तेषु तेषु प्रवृत्तिवस्तुषु स्त्रीत्वादिषु विवक्षव 15 व्यञ्जिका।
___ एवश्चानेनेत्यादि, सोऽयमित्यभिसम्बन्धादित्यादि प्रंक्रम्याशक्तेः सर्वशक्तेर्वेति विकल्प्य त्वदीयमेव व[च]नं पलायमानस्यापि ते बाह्यवस्तुसद्भावमनतिक्रमणीयं प्रतिपादयति बलात्-तदनिच्छतोऽपि
प्रकारान्तरेण व्याचष्टे-सिद्धेऽर्थ इति, प्राक् सिद्धार्थस्य शब्देन सम्बन्धोऽनुरूपो भवति, नासिद्धस्यार्थस्येति भावः । प्रकारान्तरेणाह-अथ वेति, अत्र पक्षेऽनुशब्दो यथापर्यायः, अनुरूपं-यथारूपमित्यर्थः, एवञ्च यथा युज्यते तथारूपः शब्द 20 इत्युक्तं भवति तत्र कथं युज्यत इत्यत्राह-तेन हीति, तदर्थवाचकत्वप्रकारेणासौ शब्दः तेन सह वाच्यवाचकभावलक्षणं योगमर्हति, तदर्थावाचकत्वेन त्वसौ शब्दो न तेन योगमहतीति भावः । तेन प्रकारेण योग्यत्वे हेतुमाहयस्मादर्थेति, विवक्षापूर्विका शब्दप्रवृत्तिर्विवक्षा चार्थनिबन्धना, न ह्यर्थप्रत्यायनव्यतिरेकेण शब्दप्रयोगस्यास्ति किमपि प्रयोजनम् , तस्माच्छब्दोऽर्थस्य प्रत्यायकोऽर्थश्च प्रत्याय्य इत्यवश्यमभ्युपगन्तव्यमेव, न हि शब्दार्थयोः प्रत्याय्यप्रत्यायकभावाभावेऽर्थविवक्षा तद्वारेण शब्दप्रयोगो वा शक्यते कर्तुम् , तस्मात् विवक्षितार्थानुरूपेण प्रयुक्तः शब्दः श्रोतरि तथाविधां शक्तिं गमयति सा 23 च शक्तिः शब्देऽर्थे चास्ते यतः शब्दोऽर्थ वक्तुमीटेऽतः शब्दे शक्तिरस्ति यतश्चार्थः शक्यते वक्तुं शब्देनातोऽर्थेऽस्ति शक्तिरिति भावः । शब्दो हीति, निश्चितवाच्यवाचकभावः शब्दोऽर्थे वक्तुमिष्यत इत्यर्थः। वाच्यवाचकभावसम्बन्धव्यतिरेकेण विवक्षामात्राद्वक्तुमर्थो न शक्यत इत्याह-न चेति । शब्दार्थयोः शक्तिमाह-सचेति । तदेवं योग्यशब्दनिबन्धनविवक्षावचनेन बाह्यवस्तुसद्भाव निरूप्य तस्यैव वचनान्तरेण तत्सद्भावाभ्युपगमापत्तिमुपदर्शयति-एवञ्चानेनेति । किं तद्वचनमित्यत्राह-सोऽयमितीति। तत्कथं वचनमर्थमनतिक्रमणीयं प्रतिपादयतीति तु प्रागुक्तप्रायमेव, तदिदं सम्बन्धात्मकेत्यादिनेति ध्येयम् । अर्थे 30
१ सि. क्ष. डे. छा. योनानुरूपः यथार्थरूपादित्यादि। २ सि.क्ष. ३. प्रक्रममशक्तेः । द्वा० २२ (९९)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org