________________
७८४
न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे धरणिसखिशृगालिकापलायनवत् , अतः स्त्रीपुंनपुंसकैकद्विबहुत्वकर्तादिविशेषलक्षणाः शक्तयः परिगृहीता एव त्वयेति, इतश्च-अस्मन्मतवदेव चेत्यादि त्वद्वचनादेवास्यार्थस्याविद्यमानाः शक्तयोऽध्यारोप्यन्त इति विकल्पोत्थापनादसम्भवं शक्तिमतोऽन्यस्य वयमपि ब्रूमः-या सा विशेष[[]णां स्वरूपप्रवृत्तिः तया विना न कश्चिच्छक्तिमान्नामान्यः, किन्तु विशेषा एव विशेषेणास्मदभीष्टाः शक्तय इति यद्युच्यते त्वयोच्यतां को 5 वारयति ? ताश्च स्वार्थसत्यः-स्खेन रूपेण सन्ति शक्तयो विशेषरूपेण-स्त्रीपुंनपुंसकादिभावेन शक्त्यन्तरव्यावृत्तरूपा विशेषा एव-वर्तमानाः सन्तीत्यर्थः, तासाश्च-शक्तीनां तेषु तेषु प्रवृत्तिवस्तुषु स्त्रीत्वादिषु विवक्षैव व्यञ्जिका-विवक्षया व्यज्यन्ते प्रकाश्यन्ते सत्य एव शब्दप्रयोगेण, सैव हि विवक्षा तटस्तटी तटमित्यादीन् सतो विशेषानभिव्य[न]क्तीत्यर्थः, का विवक्षा ? वक्तुमिच्छा।
सैव तां तां शक्तिमर्थगतशब्दमनपेक्ष्य सिद्धामध्यारोपयति प्रागात्मनि, पश्चात् प्रयोगात् 10 श्रोतृबुद्धौ, वक्त्रभिप्रायार्थग्रहणप्रयतनात् , अत्र प्रयोगः शब्दनिरपेक्षैव विवक्षाध्यारोप्या शक्तिरर्थः, प्रत्याय्यत्वात् , यः प्रत्याय्यः शब्दनिरपेक्ष एव सिद्धः, अभिजल्पार्थार्थावयववत् , यथा त्वत्प्रयुक्तस्याभिजल्पशब्दस्याभिधेयोऽर्थः समुदायः स च प्रत्याय्योऽवयवार्थाभ्यां समुदायार्थप्रतिपत्तेरवयवार्थप्रतिपत्तिपूर्वकत्वात् , मा भूद्विवक्षाप्रयोगयोरानर्थक्यमिति तावदभ्युपगन्तव्यौ खपुष्पवैलक्षण्येन शब्दनिरपेक्षौ शक्त्याख्यौ त्वया, प्रत्याय्यत्वात् तथा शक्त्याख्योऽर्थः, 15 इतरथाऽभिजल्पशब्दवैयर्थ्य स्यात् ।
(सैवेति) सैव तां तां शक्तिमर्थगतशब्दमनपेक्ष्य सिद्धामध्यारोपयति प्रागात्मनि-वक्तरि, पश्चात् प्रयोगाच्छ्रोतृबुद्धौ, नासती, वक्त्रभिप्रायग्रहणार्थप्रयतनात्-पुमानयमनेन विवक्षितः, स्त्रीयं, नेतरे इत्या
परिगृहीते चैता अप्यर्थगताः शक्तयः परिगृहीता एव, तथा चाभिजल्पो हि शब्दार्थः, स च शब्द एव, तस्मान्न लिङ्गादिविचारखे
देनार्थः, असद्विषयत्वात् , खपुष्पविषयविचारखेदवदित्यादिवर्णनमयुक्तमेवेति दर्शयति-अत इति। लिङ्गसंख्यादयोऽपि शक्तयः 20 सोऽयमिति सर्वनामप्रत्यवमर्शयोग्यवस्तुगताः तदभिन्नात्मकाः, तत्र त्वयाऽर्थे शक्तिर्नाभ्युपगम्यते यतोऽध्यारोप उच्यते, अस्मन्म
तेऽप्यर्थस्योपसर्जनत्वेनासत्त्वान्न स शक्तिमानिति शक्तिमतोऽन्यस्यार्थस्यासम्भवो वयमपि ब्रूम इत्याह-त्वद्वचनादेवेति । तर्हि तव मते शक्तिमान् क इत्यत्राह-या सा इति, प्रवर्त्तमाना विशेषा एव शक्तिमन्तो न ततोऽन्यः कश्चनार्थः शक्तिमान् , एवमेव यदि त्वयाप्युच्यते तर्हि न विवदामह इति भावः । ताश्च विशेषरूपाः शक्तयः खेन रूपेण लिङ्गसंख्यादिरूपेण शक्त्यन्तरव्यावृत्तरूपेण
च विषयीकृताः सन्तीत्याह-ताश्च स्वार्थसत्य इति, ताश्च शक्तयः स्वार्थेन रूपेण-विशेषरूपेण सत्यो-विद्यमानविशेषाः शक्त्य25 न्तरव्यावृत्तरूपा इत्यर्थः । स्त्रीपुंनपुंसकादिषु कस्यचिदेवान्वाख्याने हेतुमाह-तासाञ्च शक्तीनामिति । तटस्तटी तटमित्यादौ तट
पदार्थे विद्यमानानपि ख्यादिविशेषान् प्रतिनियततया व्यवस्थापयति विवक्षेति भावः । विवक्षाया विशेषाभिव्यञ्जकत्वमेव निरूपयतिसैव तां तामिति । अर्थो हि शब्दमनपेक्ष्य खतः सिद्धः, तदिदंसम्बन्धवचनेनैवार्थसिद्धेस्क्तत्वात् , लिङ्गादिशक्तयोऽपि वस्तुषु शब्दमनपेक्ष्यैव सिद्धाः, तत्र प्रयोक्ता परस्यार्थबोधनेच्छायां सत्यां स्वयं प्रथमं स्त्रीपुंनपुंसकाद्यन्यतमशक्तिं वस्तुगत
शब्दमनपेक्ष्यैवाध्यारोपयति स्वात्मनि, खस्मिन् तज्ज्ञानस्य शब्दव्यतिरेकेणापि सम्भवात् , ततः तटः पुमानित्यादिशब्द 30 प्रयुनक्ति श्रोतापि तत्प्रयोगं निशम्य स्वात्मनि तच्छक्तिमध्यारोपयति, अनेनाभिप्रायेणासौ तट इति प्रयोगं कृतवानिति
वक्त्रभिप्रायग्रहणप्रवृत्तत्वादिति व्याचष्टे-सैव तां तां शक्तिमिति । खाभिप्रायानुसारेण श्रोत्रा वयं स्वात्मन्यध्यस्त
१ सि. क्ष. छा. सम्भवश०। २ सि.क्ष. छा. व्यावृत्यरूपा।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org