________________
सर्वशक्तिपक्षे दोषः]
द्वादशारनयचक्रम् द्यनन्यबुद्धिव्यवस्थानेन, अत्र प्रयोगः शब्दनिरपेक्षैव विवक्षाध्यारोप्या शक्तिरर्थ इति प्रतिज्ञा, प्रत्याय्यत्वात् प्रत्यायकेन वक्त्रा श्रोतरि प्रत्ययाधानं प्रत्याय्यत्वं शक्त्याख्यस्यार्थस्य सिद्धमेव, यः प्रत्याय्यः [स]शब्दनिरपेक्ष एव सिद्धोऽभिजल्पार्थार्थावयववत् , यथा त्वत्प्रयुक्तस्याभिजल्पशब्दस्याभिधेयोऽर्थः समुदायः, आभिमुख्येन जल्पोऽभिजल्पः तदिदंसम्बन्धात्मक एकीभावः त्वया शब्दार्थयोर्युत्पादितः, स च प्रत्याय्योऽवयवा
भ्याम्-अभिशब्दार्थेन जल्पशब्दार्थेन च, आभिमुख्येन जल्पोऽभिजल्प इति, समुदायार्थप्रतिपत्तेरवय- 5 वार्थप्रतिपत्तिपूर्वकत्वात् , मा भूद्विवक्षाप्रयोगयोः त्वदीययोरानर्थक्यमिति तावदभ्युपगन्तव्यौ खपुष्पवैलक्षण्येन शब्दनिरपेक्षौ शक्तयाख्यौ त्वया प्रत्याय्यत्वात् , तथा शक्त्याख्योऽर्थः, इतरथाऽभिजल्पशब्दवैयर्थ्य स्यादिति ।
किश्चान्यत्
प्रयोजकत्वाच्चास्या अशक्तिपक्षोक्तमितोमुखं युक्तिजातं विपरिवर्त्तते, सर्वशक्तिपक्षेऽपि 10 वाऽस्मन्मतमेवोच्यते त्वया, अर्थार्थत्वाच्छब्दप्रयोगस्य, व्यवस्थितां शब्देनानादेयामव्यतिकीर्णामनन्यशब्दवाच्यां तां तां शक्तिं विशिष्टामेवोपादाय शब्दाः प्रयुज्यंतेऽभिन्नलिङ्गसंख्यादिविशिष्टैकशक्तिविषयनियताः, लिङ्गादिभिन्नसामानाधिकरण्यक्रियायां व्यतिकरापत्तेः।
प्रयोजकत्वाचास्या इत्यादि, यदुक्तं त्वया तत्राशक्तिपक्षे वस्तुगता शक्तिरप्रयोजिका, न हि 15 तस्या वस्तुविषयाभ्यां सन्निधानासन्निधानाभ्यां किश्चिदपि प्रयोजनमस्तीति, तदिदमितोमुखं युक्तिजातं विपरिवर्त्तते, शक्तरेव विवक्षाबीजत्वात् प्रयोजकत्वाञ्च, एवंतावदशक्तिपक्षोऽस्मन्मतसिद्धस्त्वद्वचनाशब्दनिरपेक्षा लिङ्गादिशक्तिमवबज्य शब्दनिरपेक्षशक्त्यध्यस्तप्रयोक्तज्ञानं वक्तर्यनमीयत इत्याशयेन प्रयोगं दर्शयति-अत्र प्रयोग इति, शब्दापेक्षारहिता विवक्षयात्मनि परत्र वाऽध्यारोपयितुं योग्या स्त्रीपुनपुंसकादिशक्तिरेवार्थ इति प्रतिज्ञार्थः । हेतुमाहप्रत्याय्यत्वादिति, प्रत्याययितुं योग्या प्रत्याय्या-श्रोतुर्बोधं विधापयितुं योग्येत्यर्थः, वक्त्रा श्रोतरि प्रत्याय्यते शक्तिरिति प्रत्याय्येति 20 वा तदर्थः । व्याप्तिं दर्शयति-यः प्रत्याय्य इति । दृष्टान्तमाह-अभिजल्पेति, अभिजल्पस्यार्थोऽभिजल्पार्थः, अर्थावेवावयवौ अवयवौः, अभिजल्पार्थायावयवौ अभिजल्पार्थार्थावयवौ तद्वत् , अभिजल्पशब्दवाच्यशब्दाथैकीभावप्रतिपत्तिफलकावयवार्थवदित्यर्थः । अमुमेवार्थ विशदयति-यथेति, इदं तदिति सर्वनामप्रत्यवमर्शयोग्यं वस्तु शब्दार्थयोरेकीभावः, अर्थस्याभिमुख्येन शब्दस्य जल्पनात्, स चैकीभावः प्रत्याययितुं योग्यः समुदायशब्दार्थत्वात्, स चावयवार्थाभ्यां भवति न हि अभिशब्दार्थ जल्पशब्दार्थञ्चाविज्ञायाभिजल्पशब्दार्थ विज्ञातुमीष्टे, अयमिति अभिशब्दार्थः, स इति जल्पशब्दार्थः, अयमर्थः स 25 शब्द इति अयं शब्दः सोऽर्थ इति वाऽवयवार्थे विज्ञाते एकीकरणरूपोऽभिजल्पशब्दार्थः प्रतीयते, तत्र यदि अवयवशब्दयोः क्वचिच्छक्तिर्न स्यात्तर्हि समुदायवाचकत्वेनाभिजल्पशब्दस्य विवक्षाप्रयोगौ न भवेताम्, आनर्थक्यात् , तन्मा भूदिति तयोः शक्तिरभ्युपेया सा च शब्दनिरपेक्षैवेति भावः स्यादिति प्रतिभाति । उक्त शक्तिव्यतिरेकेण च विवक्षाप्रयोगौ न भवेतामित्यभिधत्तेप्रयोजकत्वाच्चेति । एकीकरणात् प्राक् शब्दस्य नार्थेन सम्बन्धः, अन्यथैकीकरणस्यानुपपत्तेः, अर्थप्रत्यायनानन्तरमेवार्थानां गवादीनामात्मसु शब्दस्य हि समारोपकल्पना भवतीति शक्त्याख्यस्यार्थस्याध्यारोपे प्रयोजकत्वात्तस्याप्रयोजकत्वजल्पनमयुक्तमिति 30 व्याकरोति-यदुक्तं त्वयेति, तदिदमितोमुखमिति, त्वदीयनिरूपणं मदुपपादिताः शब्दनिरपेक्षशक्तिप्रसाधकयुक्तयः निवर्तयतीति भावः । हेतुमाह-शक्तरेवेति. शब्दनिरपेक्षायाः शक्तेर्बुध्यपस्थितौ ह्ययं शब्द एतच्छक्तियोग्य इति योग्यशब्दनिबन्धना विवक्षा तन्नियमेन यत्किञ्चिल्लिङ्गविशिष्टशब्दप्रयोगश्च सम्भवतीति भावः । त्वद्वचनादेव मत्पक्षसिद्धिरियेतदशक्तिपक्षे प्रतिपादितमित्युपसंहरति-एवं तावदिति । सर्वशक्तिपक्षेऽपि तन्निदर्शयति-सर्वशक्तिपक्षे वेति । अर्थगत्यर्थो हि शब्द
wwww
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org