________________
७८६
wwmwanaman
न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे देव नास्ति, सर्वशक्तिपक्षेऽपि वाऽस्मन्मतमेवोच्यते त्वया, कस्मात् ? अर्थार्थत्वाच्छब्दप्रयोगस्य, व्यवस्थित[1]मित्यादिना, व्यवस्थितां शब्देनानादेयामव्यतिकीर्णामनन्यशब्दवाच्यां तां तां शक्तिं-स्त्रीपुंनपुंसकादिका शक्त्यन्तरव्यावृत्त्या विवक्षितां विशिष्टामेवोप[]दाय स्वविषयनियताः शब्दाः प्रयुज्यन्तेऽभिन्नलिङ्गसंख्यादिविशिष्टैकशक्तिविषयनियताः, किं कारणं ? लिङ्गादिभिन्नसामानाधिकरण्यक्रियायां व्यतिकरापत्तेः, उक्तं प्राक्5 'तारापुष्यनक्षत्राणां स्त्रीपुंनपुंसकानां व्यतिकरण प्रयोगोऽपशब्द' इति, अयश्च सर्वशक्तिपक्षः ।
परमार्थतस्तु वादपरमेश्वरवाद एवायम् , एकैकद्रव्यानन्तपर्यायत्वात् , अहं हि त्वयैव सह विरुध्ये, न वादपरमेश्वरेण, तेन च सह को विरोधः ? यस्तु विषयोद्राहः इहैकमेवार्थवस्त्वित्यादि यावच्छेषरूपत्वञ्च पाकस्येत्युदाहृत्य तस्मादविद्यमाना वा शक्तय इत्यादिना भावयित्वा तदुपसंहारेऽभिहितं तस्मादुभयोरपि पक्षयोरित्यादि सम्भवतीति, एतन्नातिसम्यक् प्रत्यपेक्षित10 स्वार्थम् , सर्वस्यास्योदाहृतस्यार्थस्याविरुद्धैकार्थत्वात् ।।
(परमार्थतस्त्विति) परमार्थतस्तु वादपरमेश्वरवाद एवायम् , कस्मात् ? एकैकद्रव्यानन्तपर्यायत्वादस्मन्मतमेव, अहं हि त्वयैव सह विरुध्ये, न वादपरमेश्वरेण, तेन च सह को विरोधः ? तस्य हि मतमेकैकं द्रव्यमनन्तपर्यायम् , सापेक्षनिरपेक्षाश्च परिणामाः पर्यायाः शक्तय इत्युच्यन्ते, द्रव्याणि चान्योऽ
न्यानुगतशक्तित्वात् सर्वशक्तीनि, यथाह-'अण्णोण्णानुगताणं इमं च तं व त्ति विहयणमयुत्तं । जह दुद्ध15 पाणियाणं जावंत विसेसपज्जाया' (संमति का. १ श्लो. ४७) यस्तु विषयोद्वाह इत्यादि, अशक्तेः
सर्वशक्तेर्वेत्येतस्याः कारिकाया विषयः शब्दोत्थापिताः क्रियादिपरिकल्पना इत्येतस्यार्थस्य निदर्शनार्थमुद्राह्यते-विरुद्धैधमैर्युक्तमित्यभिधीयत इत्यादिः स एव च ग्रन्थः प्रत्युच्चार्यः, इहैकमेवार्थवस्त्वित्यादि यावच्छेषरूपत्वञ्च पाकस्येत्युदाहँत्य तस्मादविद्यमाना वा [शब्दस्यैव]शक्तय इत्यादिना भावयित्वा तदुपसंहारेऽभिहितं
प्रयोगः, अर्थश्च सर्वशक्तिमान् , विवक्षया यच्छत्याऽर्थोऽभिधीयते सा शक्तिः प्रधानमर्थ उपसर्जनमित्यस्मन्मतमेव सिद्ध्यतीत्या20 शयेन हेतुमाचष्टे-अर्थार्थत्वादिति, अर्थस्यानेकशक्तिमत्त्वेऽपि यद्यदुपकारवशाद्यथा प्रयोक्तृभिर्विवक्ष्यते शब्देन सैव शक्तिः
प्रतिपाद्यते प्रतिनियतप्रयोजनपूर्वकत्वाच्छब्दप्रयोगस्येति भावः । एतन्निरूपयति-व्यवस्थितामिति, अर्थस्य सर्वशक्तिमत्त्वेऽपि शब्देन शक्तिः प्रतिनियतेति भावः । अव्यतिकीर्णामिति, परस्पररूपानापन्नामित्यर्थः, अनन्यशब्दवाच्यां-तत्तच्छत्तयभिन्नशब्दवाच्या, एकत्र शक्ती वर्तमानस्य शब्दस्य न जातु शक्त्यन्तरे वृत्तिस्तदनन्यत्वाभावादिति भावः । लिङ्गसंख्याविशिष्टायामेकस्यां
शक्तौ शब्दो नियत इत्याह-अभिन्नलिनेति । मेदाङ्गीकारे दोषं पूर्वोक्तं पुष्यस्तारका दारा इत्यादिरूपं स्मारयितुं हेतुमाह25 लिङ्गादिभिन्नेति । सर्वशक्तिपक्षोऽयं स्याद्वाद एवानन्तपर्यायैकद्रव्यत्वादिल्याह-परमार्थतस्त्विति । व्याकरोति
परमार्थतस्त्विति । वादपरमेश्वरत्व एतस्य हेतुमाह-एकैकेति, प्रत्येक वस्तु अनन्तपर्यायरूपमिति भावः । नन्वस्य वादपरमेश्वरवादत्वे किमर्थं तेन सह त्वं विरुध्यसे, न हि वादपरमेश्वरेण सह कस्यापि विरोध इत्याशङ्कायामुभयनियमनय आह-अहं हीति, सत्यमेव न कस्यापि वादपरमेश्वरेण विरोधः, अहन्तु त्वयैव सर्वशक्तिवादिना विरुध्य इति भावः । वादपरमेश्वरवादमतमादर्शयति
तस्य हि मतमिति, प्रत्येक घटपटादिद्रव्यमनन्तपर्यायम् , पर्यायाश्च केचित् सापेक्षाः केचिच्च निरपेक्षाः, एत एव पर्यायाः 30 परिणामाः शक्तयश्चोच्यन्ते, एतादृशैः पर्यायैर्युक्तत्वादनुगमनलक्षणं द्रव्यं सर्वशक्तिमत् , नानापर्यायेष्वनुगतशक्तिरूपञ्चेति भावः ।
अत्र प्रमाणमुट्टङ्कयति-यथाहेति, सिद्धसेनाचार्य इति शेषः । अण्णोण्णानुगताणं इति, अन्योऽन्यानुगतयोरिदं वा तद्वेति
१ सि. क्ष. 'न्तराव्या० । २ सि. एकैकस्मादेकैरुद० । ३ सि. क्ष. यत्रु विषयोदाह । ४ सि. क्ष. "हृता तस्यावि०।।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org