SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ सर्वप्रत्ययैकार्थ्यम्] द्वादशारनयचक्रम् ७८७ तस्मादुभयोरपि पक्षयोरित्यादि यावत् सम्भवतीति, इत्थं प्रत्युच्चार्योत्तरमाहाऽऽचार्यः-एतन्नातिसम्यक्प्रत्यपेक्षितस्वार्थम् , कस्मात् ? सर्वस्यास्योदाहृतस्यार्थस्याविरुद्धैकार्थत्वात् । तद्भावयति ननु सर्व एव प्रयोगा ओदनं पचति ओदनस्य पाकः पाकं करोति विक्लित्तिनिवृत्तिं करोति विक्लेदयति पचति पाकं निवर्तयतीत्यादय एकार्थाः, यदेवोदनं पचतीति पचिविषयं । कर्मोदनाख्यं तदेव पाक ओदनस्येत्यनया षष्ठ्योच्यते,पाकशब्देन च भावः पच्यर्थः कृता पचतीति तिङन कर्बर्थ उच्यते, स एव पार्क निर्वर्तयतीति निदर्यते, कृदभिहितभावद्रव्यत्वात् , पाकं करोतीति द्रव्यवत्कर्मणि द्वितीया, निर्वतयतीति च करोतीत्यर्थः, कर्तुः साध्यत्वात् , विक्लित्तिस्तण्डुलानां पाकः तद्विषयः कर्ता साध्यते यदा चौदनः प्रतीतो भवति तद्विषयभुजिपच्यादिक्रियासन्देहे किं करोतीति प्रश्ने ओदनस्य प्रसिद्धस्यानूद्यमानस्याव्याख्येयत्वादस्यैव 10 पचे ज्यादिव्यतिरेकेण विधानं पचतीति, तस्यैव पचतेः पूर्वस्य व्याख्याने किं करोतीति पृष्टे पाकं करोतीति पचिना प्रतिवचनात् कर्मत्वमुक्तवत् , देवदत्तस्य व्यापार विशिष्टं स्थाल्यादिव्यापारेभ्यः सम्भवनधारणादीनां प्रकरणात् तत्प्रयोजकत्वात् स्थाल्याद्यपि पचने वर्त्तत इत्येवमादिभिरन्योन्यव्याख्यानप्रयोगैरेक एवार्थो व्याख्यायते यथा 'वृद्धिरादैच' (पा० १-१-१) इत्यस्य प्रतीतापेक्षव्याख्यानवत् ।। ननु सर्व एवेत्यादि, यदेवौदनं पचतीति पचिविषयं कर्म ओदनाख्यं तदेव पाक ओदनस्येत्यनया षष्ठ्योच्यते, 'अनभिहिते' 'कर्मणि द्वितीया' (पा. २-३-१, २) एकत्र, एकत्र च 'कर्तृकर्मणोः कृति' (पा. २-३-६५) इति षष्ठ्या तदेव कर्मोच्यते, पाकशब्देन च भावः पच्यर्थः कृता घोच्यते, पचतीति तिङा कर्बर्थः, स एव पाकं निवर्त्तयतीति निदर्यते,-वर्ण्यतेऽनेन तिडेति, किं कारणं ? कृदभिहितभावद्रव्यत्वात् , उक्तं हि 'कृदभिहितो भावो द्रव्यवद्भवति' ( महाभाष्ये अ. ५ वा. ४ सू. १९) इति, पाकं 20 15 विभजनमयुक्तम् । यथा दुग्धपानीययोर्यावन्तो विशेषपर्यायाः ॥ इति छाया, परस्परानुप्रविष्टयोर्द्रव्यपर्याययोरिदं द्रव्यमयं पर्याय इति पृथक् करणमघटमानकम् , प्रमाणाभावेन कर्तुमशक्यत्वात्, यथा तथाविधयोर्दुग्धपानीययोः, द्रव्यपर्याययोः किं परिमाणोऽयमविभाग इत्यत्राह-यावन्तो विशेषपर्यायास्तावानविभागः अतःपरमवस्तुत्वप्रसक्तेः, सर्वविशेषाणां अन्त्यविशेषपर्यन्तत्वादिति तद्गाथाव्याख्या । ओदनं पचति पाकमोदनस्येत्याधुदाहृतस्यार्थस्याविरुद्धैकार्थत्वमेव भावयति-ननु सर्व एवेति । व्याचष्टेयदेवौदनमिति, ओदनं पचतीत्यत्राख्यातस्य कर्बर्थत्वात् पाकानुकूलव्यापाराश्रयस्य तजन्यफलाश्रयत्वलक्षणानभिहितकर्मत्वात् 25 कर्मणि द्वितीयेत्यनेन द्वितीयान्तत्वम् । ओदनस्य पाक इत्यत्र तु पचनं पाक इति व्युत्पत्त्या भावे घस्रो विधानात् तेन कर्म. णोऽनुक्तत्वात् द्वितीयायां प्राप्तायां 'कर्तृकर्मणोः कृतीति' षष्ठी कर्मणि भवतीत्याह-एकत्र चेति, ओदनस्य पाक इत्यत्रेत्यर्थः । स एवेति, कर्बर्थ एवेत्यर्थः, सिद्धावस्थापन्नः पाकः क्रियान्तराकांक्षादर्शनात् , सर्वसंख्यादियोगदर्शनाच्च, पाकानुकूलव्यापारकर्तृवाच्यस्य पचतीत्यस्यैव पार्क निर्वतयतीति निदर्शनात् पचधात्वर्थस्य पाकशब्देन आख्यातार्थस्य निर्वतयतीति शब्देन व्यावर्णनात् साध्यावस्थापन्नपाकस्य सिद्धावस्थापन्नेन पाकेन न कश्चिद्विरोधः, कृदभिहितभावत्वाच्च पाकस्य क्रियान्तराकांक्षणं सर्वसंख्यादि 30 योगश्चेति भावः । भावस्य क्रियाया यदा कृत्प्रत्ययेनाभिधानं तदा द्रव्यमिव स भासत इति दर्शयति-उक्तं हीति । १ सि.क्ष. एकत्वं । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002586
Book TitleDvadasharnaychakram Part 3
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1957
Total Pages430
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy