________________
७८८
न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे करोतीति द्रव्यवत्कर्मणि द्वितीया, निवर्तयतीति च करोतीत्यर्थः, कुतः ? कर्तुः साध्यत्वात् , विक्लित्तिस्तण्डुलानां पाकः, तद्विषयः कर्ता साध्यते, विक्लित्तिनिवृत्तिं कः करोति ? देवदत्तो विक्लेदयति पचति पार्क निवर्तयतीत्येकार्थत्वात् पचिक्रियाव्यातत्वेन साध्यते, देवदत्त इत्यर्थः, यदा चौदनः प्रतीतो भवति तद्विषयभुजिपच्यादिक्रियासंदेहे किं करोतीति प्रश्ने ओदनस्य प्रसिद्धस्यानूद्यमानस्याव्याख्येयत्वात् अस्यैव 5 पचेर्भुज्यादिव्यतिरेकेण विधानं पचतीति, तस्यैव पचतेः पूर्वस्य व्याख्याने किं करोतीति पृष्टे पाकं करोतीति
पचिना प्रतिवचनात् कर्मत्वं उक्तवदिति-'अनभिहिते' 'कर्मणि द्वितीया, कृदभिहितभावद्रव्यत्वादिति, पाकस्य निर्वृत्तिं करोतीति कर्तृप्रत्ययार्थं व्याचष्टे, देवदत्तस्य व्यापार विशिष्टं स्थाल्यादिव्यापारेभ्यः, सम्भवनधारणादीनां प्रकरणात् तत्प्रयोजकत्वात् , स्थाल्याद्यपि पचने वर्त्तत इत्यादिना सामान्यकारकत्वं, देवदत्ताधीनस्य विशिष्टस्य कारकान्तरप्रवर्तनाभावञ्च दर्शयति-इत्येवमादिभिरन्योन्यव्याख्यानप्रयोगैरेक एवार्थो व्याख्यायते, 10 यथा 'वृद्धिरादैच्' (पा. १-१-१) इत्यस्यार्थो वृद्धिरितीयं संज्ञा भवति आदैज्वर्णानाम्-आकारस्य चैचश्चेत्यादिप्रतीतापेक्षव्याख्यानवत् ।
एवं सर्वत्र पाकः साध्यरूपतायामेव व्यवस्थितः साधनमाकांक्षतीति तस्मिन्नेव काले कर्मत्वं शेषत्वञ्च भजते, शेषस्याकारकविवक्षणात् , तस्मादविरुद्धा क्रियादिपरिकल्पना अर्थ
शक्तिविषयैव, न शब्दोत्थापिता, अस्मादुगाहानुरूपोपसंहाराभावादसम्यक्प्रत्यपेक्षितस्वार्थ 15 वचस्त्वदीयमेवम् , तस्माच्छब्दस्याप्रधानत्वात् कुतोस्य कल्पनाशक्तिः ? अत इत्थं कारिका
द्रव्यवदवभासनादेव पचनार्थस्य पाकस्य करोतिक्रियाकर्मत्वमित्याह-पाकमिति । पचतीत्यस्य पार्क निर्वर्त्तयतीति विवरणाद्धात्वर्थस्य पाकशब्देनाभिधानमाख्यातार्थस्य च निवर्तयतीति पदेन तदर्थश्च करोतीतीति दर्शयति-निर्वर्त्तयतीति चेति । साध्य किमित्यत्राह-कर्तुरिति, कर्तृव्यापाराविष्टो देवदत्तः साध्यते विधीयत इत्यर्थः, पाकस्य सिद्धत्वेनाविधेयत्वात्तदनूद्यत इति पाक
मनूद्य तद्विषयः कर्ता विधीयत इति भावः । विक्लित्तिनिवृत्तिं कः करोतीति पृष्टे देवदत्तो विक्लेदयति पचतीत्यायेकाथैः शब्दैः 20 प्रतिवचनादित्याह-विक्लित्तिनिवृत्तिमिति, पाकनिर्वृत्तिमित्यर्थः । यदा चौदन इति, ओदनस्य प्रसिद्धत्वेनाव्याख्ये
यत्वादनूद्यत्वमेव, तथा च किमोदनं भुनक्ति पचति वेति ओदने विशेषक्रियासंदेहे समुत्पन्ने न भुनक्ति, किन्तु पचतीति विधीयत इति भावः । तस्यापि पचतेः पाकं करोतीति पूर्ववद्व्याख्यानमित्याह-तस्यैवेति । पूर्वोक्तमेव दर्शयति-अनभिहित इति, यदेवोदनं पचतीत्यादिपूर्वोदितरीतिर्बोध्या। पाकस्य निर्वृत्तिं करोतीत्यत्र तिप्प्रत्ययार्थः कर्त्ता देवदत्तादिः, तनिष्ठश्च कर्तृत्वमधि
श्रयणोदकासेचनतण्डुलावपनैधोऽपकर्षणादिरूपं विशिष्टं तत्कुर्वन् देवदत्तः कर्त्तति दर्शयति-देवदत्तस्येति, सम्भवनं-ग्रहणम् , 25 धारणं-स्थिरत्वादा क्रियासमाप्तेस्तण्डुलानां धारणमेतत् क्रियां कुर्वती स्थाली पचतीत्युच्यते, आदिना ज्वलनक्रियादेर्ग्रहणं
तत्कुर्वन्ति काष्ठानि पचन्तीत्युच्यत इति भावः । स्थाल्यादीनां सामान्यकारकत्वं देवदत्तगतविशिष्टव्यापारो न कारकान्तरप्रयुक्तः स्थाल्यादयस्तु का सम्भावितक्रिया नियुज्यन्ते, नियुक्ताश्च व्याप्रियन्ते न तु प्रागेवेत्याशयेनाह-इत्यादिनेति । देवदत्तः पचति पाकं करोति निवर्तयति ओदनस्य पाकं करोति स्थाली पचति काष्ठानि पचन्तीत्यादि प्रयोगे एक एव पाकरूपोऽर्थो व्याख्यायते
न हि तत्र कश्चिदस्ति विरोध इति दर्शयति-इत्येवमादिभिरिति । एकस्यैवार्थस्यानेकधा व्याख्याने निदर्शनमाह-यथा 30 वृद्धिरादैजिति. वृद्धिरिति संज्ञा आकारस्यैचश्चेति वृद्धिसंज्ञा विधीयतेऽप्रतीतत्वात. द्विशब्देनाकारो ऐच विज्ञेयाविति आत
ऐच्च विधीयतेऽप्रतीतत्वादिति यथैकस्य व्याख्यानभेदः प्रतीताप्रतीतत्वापेक्षया भवति तथात्रापीति भावः । एकस्यैव पाकादेरेकदैव
१ सि.क्ष. व्यावृतत्वेन ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org