________________
परिवर्तितकारिकार्थः] द्वादशारनयचक्रम्
७८९ पठितव्या 'शक्तेर्वा सर्वशक्तेर्वा, स्वार्थेनैव प्रकल्पिता । नाप्रधानेन नियता क्रियादिपरिकल्पना' ॥ इति ।
एवमित्यादि, इत्थं व्याख्यानप्रकारेण सर्वत्र पाकः साध्यरूपतायामेव व्यवस्थितः साधनमाकांक्षतीति तस्मिन्नेव काले कर्मत्वं शेषत्वं च भजते, तस्माद्युक्तमविरुद्ध[व]म् , तादर्थ्यात्-स एव साध्यरूपोऽर्थः कर्मरूपापन्नः शेषरूपापन्नश्च साधनाधीननिर्वृत्तिक उच्यते, कस्मात् ? शेषस्याकारकविवक्षणात्-सत्यमेव । हि 'कारकाणामविवक्षा शेषः' (महाभा० २-३-५० सूत्रे ) उच्यते, तस्मादविरुद्धा क्रियादिपरिकल्पना अर्थशक्तिविषयैव, न शब्दोत्थापिता, अस्मादुद्बाहानुरूपोपसंहाराभावादसम्यक्प्रत्यपेक्षितस्वार्थ वचस्त्वदीयमेवमित्युपसंहारः, तस्माच्छब्दस्याप्रधानत्वादवस्थितमर्थमनुवर्तमानस्योपसर्जनत्वात् कुतोऽस्य कल्पनाशक्तिः ? नास्तीत्यर्थः, अत इति, उक्तन्यायादित्थं कारिका पठितव्या 'शक्तेर्वा सर्वशक्तेर्वा' इत्यादि ।
विशेषाः शक्तय एवोपसर्जनीभूतसामान्याः, तदर्थो हि शब्दप्रयोगः, यथाथाभिधानश्च 10 शब्द (त. भा० १०-३५) इत्यस्मन्मतम् , सर्वशक्तेर्वा उक्तवदेकस्यैवार्थस्याविरुद्धशक्तिविशेषस्यानेकशक्त्यात्मकस्य वा स्वार्थेनैव प्रकल्पिता न शब्देनाप्रधानेन नियता-व्यवस्थिता क्रियाकर्मशेषकादिपरिकल्पना, अभिजल्पशब्दार्थत्वमपि स्वदर्शनरागेणैवोक्तं नोपपत्त्या, अभिजल्पगत्यर्थाभावात् स च शब्दोऽभिजल्पत्वमागतो वाच्यतां यायात् सोऽयमित्यभिसम्बन्धात् शब्दस्वार्थेन सहैकीकरणात् , न च तत् , शब्दस्यैवार्थत्वात् , न हि कश्चित् शब्दा-15 दर्थस्य पृथगसिद्धौ करोत्यैक्यमनयोरभेदोपचारसम्बन्धेन ।
(विशेषा इति) विशेषाः शक्तथ एवोपसर्जनीभूतसामान्याः, तदर्थो हि शब्दप्रयोगः-तस्य विवक्षितत्वात् यथार्थाभिधानञ्च शब्दः (तत्त्वार्थ० अ० १ सू० भा० ३५) इत्यस्मन्मतमित्युभयनियमनयदृष्ट्या,
कर्मत्वे शेषत्वे च न कश्चिद्विरोध इति निरूपयति-एवं सर्वत्रेति । एतदेव व्याचष्टे-इत्थमिति, प्रोक्तोदाहरणेषु सर्वत्र पाकः साध्यरूपतायामेव सन् साधनमाकांक्षति, यतः पाक इत्येकस्मिन् पदे धर्मद्वययोगो न विरुद्धः, दृष्टं हि पश्य मृगो धाव- 20 तीत्यादौ धावतीति कत्रपेक्षया साध्यरूपाया अपि सरणक्रियायाः दर्शनापेक्षया कर्मत्वं सिद्धधर्मत्वम् , अत एकस्यैव पाकस्य साध्यरूपताकाल एव कर्मत्वं पार्क निर्वर्त्तयतीति शेषत्वञ्च पाकस्य निर्वृत्तिं करोतीति सम्भवतीति भावः । ताद
र्थ्यादिति, एकार्थत्वात् सर्वप्रयोगस्येत्यर्थः । एकार्थत्वमेवादर्शयति-स एवेति, य एवार्थः कर्मरूपतापन्नश्शेषरूपतापन्नश्च स एव साधनाधीनजन्मत्वात् साध्यरूपतापन्नश्चेत्यर्थः । हेतुमाह-शेषस्येति, कारकविवक्षाऽभाव एव शेषत्वादित्यर्थः । महाभाष्यवचनमाह-कारकाणामिति, अविवक्षाया एव शेषत्वोक्त्या शेषत्वदशायामपि कारकत्वमस्तीति गम्यतेऽत एकदा कर्मत्वशेषत्व-25 योरेकत्र न विरोध इति भावः । अविरोधादेव च न शब्दशक्तिमहिम्नैव क्रियादिपरिकल्पना, अपि त्वर्थशक्तिनिबन्धनैवेति त्वद्वचनादेव सिद्धमिति निरूपयति-तस्मादविरुद्धति । यथाप्रतिज्ञमुपसंहाराभावात्त्वदीयं वचनजातं सम्यकातः प्रत्यवेक्ष्य प्रयुक्तं न भवतीत्याचष्टे-अस्मादिति । एवञ्च न शब्दस्य प्रधानता, किन्त्वर्थनिरूपितोपसर्जनतैव नातः शब्दरेव कल्पिताः शक्तयः, इत्थञ्च भवदुक्तकारिका परिवृत्त्यैवं पठनीयेत्याह-तस्माच्छब्दस्येति । कारिकां व्याचष्टे-विशेषा इति । शक्तेरिति पक्ष उभयनियमनयानुसारेणेति प्ररूपयति-विशेषाः शक्तय एवेति, उपसर्जनीकृतसामान्याः पुंस्यादिलक्षणशक्त्यात्मका 30 विशेषा एव वक्तुर्विवक्षितत्वात् तद्बोधेच्छयैव शब्दप्रयोगाच्च प्रधानभूता इति भावः । सर्वशक्तेर्वेति पक्षो वादपरमेश्वरमतमनुसृत्याऽऽख्याति-सर्वशक्तेर्वेतीति, एकस्यार्थस्याविरुद्धानन्तशक्तिमत्त्वेन क्रियाकर्मशेषकादिपरिकल्पना शब्दवाच्यार्थेनैव प्रकल्पिता
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org