________________
न्यायागमानुसारिणीव्याख्यासमेतम्
[उभयनियमारे सर्वशक्तेर्वेति वादपरमेश्वरमतेन, उक्तवदेकस्यैवार्थस्याविरुद्धशक्तिविशेषस्यानेकशक्त्यात्मकस्य वा स्वार्थेनैव प्रकल्पिता, न शब्देनाप्रधानेन नियता-व्यवस्थिता क्रियाकर्मशेषकादिपरिकल्पना, अभिजल्पशब्दार्थत्वमित्यादि, यदपि च त्वया परिकल्पितमभिजल्पः शब्दार्थ इति तदपि स्व[दर्श]नरागेणैव-स्वदृष्टिपरितुष्ट्यैवोक्तं नोपपत्त्या, कस्मात् ? अभिजल्पगत्यर्थाभावात्-अर्थगतिरेव शब्दगतिरिति वक्ष्यते, स च शब्दोऽभिजल्पत्वमागतो 5 वाच्यतां यायात्-आत्मानमेवार्थरूपापन्नं ब्रूयात् सम्भाव्येतोभयोरुपपत्त्येति, अत आह-सोऽयमित्यभिसम्बन्धात् शब्दस्यार्थेन सहकीकरणात्, अस्मादेव त्वद्वचनात् , न च तत्-यदभिजल्पत्वमागतो वाच्यतां यातीति, कस्मात् ? शब्दस्यैवार्थत्वात्तैव, तदसम्भवं दर्शयति-न हि कश्चिदित्यादि यावत्सम्बन्धेनेति, येन सहैकीक्रियतेऽर्थेन शब्दस्वरूपं स मुख्योऽर्थः, य एकीक्रियते सोऽप्रधान इति शब्दादर्थस्य पृथक् सिद्धौ क्रिये
तैक्यमनयोः, तत्तु नास्ति त्वन्मतेनार्थाभावात्, सम्बन्धस्यापि च द्विष्ठत्वात् पृथगर्थसिद्धिः, इतरथा 10 सम्बन्धाभावात् ।
द्रव्यभवनोपसर्जनत्वादमूर्तस्य मूर्तलक्षणविशेषात्तस्य प्राधान्यमिति स्थिते बाह्ये येन येन विशेषेण भूयते तदुपसर्जनं तन्नाम बाह्यम् , तद्वशप्रवृत्तित्वात् , भृत्यवत् , नाम वचनादिविशेषवशम् , यथार्थाभिधानशब्दत्वात् , तथाऽऽचार्यसिद्धसेन आह-'यत्र ह्यर्थो वाचं व्यभि
चरति नाभिधानं तत्' ( ) इति, व्याख्यातारोऽपि प्रस्थिता नामस्थापनाद्रव्य15 भिन्नलिङ्गवाच्येष्टाकरणाद्भावयुक्तवाची शब्द इति ।।
(द्रव्येति) [द्रव्यभवनं विशेषस्य ] उपसर्जनं तद्भावात्-द्रव्यभवनोपसर्जनत्वात् , उपसर्जन
न शब्देन, अप्रधानत्वादिति भावार्थः । अभिजल्पोऽपि न शब्दार्थों भवितुमर्हति, उपपत्त्यभावादित्याह-यदपि चेति । शब्देनार्थों गम्यत इति शब्दस्यार्थों विषयो विषयी च शब्दो विषयिणाच विषयपरतंत्रत्वाद्याऽर्थस्य गतिः सैव शब्दस्यापि, न
ततः पृथक् स्वतंत्रा काचनास्ति गतिरित्यग्रे वक्ष्यतेऽस्मन्मतेन, त्वन्मतेनाभिजल्पविषयीभूतस्यार्थस्यैवाभावादभिजल्पस्य कुतः 20 शब्दार्थत्वमित्याह-अभिजल्पगतीति । शब्दोच्चारणात्पूर्व योऽयं कम्बुग्रीवादिमानर्थः स घटो योऽयं घटः स कम्बुग्रीवादिमानर्थ इत्येवं तादात्म्याध्यासतामुपगतः शब्दोऽर्थप्रत्ययं विदध्यात्, यतो हि सोऽयमित्यभिसम्बन्धात् शब्दस्यार्थेनकीकरणं क्रियत इत्येतद्वयं यदा सम्भाव्येत तदा स्यात् , सम्भावनैव न सम्भवतीति निरूपयति-स चेति । कथं सम्भावनं नास्तीत्यत्राह-न च तदिति, तदेकीकरणं न च सम्भवति, अभिजल्पत्वमागतो वा वाच्यतां न यातीति भावः । अथवा सोऽयमित्यत्र तच्छन्दवाच्योऽर्थ एवासम्भवीति भावः । हेतुमाह-शब्दस्यैवेति, आन्तरो विज्ञानलक्षणः शब्दात्मा 25 श्रुत्यन्तरस्य बाह्यस्य ध्वन्यात्मकस्य प्रवृत्ती हेतुरिति शब्दस्यैवान्तरस्य बाह्यशब्दार्थताखीकारादिति वाच्यस्यार्थस्यासम्भव इति भावः ।
एकीकरणमपि न सम्भवतीत्याह-न हि कश्चिदिति, इदंशब्दवाच्ये शब्दे तच्छब्दवाच्यस्यार्थस्याध्यासः क्रियत इति यस्यैकीकरणं स मुख्योऽर्थः, शब्देऽध्यासाच्च शब्दोऽप्रधानमित्येवं प्रधानाप्रधानरूपवस्तुद्वयसद्भाव एवेकीकरणं भवेत्, न त्वर्थस्याभावे तद्युज्यत इति भावः । शब्दार्थयोस्तादात्म्यमभ्युपगम्यते भवता, तादात्म्यञ्च सम्बन्धः सम्बन्धस्य च द्विष्ठत्वनियमादपि
शब्दार्थयोः पार्थक्यं सेत्स्यतीत्याह-सम्बन्धस्यापीति । अथ विशेषप्राधान्यं निरूपयति-द्रव्यभवनेति । व्याचष्टे30 द्रव्यभवनमिति. द्रव्यलक्षणं भवनं हि विशेषस्योपसर्जनं भवनात्मकत्वादमूर्त मूर्तस्य विशेषस्यात्यन्तापूर्वस्यात
. सि.क्ष. छा. डे. स्वेनराशेनैव० । २ सि. क्ष. नव० । ३ अत्र कियानंशोऽस्मद्वस्तगतासु प्रतिषु सर्वासु त्रुटित इवा भासते।
___Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org