________________
mummmmmmmm
वृक्षदृष्टान्तः] - द्वादशारनयचक्रम्
७९१ मस्यात्यन्तापूर्वस्य मूर्तस्यामूर्तलक्षणं भवनं विशेषोऽमूर्तस्य मूर्तलक्षणम् , तस्मात्तस्य विशेषस्य प्राधान्यमिति स्थितमेतत् , इति स्थिते विशेषप्राधान्ये इत्थमान्तरनाम्नां प्रयोगाहें विशेषप्राधान्यं व्याख्यातम् , प्रयुज्यमाननाम्न्यपि बाह्ये येन येन विशेषेण भूयते यो यो विशेषो भवति तदुपसर्जनम्-तस्यैव विशेषस्योपसर्जनम् , तन्नाम बाह्यम् , अर्थगत्यर्थ[त्व]च्छब्दप्रयोगस्य, अर्थपरतंत्रो हि शब्दः प्रयुज्यते, तदेव हेतुत्वेनाह-तद्वशप्रवृत्तित्वादिति, भृत्यवदिति दृष्टान्तः, भृत्यो हि स्वामिवशप्रवृत्तिः स्वामिपरतंत्र उपसर्जनं तथा शब्द उप-5 सर्जनमर्थः प्रधानम् , यत्र प्रयुज्यते तद्वशवर्ती शब्दः, विशेषोऽर्थ एव प्रधानमिति, तदर्शयति-नाम वचनादिविशेषवशम्-वचनं संख्या, आदिग्रहणात् लिङ्गकालकारकपुरुषोपग्रहा गृह्यन्ते विशेषाः, तद्वशं नाम, यथार्थ[भिधान] शब्दत्वादिति शब्दलक्षणं स्वसमयसिद्धं हेतुमाह, यो योऽर्थो यथार्थं, शब्दस्तदभिधत्ते, यथा लिङ्गवचनकालकारकपुरुषोपग्रहं यथाऽभिधत्ते तथाऽऽचार्यसिद्धसेन आह-'यत्र ह्यर्थो वाचं व्यभिचरति नाभिधानं तत्' (तत्त्वार्थसूत्र ३५ व्याख्यायामुद्धृतम् ) इति, तथा व्याख्यातारोऽपि प्रस्थिता:-नाम- 10 स्थापनाद्रव्यभिन्नलिङ्गवाच्येष्टाकरणाद्भावयुक्तवाची शब्द इति ।
अस्यार्थस्य प्रख्यापनमुदाहरणम्
वृक्ष इत्यत्र पञ्चकः प्रातिपदिकार्थश्चतुर्थस्त्रिको वा, तथाऽऽख्यातस्यापि, एवमपि वक्तुर्विवक्षापूर्वकत्वात् शब्दप्रवृत्तेः सामस्त्यावगमं परित्यज्य विशेषमेकमेव ब्रूते शब्दः, उपसर्जनं विशेषश्च प्रधानमिति भावः प्रतिभासते। अत्र वैयाकरणानां वैखरीरूपः वर्णावयवान् सक्रमः शब्द उपसंहरन् 15 अक्रमान्तरशब्दरूपतामापद्यमानोऽन्तःकरणे समवतिष्ठते, पुनरर्थबोधनेच्छायां सत्यां तत आविर्भवन् सावयवः सक्रमः आविर्भवति, तत्र प्रयोक्ता खान्तस्थमक्रमं शब्द बहिः प्रकाशयन् सक्रमं करोतीति बुद्धिस्थोऽक्रमः सक्रमस्य निमित्तम् , श्रोत्रा श्रुतेन सक्रमेण आन्तरमक्रम पश्चाद्बुध्यते तत्र सक्रमो निमित्तमक्रमस्येति मतम्, तत्र विशेषस्य प्राधान्ये साधिते आन्तरनाम्नां अक्रमभूतानां प्रयोगार्हाणां सक्रमं प्रति विशेषत्वमेवं सक्रमं प्रयुज्यमानमक्रमस्य विशेषः, सोऽपि श्रोतरि अक्रमं जनयतीति सोऽक्रमः सक्रमस्य विशेष इत्याह-इति स्थित इति, आन्तरनाम्नां-अक्रमभूतानां शब्दानामन्तःकरणवर्त्तिनामित्यर्थः । वक्त्रा प्रयुज्यमानं 20 नामाप्यर्थगत्यर्थत्वादर्थरूपविशेषापेक्षयोपसर्जनमित्याह-प्रयुज्यमाननास्यपीति । बाह्यशब्दस्योपसर्जनत्वे हेतुमाह-तद्वशति, अर्थाधीनप्रवृत्तित्वादित्यर्थः । यथा सेवकः खामिवशः प्रवर्तते तथा नामभूतो बाह्यः शब्दो लिङ्गसंख्याकारककालपुरुषोपग्रहवश इत्याह-नाम वचनादीति, वचनं भेदाभेदलक्षणा संख्या, सर्व एवार्थः एकः द्वौ बहव इति संख्यायुक्तो व्यवह्रियते द्वित्वादिसंख्यया भेदमेकत्वसंख्यया चाभेदमाश्रये प्रतिभासते, स्तनकेशादिमत्त्वादिरूपं लिङ्गं संस्त्यानप्रसवस्थितिरूपं वा, क्रियानिर्वर्तकं कारक क्रियान्वयि वा, स्थित्युत्पत्तिविनाशनिमित्तं कालो वर्तमानादिरूपः, उत्तममध्यमप्रथमरूपः पुरुषः 25 आत्मनेपदपरस्मैपदव्यङ्ग्यः क्रियायाः साधनस्य वा विशेष उपग्रह इति ध्येयम् । यथाथाभिधानशब्दत्वादिति, खसमयसिद्धं-शब्दनयसिद्धमित्यर्थः, भावघटाद्यर्थाभिधायिशब्दत्वादिति हेत्वर्थः। तमेवार्थमाह-यो योऽर्थ इति । यत्र ह्यर्थ इति वस्तुनो वैशिष्ट्यं शब्दकृतमर्थकृतञ्च, तत्र शब्दनयोऽर्थकृतवस्तुविशेषनिराकरणेन शब्दकृतं वस्तुविशेषमेवाभ्युपैति, यद्यर्थप्रयुक्त एव विशेषो भवेत्तर्हि घटवर्तमानकाले घट एव निर्विशेषो भवेन्न प्राप्नुयात् कारकभेदान् , तथा च कारककृतो घटं पश्यतीत्यादिव्यवहारो व्युच्छिद्येत, असौ च शब्दनयः समानलिङ्गादिशब्दसमुद्भावितमेव वस्त्वभ्युपैति, न तु पुष्यस्तारा नक्षत्रं वा, जम्बूनिम्ब- 30 कदम्बा वनं स पचति त्वं पचसि अहं पचामि इत्यादि विरुद्धलिङ्गसंख्यापुरुषादिसमुद्भावितार्थविशेषम् , घटः पटः कुम्भ इत्याद्यविरुद्धविशेषं हि वस्त्वभ्युपेतुं युक्तम् , यत्र ह्यों वाचं व्यभिचरति न हि तदभिधानं भवितुमर्हतीति भावः। यत्र ह्यर्थ इति वचनस्य व्याख्यातृणामुक्किं दर्शयति-तथा व्याख्यातारोऽपीति, वर्तमानं भावघटादिकमेवाश्रयति शब्दनयो न नामस्थापनाद्रव्याणि भावेऽपि भिन्नलिङ्गवचनादीनि, अभिलषितार्थाविधानादिति भावः । अत्रैवोदाहरणमादर्शयति-वृक्ष इत्यति ।
१ सि. क्ष. डे. विशेषो। द्वा० न० २३ (१००)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org