________________
wwmmmmmmmmmmmmmmmm
७९२ न्यायागमानुसारिणीव्याख्यासमेतम्
[उभयनियमारे एकद्विबहुवचनेषु प्राप्तेषु विवक्षितसंख्याभिधाय्येकवचन विधीयते, एकस्य वचनमेकवचनम् , उच्यतेऽनेनार्थः, कर्मणि षष्ठी, तथा च लोके वृक्षशब्दप्रयोगे सामान्यमुपसर्जनं विशेषः प्रधानमिति गम्यते, एकार्थगतेादिनिवृत्तेः, इतरथा सामान्यप्राधान्यात् सर्वगतिः संदेहो वा स्यात्, वृक्षे प्रातिपदिक...............भवति ।। 5 वृक्ष इत्यत्रेत्यादि, सभावनम् , स्वार्थलिङ्गद्रव्यसंख्याकर्मादिकारकाणीति पञ्चकः प्रातिपदिकार्थश्चतुर्थस्त्रिको वा संख्याद्रव्यान्तः, तथाऽऽख्यातस्यापि, सर्वस्य नामत्वाविशेषात् , नमयत्यर्थं गमयतीत्यादिनिरुक्तेः, यद्यपि पञ्चकं सम्भवति तथापि तु वक्तुर्विवक्षितपूर्विका शब्दप्रवृत्तिरिति सामस्त्यावगमं परित्यज्य प्रतिपिपादयिषितं विशेषमेकमेव ब्रूते शब्दः, एकद्विबहुवचनेषु प्राप्तेषु विवक्षितसंख्याभिधाय्येकवचन विधीयते, त्रयाणामन्यतमदेव, नेतरे, वृक्षस्यैकत्वाच्चैकवचनं व्यक्तिकृतं न सर्ववृक्षगतसामान्य[कृतम 10 तेनाप्रयोजनात्, एवं द्विबहुवचनयोरपि, एकवचनमिति समासद्वयसम्भवात् सन्देहेऽवधारयति, किमेकस्य वचनमेकवचनम् ? एकञ्च तद्वचनश्च तदेकवचनम् ? इति वा, एकस्य वचनमेकवचनमुच्यतेऽनेनार्थः, कर्मणि षष्ठीति शब्दव्युत्पादने[न], तथा चेत्यादि, एवञ्च कृत्वा लोके वृक्षशब्दप्रयोगे सामान्यमुपसर्जन विशेषः प्रधानमिति गम्यते, कुतः ? एकार्थगतेः ह्यादिनिवृत्तेः, इतरथा सामान्यप्राधान्यात् सर्वगतिः
सन्देहो वा स्यात् , युक्ता तु विशेषगतिः, तद्वशवर्त्तित्वान्नाम्नः, तद्भावना गतार्था वृक्षे प्रातिपदिकेत्यादि 15 यावत् भवतीति ।
अत्राहननु विशेषाणामप्यस्ववशत्वानवस्थानात् सामान्यभवनप्राधान्यमेव, दृश्यते हि
mmmmmmmm
भावनापूर्वकं व्याचष्टे-सभावनमिति । स्वार्थेत्यादि, स्वार्थः सामान्य शब्दो वा, द्रव्य-व्यक्तिः, लिङ्ग ख्यादि, संख्या
एकत्वादि, कारक-कर्मादि इत्यमी पञ्च वृक्षादिप्रातिपदिकस्यार्थः, वृक्षेत्युक्ते वृक्षत्वसामान्यस्य वृक्षव्यक्तेः लिङ्गसंख्याकारकसामान्यस्य 20 चानुभवात्, तदेवं सामान्यतो ज्ञाते विशेषजिज्ञासोदयात् 'अजाद्यतष्टा', 'येकयोर्द्विवचनैकवचने 'बहुषु बहुवचनम्',
'कर्मणि द्वितीयेत्यादिसूत्रविधीयमानाः टाबादयो विशिष्टलिङ्गादिद्योतका भवन्तीति पञ्चकं प्रातिपदिकार्थ इति पक्षः । स्वार्थलिङ्गद्रव्यसंख्याचतुष्कं स्वार्थलिङ्गद्रव्यत्रिकं वा प्रातिपदिकार्थ इति पक्षान्तरे, तदेवाह-चतुर्थस्त्रिको वेति, संख्यान्तश्चतुर्थः द्रव्यान्तः त्रिको वेत्यर्थः । एवं धातोरपि पञ्च चतुर्थस्त्रिको वाऽर्थः, नामत्वादित्याह-तथाऽऽख्यातस्यापीति । कथं
धातो मत्वमित्यत्राह-नमयतीति । सर्वत्र नामपदात् पञ्चकस्य सकलस्य बोधो न भवतीत्याह 25 वक्त्रिच्छाविषयप्रयुक्तप्रवृत्तिविषयशब्देन वृक्षाख्येन एक एव वृक्षत्वविशिष्टो वृक्षः-पुमान् बोध्यते न तु सकलस्वार्थद्रव्यलिङ्गसंख्याकारकाणीति भावः । वृक्षस्यैकत्वं न सामान्यगतं तस्य तत्र बोधने प्रयोजनाभावात् किन्तु वृक्षव्यक्तिगतमेवेत्याहवृक्षस्यैकत्वादिति, तथा चैकस्य वचनमेकवचनमिति षष्ठीसमासः, एकत्वविषयकबोधजनकत्वं तदर्थः, तच्च एकञ्च तद्वचनश्चेति कर्मधारयेण न लभ्यते, एकाभिन्नवचनस्यैव तेन लाभात्, व्यादीनामपि संख्यानामेकत्वादिति भावः। तदेवाह-एकवचनमितीति । तथा च वृक्ष इत्युक्तेर्वृक्षगतैकत्वबोधात् सामान्यभूतो वृक्ष उपसर्जनं विशेष एकत्वं प्रधानम्, व्यादिसंख्यानिवर्त30 कत्वात्, वृक्षसामान्यस्य प्रधानत्वे तु निखिलवृक्षावगतिः स्यादविशेषात्, एको वृक्षो व्यादिर्वा वृक्षोऽनेन विवक्षित इति
सन्देह एव स्यात् , न हि संशयाधानाय शब्दः प्रयुज्यते, किन्तु निश्चायकत्वेनैव तस्य साफल्यात्, एवञ्च सामान्यमुपसर्जनमेवैषितव्यमिति निरूपयति-एवश्च कृत्वेति । ननु विशेषस्य सामान्यव्यतिरेकेण सत्त्वासम्भवात् परतन्त्रत्वेन कर्थ प्रधानत्वम्, किन्तु सामान्यमेव ववशवर्तित्वेन खतन्त्रत्वात् प्रधानमिति शङ्कते-ननु विशेषाणामपीति । व्याचष्टे
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org