________________
७९३
सामान्याभावः]
द्वादशारनयचक्रम् द्विवचनादिः यथैकवचनं द्विवचनार्थ नक्षत्रं पुनर्वसू पुष्यः तारा..................हेतुः कर्म, सर्वत्राप्येवमेव च विशेषानवस्थानाद्विशेषो विशेष एव न भवितुमर्हति, ततोऽसौ नैव स्यात् , अविशिष्टत्वात् , अस्ववृत्तित्वात् , अस्ववशत्वात् खपुष्पवत् ।
ननु विशेषाणामपीत्यादि, तेऽपि हि विशेषाः परतंत्रा एव, ततोऽस्ववशत्वानवस्थानात् सामान्यभवन[प्राधान्यमेव, न हि वृक्षवदेकवचनमेव दृश्यते सर्वत्र, यदि स्यात् स्याद्विशेषप्राधान्यम् , तस्मा- 5 द्विशेषव्यभिचारात् सामान्य[प्रा]धान्यमेव न्याय्यम्, मा मंस्था विशेषप्राधान्याव्यभिचार इति, दृश्यते हि[द्वि]वचनादिः, तस्माद्विशेषानवस्थानाद्वचनलिङ्गकारकपुरुषोपग्रहादिविशेषाणां स्वस्थितिव्यतिक्रमस्वसमानाधिकरणविशेषाचागतिर्लोके दृश्यते, तदुदाहरणानि-यथैकवचनं द्विवचनार्थं नक्षत्रं पुनर्वसू इत्यादी युत्तानार्थानि यावद्धेतुः कर्मेति, सर्वत्राप्येवमेव च-यथा[पाश्चा]त्येषूदाहृतमभेदिलिङ्गविशेषव्यभिचारे तथा प्राक्तनेष्वपि वचनादिविशेषव्यभिचारे तद्भावनातो विशेषानवस्थानात् विशेषो विशेष एव न भवितुमर्हति, 10 सामान्याघ्रातरूपत्वात विशेषात्मानवस्थानात् , ततः किं ? ततोऽसौ नैव स्यात्-भवनमेव नानुभवेत् , अविशिष्टत्वात् , अनन्तरोक्तादविशिष्टत्वमनवस्थानाद्भावितम् , वचनानवस्थानं अस्ववृत्तित्वात् अखवशत्वात् भावितमेव, खपुष्पवदिति सर्वत्र दृष्टान्तः, पृथक् पृथग्वा विशेषाभावे हेतवस्त्रयोऽपि खपुष्पदृष्टान्ताः ।
ततश्च सामान्यमपि नैव, प्रवर्तकाभावात् , किमर्थ न प्रवर्त्तयति विशेषः, स्ववशत्वात् , स्ववशो हि विशेषः, विविक्तवृत्तित्वात् , मुक्तवत् , असदेव वा प्रवर्तकाभावात् 15 तत् खपुष्पवत्, अर्थान्तराभावात् भवद्भवनाभ्यां केनचिदबाध्यत्वात्, अथ सोऽप्यस्ति
तेऽपि हीति, संख्यालिङ्गादिविशेषा इत्यर्थः । अस्ववशत्वेति, विशेषा न खवशाः, अत एव सर्वत्रावस्थानरहिता अत एव च परतंत्राः, अखवशत्वेन सर्वत्रावस्थानरहिता इति वाऽर्थः, वृक्षी वृक्षा इत्यादावेकवचनस्यानवस्थानं दृश्यते, एवं द्विवच भावः । अनवस्थानमेव दर्शयति-न हि वृक्षवदिति, प्रकृत्यों यथा न व्यभिचरति सर्ववचनेषु न तथैकवचनादीनीति भावः । क्व विशेषो व्यभिचरतीत्यत्राह-दृश्यते हीति, तत्रैकवचनस्य व्यभिचारः म्वस्थितिव्यतिक्रमात् , यथा नक्षत्रं पुनर्वसू इति, अत्र पुनर्वसू 20 द्वे नक्षत्रे तस्मात् नक्षत्रे पुनर्वसू इति स्यान्न चैवं लोके प्रयुज्यते, एवञ्चैकत्वलक्षणविशेषस्थित्यपगमेऽप्येकवचनेन सामानाधिकरण्यं द्विवचनान्तपुनर्वसुशन्दे नास्तीति एकवचनव्यभिचारः, द्विवचनार्थमेकवचनप्रयोगात् , एवं पुष्यस्तारेत्यादौ लिङ्गव्यभिचारः, पर्वतमधिवसतीत्यादौ कारकव्यभिचार इत्येवमगतिलॊके दृष्टेति भावः । उदाहरणानि दर्शयति-यथैकवचन मिति । पूर्वोदितलिङ्गवचनादिव्यभिचारवदेवान्यत्रापि विशेषस्यानवस्थानाद्विशेषो विशेष एव न भवेदित्याह-सर्वत्रापीति । सामान्येति सामान्यस्याव्यभिचारित्वेन प्राधान्यात्तेन विशेषो गौणीकृत इति सामान्याघ्रातरूपता तस्येति भावः । एवञ्च विशेषो नैव भवेदिति 25 समर्थयति-ततोऽसाविति । अविशिष्टत्वं कथं विशेषस्येत्यत्राह-अनन्तरोक्तेति । अनवस्थानत्वे हेतुमाह-अस्ववृत्तित्वादिति-खस्थितिव्यतिक्रमादित्यर्थः । अत्र हेतु:-अस्ववशत्वादिति, द्विवचनार्थमप्येकवचनप्रयोगदर्शनात् द्विवचनं न खबशे वर्तत इति भावः । अथवाऽविशिष्टत्वाववृत्तित्वाखवशत्वानि साधनानि विशेषो न भवेदित्यस्यैव साध्यस्येत्याह-पृथक पृथग्वेति। तदेवं विशेषाभावे सिद्धे निर्विशेषस्य सामान्यस्याभावात् सामान्यमपि न भवेदित्याह-ततश्चेति । व्याचष्टे-ततश्चेति, भवनस्य
__ दपयाच०, अग्रापि कियानंशस्युटित इति सम्भाव्यते, प्रतिषु सम्बन्धानुपलब्धेः। २ सि. . छा. यथात्यमुदा०। ३ छा. सामान्यरूपत्वात् ।
___Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org