________________
७९४ न्यायागमानुसारिणीव्याख्यासमेतम्
[उभयनियमारे भेदेनार्थः शब्दाद्यस्य तद्रूपमने सदेकं क्रियते न तर्हि शब्द एव शब्दार्थोऽभिजल्पत्वमागतो वाच्यः, किं तर्हि ? विशिष्टा शक्तिः शब्दादन्या सर्वशक्तिर्वाऽर्थोऽन्यः।
ततश्चेत्यादि, ततश्च-विशेषाभावात् सामान्यमपि नैव, स्यादिति वर्त्तते, कस्मात् ? प्रवर्तकाभावात् , सामान्यस्य हि प्रकृत्यर्थस्य भवनादेः क्रियात्मनः प्रवर्तकः प्रत्ययार्थः कर्ता स्याद्विशेषः, तदभावान्न 5 प्रवर्त्तते सामान्यम् , किमर्थं न प्रवर्त्तयति विशेषः सामान्यमिति चेत्-स्ववशत्वात्-स्ववशो हि विशेषो नासावस्ववशः, कस्मात् ? विविक्तवृत्तित्वात् , किमिव ? मुक्तवत्-यथा मुक्तात्मानः कर्मपारतंत्र्यापेतत्वात् विविक्तवृत्तयो न किञ्चित् प्रवर्त्तयन्ति, न केनचित् प्रवर्त्यन्ते, किन्तु खयमेव वर्तन्ते तस्मादप्रवर्तक[ त्व]सामान्याद् दृष्टान्ताः, तद्वद्विशेषोऽप्रवर्तकः, असदेव वा प्रवर्तकाभावात् तत् सामान्यम् , खपुष्पवदिति, तड्याचष्टे-अर्थान्तराभावात् भवद्भवनाभ्यां केनचिदबाध्यत्वात् , अर्थान्तरश्च नास्ति विशेषात्, अर्थाभावे 10 मा भूदेष दोष इति-अथ सोऽप्यस्ति भेदेनार्थः शब्दाद्यस्य तद्रूपमनेकं सदेकं क्रियते, किं ततः ? इदं भवति न तर्हि शब्द एव शब्दार्थोऽभिजल्पत्वमागतो वाच्यः, किं तर्हि ? विशिष्टा शक्तिः शब्दादन्या, सर्वशक्तिर्वाऽर्थोऽन्य इति प्राप्तम् ।
तत एवेदमयुक्तं तं शब्दमभिजल्पं प्रचक्षते शब्दार्थ इति, स हि यथा शब्दस्तथाऽर्थोऽभिसम्बन्धेनैकी क्रियमाणत्वात् पृथक् सिद्धः क्षीरोदकवत् , द्वयोरप्येकीकृतत्वे 16 तुल्यत्वात् , अपि चार्थार्थमेवोक्तं प्राक् प्रत्याय्यत्वादभिजल्पार्थावयवत् शब्दनिरपेक्षा विव
हि भविता प्रवर्तको भवति, यदा तु भवनमेव प्रधानतां गतं तदा भविता न प्रवर्तकस्तस्य स्यात् , अविशिष्टत्वादिभ्य इति प्रवर्तकाभावेन सामान्यस्य प्रवृत्त्यसम्भवेनाकिञ्चित्करत्वादसदेव सामान्य स्यादिति भावः । सामान्यस्येति सामान्यं हि भवनं प्रकृत्यर्थः क्रिया, तस्य च प्रवर्तकः कर्त्ता भविता प्रत्ययार्थः विशेषः शक्तिरूपः शक्तिभिर्हि क्रिया भाव्यत इति कादि
शक्तयः क्रियायाः प्रयोजिकाः, तथा च विशेषाभावे केन क्रिया भाव्येत तस्मात्तदभाव एव स्यादिति भावः । विशेषो 20 यदि परतंत्रः स्यात्तर्हि सामान्य प्रवर्तयेत्, सोऽपि नास्तीत्याह-स्ववशत्वादिति, स्वाधीनो वर्तते विशेषः, न तु परेच्छा
यत्तवृत्तियेन सत्यां परेच्छायां बलात् सामान्यं प्रवर्तयेत्, तथा च मुक्तपुरुषवत् ववशत्वान्न किञ्चिदपि प्रवर्तयतीति भावः। ववशत्वं कुत इत्यत्राह-विविक्तवृत्तित्वादिति, पृथक् वृत्तित्वात् सामान्यानाश्रितत्वादिति भावः । दृष्टान्तं घटयतियथेति । मुक्तात्मतुल्यो विशेषः कथं, चेतनाचेतनयोः साम्याभावादित्यत्राह-अप्रवर्तकत्वेति । ननु पूर्वमस्खवृत्तित्वमखव
शत्वमुक्तमिदानी खवृत्तित्वं ववशत्वं विशेषस्य कथमुच्यत इत्यत्राह-असदेव वेति, तावतंत्रादिभ्यो हेतुभ्यो विशेषो 26 नास्त्येव ततश्च प्रवर्तकाभावात् सामान्यस्याप्यभावः न हि भवद्भवनाभ्यां सामान्यविशेषाभ्यामन्यत् किञ्चिदर्थान्तरं वर्तते
यत् सामान्य प्रवर्तयेदिति भावः। सामान्यं न केनचिद्वाध्यते, भवद्भवनरूपसामान्यविशेषयोरर्थान्तराभावात्, तस्मात् प्रवर्तकाभावात् सामान्यमसदेवेत्याशयेनाह-अर्थान्तराभावेति । यदि शब्दार्थयोरर्थान्तरभावमभ्युपगम्यते तदाऽऽह-अथ सोऽप्यस्तीति, भिन्नोऽर्थोऽस्ति परन्तु अध्यासादभेदः क्रियत इति भावः । एवं तर्हि सैवार्थव्यक्तिः शक्तिरूपा शब्दवाच्या
भवेत्, न शब्द आन्तरोऽभिजल्परूपतामुपागत इत्याह-न तीति, विशिष्टा शक्तिः शब्दादन्यति, अर्थस्य शक्तिर्नास्ति किन्तु 30 शब्दस्यैवेति मतमुपदर्शितम् , सर्वशक्तिर्वेत्यर्थस्य सर्वशक्तिपक्षः प्रदर्शित इति । अस्तु तथैव को दोष इत्यत्राह-तत एवेदमिति।
सि.क्ष. डे. असनेव। २ सि.क्ष. डे. छा. अर्थान्तराभावभः ।
___JainEducation International 2010_04
For Private & Personal Use Only
www.jainelibrary.org