________________
mmmmmmm
अर्थप्राधान्यपार्थक्ये] द्वादशारनयचक्रम्
७९५ क्षाऽध्यारोपा शक्तिरिति, यदा चैवं तदाऽस्मन्मतं यथार्थाभिधानशब्दत्वमेव प्रतिपन्नमर्थस्य तत्त्वात् , योऽसौ शब्दः सोऽयं नार्थः, अर्थोऽर्थ एव, अस्मात् प्रत्यक्षनिर्देश्यादन्य एवासौ स इति परोक्षनिर्देश्यः, एवंविषय एव शब्दो न शब्दविषयः, किमुक्तं भवति तेनार्यते गम्यते शब्दस्य विषयः, विषयिणो विषयपरतंत्रत्वात् याऽर्थस्य गतिः शब्दस्यापि सैव, नात्मनः पृथक्-स्वतंत्रेति ।
(तत एवेति) तत एवेदश्चायुक्तं त्वया यथोच्यते-तं शब्दमभिजल्पं प्रचक्षते च शब्दार्थ इति, यस्मात् स यथा शब्दस्तथाऽर्थोऽभिसम्बन्धेनैकीक्रियमाणत्वात् पृथक् सिद्धः, किमिव ? क्षीरोदकवत्, द्वयोरप्येकीकृतत्वे तुल्यत्वादिति साध्यसाधनधर्मानुगमप्रदर्शनम् , अपिचेत्यादि, अर्थार्थमेवोक्तं प्राक प्रत्याय्यत्वात् , अभिजल्पार्थार्थावयववदिति तदर्थस्मारणं गतार्थं यावदर्थोऽर्थ एवेत्यवधारणम् , यदा चैवमिति, उक्तक्रमेण पृथसिद्धौ प्राधान्ये चार्थस्य तदास्मन्मतं यथार्थाभिधानशब्दत्वमेव प्रतिपन्नम् , अर्थस्य तत्त्वात् , 10 तद्व्याचष्टे-योऽसौ शब्दः सोऽयं नार्थः[अर्थो] न भवति शब्दः, अर्थ एवार्थ इत्युक्तत्वादिति, अस्मादर्थ [त् ]प्रत्यक्षनिर्देश्यादन्य एवासौ स इति परोक्षनिर्देश्यो भेदेन, एवंविषय एव-अर्थविषय एव शब्दो न शब्दविषयः, अर्थो नाप्रधान इत्यर्थः, अर्यतेऽयं तेन शब्देनार्थः, किमुक्तं भवतीति, तेनार्यते-गम्यते ऋ गतौ तस्यार्थः शब्दस्य विषयः, विषयिणो विषयपरतंत्रत्वात् याऽर्थस्य गतिः शब्दस्यापि सैव, नात्मनः पृथक्-स्वतंत्रा, एवं व्याख्यातमर्थप्राधान्यं पार्थक्यश्च ।
15 एवञ्च कृत्वा योग्यशब्दनिबन्धना हि विवक्षार्थमनपेक्ष्य सिद्धां तां तां शक्तिमध्यारोपयतीति स त्वदुक्तो ग्रन्थो युक्तोऽस्मिन् दर्शने योग्य एव शब्दोऽर्थस्य, न योग्यः, यः
अध्यासरूपत्वमुपागतः शब्द एव शब्दस्य वाच्य इत्यभ्युपगमो न युज्यत इति व्याचष्टे-यथोच्यत इति । शब्दार्थयोर्हि अनेकयोरेकीकरणात् नैकान्ततोऽभेदस्तयोर्भेदाभेदात्मकत्वात् क्षीरोदकवदुभावपि पृथक् पृथक् सिद्धौ, द्वयोरेकीकरणस्य तुल्यत्वादित्याहयस्मात् स इति योऽर्थः स शब्दः यशब्दः सोऽर्थ इति परस्परमेकीकरणाद्वावपि पृथक् सिद्धाविति भावः । शब्दस्या- 20 थैनकीकरणे शब्दः, अर्थस्य शब्देनकीकरणेऽर्थ इत्युभयोरेकीकरणे तुल्यत्वात् पृथक् सिद्धौ शब्दार्थाविति सूचयति-द्वयोरपीति । प्रत्याय्यपरामर्शव्यतिरेकेण विवक्षामात्रस्यानुरूपार्थे श्रोतुः शक्त्याधायकत्वासम्भवादर्थगतशब्दनिरपेक्षेणैव वक्तरि शक्त्याधायकत्वाच्छ्रोतर्यपि वक्त्रभिप्रायार्थग्रहणप्रयतनवति प्रयोगतः शक्त्याधायकत्वादर्थार्थ एव शब्दप्रयोगो न शब्दार्थ इति पूर्वनिरूपितमर्थ स्मारयति-अर्थार्थमेवोक्तमिति । तदेवमर्थस्य शब्दात् पृथक् सिद्धिः प्राधान्यञ्च प्रोतक्रमेण सिद्ध्यति तदा तदभ्युपगमोऽस्मन्मतमेव यथार्थाभिधानं शब्द इत्यस्माभिः स्वीकृतत्वादित्याह-उक्तकमेणेति एकीकरणादिनेत्यर्थः । अर्थस्य 25 तत्त्वादिति, अर्थस्य खासाधारणरूपेण सद्भावात्, न तु पररूपतापत्त्येति भावः । तदेवाह-योऽसौ शब्द इति. अर्थ शब्दाध्यारोपो न भवति, असदृशत्वात्, अर्थ एवार्थः न तु शब्दः, स इति परोक्षनिर्देश्याच्छब्दादयमिति प्रत्यक्षनिर्देश्योऽर्थोऽन्य एवेति भावः । शब्दस्य वाच्योऽपि शब्दो न भवतीत्याह-एवं विषय एवेति, शब्दोऽर्थमेव विषयीकरोति वाच्यतया, न तु शब्दमतोऽर्थो नाप्रधान इति भावः । अन्वर्थत्वमर्थशब्दस्याचष्टे-अर्यत इति शब्देन योऽर्यते गम्यतेऽसावर्थः, यद्यर्थविषयः शब्दो न स्यात्तर्हि शब्दजन्यप्रतिपत्तिविषयत्वाभावात्तस्यार्थत्वमेव न भवेदिति भावः । एवञ्चार्थमनुरुध्य शब्दप्रयोगात् शब्दोऽप्रधान- 30 मर्थविषयतंत्रत्वात् प्रधानानुयायित्वाद्गुणानामर्थ एव प्रधानं शब्दादन्यश्चेति निरूपयति-विषयिण इति, शब्दस्येत्यर्थः । अर्थस्य सर्वलिङ्गादिमत्त्वेऽपि तदनपेक्ष्य तत्तल्लिङ्गादियोग्यशब्दविवक्षानियमो यद्भवतोक्तः सोऽस्मिन् दर्शने घठत इत्याह-एवञ्च कृत्वेति ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org