________________
७९६
न्यायागमानुसारिणीव्याख्यासमेतम्
[ उभयनियमारे
कश्चित् क्रीडितमेवाऽस्त्विति प्रयुज्यते काकवाशितादिवदबुद्धिपूर्वो वाऽर्थविसंवादादेकीकर्तुमशक्यत्वात्, हिशब्दोऽपि च हेत्वर्थे, यस्माद्योग्यशक्ति... ...... मर्यादया वा, यदपि च स्वलक्षणव्याप्तिप्रदर्शनार्थं लोकगतशब्दार्थ संव्यवहारव्यवस्थापनार्थञ्चोक्तं श्लोकद्वयं तयोरपृथगात्मत्वे रूढेरव्यभिचारिणि । किञ्चिदेव क्वचिद्रूपं प्राधान्येनावतिष्ठते ॥ लोकेऽर्थ - b रूपतां शब्दः प्रतिपन्नः प्रवर्त्तते । शास्त्रे तूभयरूपत्वं प्रविभक्तं विवक्षया [ वाक्य० का० २ श्लो० १३१ - १३२] ॥ इति तदपि च अर्थस्यार्थरूपत्वं शब्दादापन्नमित्येतत्फलमेव ।
1
एवञ्च कृत्वेत्यादि गुणोत्कर्षमस्मन्मते दर्शयिष्यामः, योग्यशब्देत्यादि यावदध्यारोपयतीति, स त्वदुक्तो ग्रन्थो युक्तोऽस्मिन् दर्शने, तद्भावयति - योग्य एव शब्दः - पृथुबुध्नादिलक्षणस्यार्थस्य घटशब्दो न योग्यः - पटादिशब्दः, यः कश्चित् क्रीडितमेवास्त्विति प्रयुज्यते काकवाशितादिवत् अबुद्धिपूर्वो वा, 10 कस्मात् ? अर्थविसंवादात् - अर्थेन विसंवादोऽस्य, वाच्यवाचकसम्बन्धाभावः स चैकी कर्त्तुमशक्यत्वात् सम्बन्धयितुम्, हिशब्दोऽपि चेत्यादि, योग्यशब्दनिबन्धना हीत्यत्र हिशब्दों हेत्वर्थे, यस्माद्योग्यशक्तीत्यादि, तद्व्याख्या गतार्था यावत् मर्यादया वेति, यदपि चेत्यादि, सोऽयमित्यभिसम्बन्धादिति स्वलक्षणमभिजल्पस्य तदस्मन्मतं समर्थयतीत्युक्तम, तदनन्तरं यत् स्वलक्षणव्याप्तिप्रदर्शनार्थं लोकगतशब्दार्थसंव्यवहारव्यवस्थापनार्थञ्चोक्तं तदपि चास्मन्मतमर्थस्यार्थरूपत्वं शब्दादापन्नमित्येतत्फलमेव, कतमत्तदिदं श्लोकद्वयं ? 15 तयोरपृथगात्मत्व इत्यादि ।
wwwwww
वयमत्र निश्चिनुमः तयोरपृथगात्मत्वं रूढे: लोकप्रतीतेः, अतस्य तदुपचारात् पथिगमनवत्-यथा पन्थाः पाटलिपुत्रं गच्छतीति पथो गमनं पुरुषगत्य भेदोपचारातू, तद्विनाऽभावाव्यर्थत्वात्तथोच्यते तथा शब्दार्थयोरव्यभिचारादिति, इतरेतरप्रधानोपसर्जन भावाच्च व्यर्थत्वं सन्मित्रवत्, तत्तु त्वद्वचनादेव सिद्धं यथोक्तं त्वया 'किंचिदेव क्वचिद्रूपं प्राधान्येनावतिष्ठत ' 20 इति, तथा 'लोकेऽर्थरूपता' मित्येषोऽपि, गामभ्याज शुक्लामिति न शब्दे बुद्धिः, किं तर्हि ? अभिधेये लोकसिद्धा, व्याकरणशास्त्रे शब्दरूपतां प्रतिपन्नः प्रवर्त्तते, तुर्विशेषणे, शब्दाधिगमार्थप्रवृत्तिविशेषात् भवतिवत्, तस्माद्भिन्नः, रूपभेदात् अर्थस्य च गोः सास्नादिरूपं भिन्नं
त्वदुक्तोपपत्तिजातमस्मद्दर्शन एव सङ्गच्छत इत्येवंलक्षणो गुणोत्कर्षः प्रदर्श्यत इत्याचष्टे - गुणोत्कर्षमिति । तदेव व्याचष्टेस त्वदुक्त इति, शब्दोऽर्थशक्तिमनादृत्य स्वशक्तिवैचित्र्येणैव प्रतिनियतलिङ्गादि बोधयतीति न, अपि तु घटाद्यर्थस्य योग्य एव 25 शब्दस्तेन सहैकीभवति, न हि पृथुवुनोदराद्यर्थस्य पटशब्दों योग्यः, न वा यः कश्चिच्छन्दः काकवाशितादिवदेवमेव क्रीडया प्रयुज्यते नाप्यज्ञात्वा वाच्यवाचकभाव इति भावः । घटाद्यर्थे कुतो न पटादिशब्दः प्रयुज्यत इत्यत्राह - अर्थविसंवादादिति, तेनार्थेन तच्छब्दस्य वाच्यवाचकभावलक्षणसम्बन्धाभावात्, योग्यतैव हि सम्बन्धो न तादात्म्यम्, तयोः पार्थक्यस्य व्यवस्थापितत्वादिति भावः । कुतो विसंवाद इत्यत्राह - स चैकीकर्तुमिति, शब्दस्यार्थेन सम्बन्धयितुमशक्यत्वाद्विसंवाद इत्यर्थः । अभिजल्पलक्षणमप्यस्मन्मतसमर्थकमिति निरूपितमेवेत्याह- सोऽयमितीति । शब्दार्थयोरेकरूपत्वे सत्यपि लोके शास्त्रे च क्वचि - 30 च्छब्दः क्वचिश्चार्थः प्रधानमिति या व्यवस्था कारिकाभ्यां कृता साऽप्यस्मन्मतमेवानुधावतीत्याशयेनाह - तदनन्तरमिति ।
१ सि. क्ष. डे, लोमगत० । २ सि. 'स्वार्थानुरत्वशब्दा० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org