________________
maimamsimanaw
स्वमते कारिकायोजना] द्वादशारनयचक्रम्
७९७ तदर्थ गकारादिवर्णानुपूर्वीमात्रोच्चारणम् , तद्धि न कदाचिदर्थो भवितुमर्हति कल्पितं वा, त्वया योऽभिजल्पः कल्प्यः कल्पित एव सः, न भवत्यर्थः अव्यवस्थितत्वात् , व्यतिकीर्णत्वात् , अनियतत्वाच्च, तस्मान्न शब्दोऽर्थरूपतां प्रतिपन्नः प्रवर्तते।।
(वयमत्रेति) वयमत्र निश्चिनुमः-तयोरपृथगात्मत्वं रूढेः- लोकप्रतीतेरतस्य तदुपचारात्-भिन्नयोः [अभेदोपचारात् , किमिव ? पथिगमनवत्-यथा पन्थाः पाटलिपुत्रं गच्छतीति पथो गमनं पुरुषगत्यभेदो-5 पचारात्, तद्विनाऽभावाव्यर्थत्वात्तैथोच्यते तथा शब्दार्थयोरव्यभिचारात् अविनाभावादभेदोपचारात् लोकरूढेरपृथगात्मत्वं पृथग्भूतयोरेवेति, किञ्चान्यत्-इतरेतरप्रधानोपसर्जनभावात्-शब्दस्योपसर्जनत्वादर्थस्य प्राधान्या[द्द्व्य र्थतैव, किमिव ? सन्मित्रवत्-यथा स्निग्धयोर्मित्रयोः पृथसिद्धयोरेककार्यप्रवृत्तयोरितरेतरप्रधानोपसर्जनत्वनियमः तथा शब्दार्थयो]:, तत्तु त्वद्वचनादेव सिद्धम्- यथोक्तं त्वया किश्चिदेवेति यावदवतिष्ठते, यथा प्रथमश्लोकोऽस्मन्मतं समर्थयति तथा लोकेऽर्थरूपतामित्येषोऽपि गामभ्याज शुक्लामिति न 10 शब्दे बुद्धिः, किं तर्हि ? अभिधेये लोकसिद्धा, व्याकरणशास्त्रे शब्दरूपता प्रतिपन्नः प्रवर्त्तते, तुर्विशेषणे शब्दाधिगमार्थप्रवृत्तिविशेषात् , भवतिवदिति, भवतिशब्दमधिगमनिष्पन्नं भूसत्तायां लट्कर्त्तरीत्यादि करोति, तस्माद्भिन्नः, इतश्च भिन्नो रूपभेदात् , अर्थस्य चेत्यादि गोः सास्नादिरूपं भिन्नं तदर्थत्वाच्छब्दस्य, गकारादिखमतेन कारिकाभावार्थमाचष्टे-वयमत्रेति । व्याचष्टे-तयोरपृथगात्मत्वमिति, वस्तुतः पृथग् भिन्नयोः शब्दार्थयोर्लोकरूढेरेवातस्मिन् तस्योपचाराद्व्यभिचाराभाव इति भावः । उपचारे निदर्शनमाह-यथा पन्था इति, पुरुषगमनं पथ्युपचर्य 15 अभेदात् पन्था गच्छतीति प्रयुज्यत इति भावः । अभेदोपचाराभावेऽपृथगात्मता न स्यादित्याह-तद्विनाऽभावादिति पुरुषगत्यभेदोपचारेण विना पथो गमनासम्भवादित्यर्थः । व्यर्थत्वादिति, अभेदोपचारेण विना तत्प्रयोगस्यासङ्गतार्थत्वेन वैयादभेदोपचारेणैव तथोच्यत इति भावः । व्यर्थत्वादिति पाठे उपचारस्य वस्तुद्वयाश्रितत्वादित्यर्थः । अभेदोपचारे हेतुमाहअव्यभिचारादिति । मेदसहाभेदलक्षणं तादात्म्यं शब्दार्थयोरित्याह-लोकरूढेरिति । क्वचिच्छब्दस्य क्वचिदर्थस्य च प्राधान्यात् प्रधानोपसर्जनभावो न नियतः, अत एव व्यर्थतासिद्धत्याह-इतरेतरेति । दृष्टान्तमाह-सन्मित्रवदिति । 20 किञ्चिदेव क्वचिद्रूपं प्राधान्येनावतिष्ठते किञ्चिदेव रूपं शब्दोऽर्थो वा लोके शास्त्रे वा प्राधान्येनोद्रिक्ततयाऽवतिष्ठत इति त्वदुक्तेरेव शब्दार्थयोः पार्थक्यमितरेतरप्रधानोपसर्जनभावश्च सिद्ध इत्याह-तत्तु त्वद्वचनादेवेति। द्वितीयश्लोकोऽप्यस्मन्मतं समर्थयतीत्याहलोकेऽर्थरूपतामिति । गामभ्याज शुक्लामित्युच्चार्यमाणः शब्दोऽर्थप्रत्यायनार्थत्वान्न शब्दकार्यान्वययोग्यो भवति किन्त्वर्थक्रियासमर्थार्थविषयप्रतिपत्तिजनक एव व्यवहारे, अर्थे विशेषणीभूतस्य क्रियायां विशेषणत्वायोगादित्याशयेनाह-गामभ्याजेति । शब्दशास्त्रे तु सूत्रादावुचरितस्य अग्नेढगित्यत्रत्यस्याग्निशब्दादेः कार्यान्वयाभावाल्लक्ष्यस्थ आग्नेय इत्यत्रत्योऽग्निशब्दो वाच्यत्वेन 25 समवस्थित इत्याह-व्याकरणशास्त्र इति। हेतुमाह-शब्दाधिगमार्थेति शब्दविषयप्रतिपत्तिफलकसूत्रादिघटकान्याधुच्चारणलक्षणप्रवृत्तिविशेषत्वाच्छास्त्रस्येति भावः । दृष्टान्तमाह-भवतिवदिति । अधिगमनिष्पन्नमिति, अधिको गमोऽधिगमः, गमो ज्ञानं तस्याधिक्य शास्त्रोपदेशापेक्षणात्, अधिगम्यतेऽनेनेत्यधिगम उपदेशो वा तेन निष्पन्नमित्यर्थः । कथं निष्पन्नो भवतिशब्द इत्यत्राह-भू सत्तायामिति, अस्मादुपदेशात् लः कर्मणि भावे चाकर्मकेभ्य इति कर्तरि लडपदेशाच्च भवतिशब्दो निष्पन्न इति भावः । एवं शब्दार्थयोर्भेदं एकं हेतुमुक्त्वा हेत्वन्तरमाह-इतश्च भिन्न इति, रूपं स्वरूपं शब्दार्थयोस्तद्भेदादित्यर्थः, 30 गोशब्दस्य सानादिरूपमर्थस्वरूपं हि भिन्नम् , गोशब्दस्य तु स्वरूपं गकारोत्तरीकारोत्तरविसर्गरूपं परस्य श्रवणग्राह्यशब्दात्मक पदार्थबोधकत्वेन लोके प्रसिद्ध ध्वनिसमुदायरूपं नादमात्रम् , तदर्थमेव हि वक्त्रा गकारादिवर्णानुपूर्वीमात्रोच्चारणं क्रियते, न तु परश्रवणग्राह्यनादरूपः शब्दो वक्तृप्रयुक्तवर्णानुपूर्वीरूपस्य शब्दस्यार्थो भवितुमर्हति, न वा त्वया कल्प्यमानः श्रूयमाणशब्दव्यतिरिक्तः तदभिव्यङ्गय आन्तरोऽभिजल्पात्मा शब्दः शब्दस्यार्थो भवितुमर्हतीति निरूपयति-गोः सानादिरूपमिति । कथमभि
१ सि. क्ष. डे. छा. यथोऽसनमनं। २ सि. क्ष. डे. छा. तयोरुच्यते। ३ सि. क्ष. भिन्नौ ।
___JainEducation International 2010_04
For Private & Personal Use Only
www.jainelibrary.org