________________
७९८ भ्यायागमानुसारिणीव्याख्यासमेतम्
[उभयनियमारे वर्णानुपूर्वीशब्दश्रोत्रा[ग्राह्यं]नादमा तदर्थ शब्दप्रयोगात् गकारादिवर्णानुपूर्वीमात्रोच्चारणम् , तद्धि न कदाचिदर्थो भवितुमर्हति कल्पितं वा, नेति वर्त्तते, त्वया योऽभिजल्पः कल्प्यः कल्पित एव सः, न भवत्यर्थः, कस्मात् ? अव्यवस्थितत्वात् व्यतिकीर्णत्वात् अनियतत्वात् , बाह्यवस्तुव्यवस्थितः, देशकालादिभिन्नशब्दशतसंकुलेऽपि घटशब्दस्योर्द्धग्रीवादि[बाह्य] स्वाभिधेये प्रयोगात् [अ]व्यतिकीर्णश्च, नियतः 5 प्रतिपादनेनावश्यवाच्यत्वात् तेनैव शब्देन स एवेति तत्रैव च बुद्ध्युत्पत्तेः, तस्माद्व्यवस्थिताव्यतिकीर्णनियतत्वेभ्यो बाह्यार्थोऽन्यो रूपभेदात् शब्दान्तरात् कल्पितत्वाच्च, तस्मान्न शब्दोऽर्थरूपतां प्रतिपन्नः [प्र]वर्त्तते।
अभ्युपेत्यापि रूढेरपृथगात्मत्व[म्]
प्रतिपत्तिव्यभिचारादनयोरेकीभावगतिः पार्थक्ये सति, नान्यथोक्तवत् , 'शास्त्रे तूभयरूपत्वं प्रविभक्तं विवक्षया' इत्येतदप्यस्मन्मतमेवानुधावति, 'यस्तु प्रयुङ्क्ते कुशलो विशेषे' 10 (महाभा० १-१-१ सूत्रे पृ० ३०) इत्यादिक्रमेण गोशब्दस्य सानादिमति साधुत्वं सिद्धेऽर्थे
शब्दे सम्बन्धे च पृथक् गोण्यादावसाधुत्वं रूढितः, अर्थविशेषविवक्षायां गोण्याः साधुत्वमित्यादि, तस्य च प्रयोजनं धर्म इत्यादिरुक्तः सोऽपि पृथगर्थसिद्धिं सूचयति लोकेनाभिधेयेऽर्थे शब्दाः प्रयुक्ताः, तत्रार्थस्य पृथक् सिद्धत्वे शब्दस्य च तद्विषयस्य धर्मार्थः प्रयोगनियमः
शास्त्रेण क्रियते भक्ष्याभक्ष्यनियमवदिति । 15 (प्रतिपत्तीति,) प्रतिपत्तिव्यभिचारादनयोः, प्रतिपत्तिरपि स्वसम्बन्धादेव, सम्बन्धस्य द्विष्ठत्वात् शब्दार्थयोरेकीभावगतेः प्रतिनियतोऽभिधानाभिधेयसम्बन्धः पार्थक्यमन्तरेण न भवितुमर्हति घटशब्दार्थयोरित्युक्तम् , एकीकरणस्यान्यथाऽसम्भवात् , अत आह-नान्यथा, उक्तवदिति, किञ्चान्यत्-‘शास्त्रे तूभयरूपत्वं प्रविभक्तं विवक्षया' इत्येतदप्यस्मन्मतमेवानुधावति, यस्तु प्रयुङ्क्ते कुशलो विशेषे इत्यादिक्रमेण गोशब्दस्य सानादिमति साधुत्वम् , 'सिद्धेऽर्थे शब्दे सम्बन्धे च' (महाभा० १-१-१ सूत्रे पृ० ५५) 20 जल्पशब्दो नार्थ इत्यत्राह-अव्यवस्थितत्वादिति । उच्चार्यमाणस्तु शब्दो व्यवस्थितोऽव्यतिकीर्णो नियतश्चेति दर्शयति
बाह्यवस्त्विति, बाह्ये वस्तुनि घटादौ घटशब्दो व्यवस्थित इत्यर्थः, अव्यतिकीर्णश्च देशकालादिमेदेन नानाशब्दैव्याप्तत्वेऽपि घटशब्दस्यैव स्वाभिधेये प्रयोगात्, तेन च प्रतिपादितेन शब्देनावश्यं घटाद्यर्थबोधोदयात् तदर्थे तच्छब्दो नियतश्चेति भावः । एवञ्च शब्दात्, त्वत्कल्पिताभिजल्पशब्दाचार्थो भिन्न एव, तस्मादेव च शब्दोऽर्थरूपतां प्रतिपन्नो न प्रवर्तत
निति । रूढ्या शब्दार्थयोरपृथगात्मताभ्युपगमेऽपि साऽपृथगात्मता नाव्यभिचारिणीत्याशयेनाह-प्रतिपत्तीति। प्रतिपत्तौ हि व्यभिचारो दृश्यते, वाच्यवाचकभावसम्बन्धे सति हि प्रतिपत्तिः स्यात्, स तु न सम्भवति, सम्बन्धस्य द्विष्ठत्वव्याप्यत्वात् , अपृथगात्मतायान्त्वेकत्वात् कथं स सम्बन्ध इत्याशयेन व्याकरोति-प्रतिपत्तिव्यभिचारादिति । शास्त्रे क्वचिच्छब्दप्रधानः क्वचिच्चार्थप्रधानो निर्देश इति यदुक्तं तदप्यस्मन्मतमेव समर्थयतीत्याह-किश्चान्यदिति, शब्दार्थयोः पार्थक्यमन्तरेण कदाचिच्छब्दः कदाचिच्चार्थ इति विवक्षयाऽपि विभागासम्भव इति भावः । व्याकरणेन हि साधूनेव प्रयुञ्जीत नासाधूनिति गवादय एव साधवो न गाव्यादय इति च नियमद्वयं विधीयते धर्मार्थमिति प्रयोजनवर्णनमपि शब्दात् पृगर्थ. 30 सिद्धादेवेति दर्शयति-यस्तु प्रयुत इति, अनेनाभ्युदयहेतुत्वं व्याकरणाध्ययनस्य सूचितम् , स एव शब्दः क्वचिदर्थविशेषे
केनचिन्निमित्तेन प्रयुक्तः साधुर्भवति अन्यथाऽसाधुः, गवि गोणीशब्दः साधर्म्यमूलकादमेदाध्यारोपात् प्रयुक्तः साधुः, जातिप्रयुक्तस्त्वसाधुर्भवतीत्येवं लक्षणस्मरणपूर्वकं यः प्रयुङ्क्ते स एव वाग्योगविदिति भावार्थः । ननु शब्दस्यार्थस्य तत्सम्बन्धस्य च नित्यत्वात् व्याकरणशास्त्रेण किं क्रियते, न हीदानी शब्दनिष्पत्त्यर्थ व्याकरणम्, शब्दानां स्वतःसिद्धत्वात् , नापि सम्बन्धज्ञानार्थम् , लोकत एव सम्बन्धज्ञानस्य सम्भवादित्याशक्य समाधत्ते-सिद्धेऽर्थे इति, अर्थस्य व्यक्तेः शब्दार्थत्वे व्यक्तः प्रेवाहतो नित्यता,
१.सि.क्ष. प्रतिपत्तोऽपि ।xx क्ष.।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org