________________
अभिजल्पनिरासः] द्वादशारनयचक्रम्
७९९ पृथक् गोण्यादावसाधुत्वं रूढितः, अर्थविशेषविवक्षायां गोण्या आवपने साधुत्वमित्यादि च नान्यथा घटते, तस्य च साध्वसाधुज्ञानस्य प्रयोजनं धर्मः, सिद्धे शब्दार्थसम्बन्धे' ( महाभा० १-१-१ सूत्रे पृ० ५५) इत्यादिरुक्तः सोऽपि पृथगर्थसिद्धिं सूचयति, लोकेनाभिधेयेऽर्थे शब्दाः प्रयुक्ताः प्रयोजनेन वा, तत्रार्थस्य पृथक् सिद्धत्वे शब्दस्य च तद्विषयस्य धर्मार्थः प्रयोगनियमः साधुत्वार्थः शास्त्रेण क्रियते भक्ष्याभक्ष्यनियमवदिति, तस्मान्नाभिजल्पोऽर्थः ।।
एवमेव च दर्शनोत्प्रेक्षाभ्यामित्यादिदर्शनानि शब्दावहिरर्थसिद्धौ घटन्ते, इतरथा अभिजल्पाथै क्ये तत्र किं दर्शनम् ? का उत्प्रेक्षा ?........................कुतोऽभिजल्पः? श्रुत्यन्तरप्रवृत्तिहेतुरित्येतदपि च त्वत्कल्पिताभिजल्पे नैवोपपद्यते, अस्मदिष्टे तूपपद्यते श्रुतेरन्या श्रुतिः श्रुत्यन्तरम् , अन्तरेकीभूतोऽभिजल्पपृथग्भूतो ध्वनिर्व्यवहारानुपाती स्यात् , स त्वदिष्टाभ्यामकर्तृभ्यामचेतनाभ्यां करणकर्मभ्यां न प्रवर्तते, चेतनात्मत्वात्तु कर्ता स प्रवृत्ति- 10 हेतुः श्रुत्यन्तरस्य भवितुमर्हति, शब्दार्थयोरेकीभूय वर्त्तमानयोः काऽन्या श्रुतिः श्रुत्यन्तरमित्युच्यते ? केन च विशेषेण तत्प्रवृत्तिहेतुरुच्यते ।
एवमेव चेत्यादि, एवमेव कारिकात्रयाभिहितस्यार्थस्य वर्णकदण्डकोऽपि दर्शनोत्प्रेक्षाभ्यामित्यादि, प्रधानपुरुषेश्वरादिमयमित्यादिदर्शनानि शब्दावहिरर्थसिद्धौ घटन्ते, वस्तुनि भिन्ने घटादौ बाह्ये तु पुरुषाणाश्चोत्प्रेक्षा नित्यानित्यादित्वेन नियमेन सद्भावे, नान्यथा, इतरथेत्यादि, अभिजल्यार्थैक्ये-नियतबाह्यार्था- 15 भावे प्रधानादिदर्शनासम्भवः, तत्र किं दर्शनम् ? नास्तीत्यर्थः, का उत्प्रेक्षा ? इत्यादितद्न्थानुसारेणासम्भवं जातेः शब्दार्थत्वे तु सुतराम् , शब्दोऽपि नित्यः पदं वाक्यमपि नित्यम् , एकेनैव क्रमेण घटपटादिशब्दानां सर्वैरुचारणात्, शब्दार्थयोः सम्बन्धोऽपि कार्यकारणभावलक्षणो योग्यतालक्षणो वाच्यवाचकभावलक्षणो वा नित्यः, सर्वपदशक्त्यग्रहकाले केनापि पदेनार्थाऽऽदेशनस्याशक्यकर्त्तव्यत्वात् , एवञ्चार्थे शब्दे सम्बन्धे च नित्ये यमर्थमुपादाय लोके शब्दाः प्रयुज्यन्ते नैषां निवृत्तौ यत्नः करिष्यमाणः सार्थकः, तस्माद्व्याकरणेन साधुत्वं शब्दानां बोध्यते, तज्ज्ञानपूर्वकशब्दप्रयोगे धर्मोत्पत्तेः, साधुना शब्देनैवार्थोऽभि- 20 धेयो नापशब्देन, एवं क्रियमाणमभ्युदयकारि भवतीति भावः । साध्वसाधुत्वे दृष्टान्तमाह-पृथर गोण्यादाविति, गवाद्यर्थे गोशब्दः साधुः, गावीगोण्यादयस्तत्रासाधवः, गोण्यादेरसाधुत्वं तत्रार्थे रूढितः, आवपनलक्षणार्थविशेषविवक्षायाञ्च गोणीशब्दः साधुः, जानपदकुण्डगोणेत्यादिसूत्रेणावपनेऽर्थे डीब्विधानादिति भावः । तदेवं शब्दवाच्यतामतमुपदर्य तदपि पृथग शब्दादर्थस्य सिद्धावेव सम्भवतीति निरूपयति-सोऽपीति, शब्दार्थसम्बन्धे नित्ये लोकत एवार्थज्ञानप्रयोजनकृते शब्दप्रयोगेऽपि सिद्ध शास्त्रेण गवादय एवात्रार्थ प्रयुक्ताः साधवो धर्मजनका न गाव्यादय इत्यादि यो नियमः क्रियते स शब्दार्थयोः पृथक् सिद्धत्वे भवितु-25 महति, यथा भक्ष्याभक्ष्ययोः पृथक् सतोरेवेदं भक्ष्यमिदमभक्ष्यमिति धर्मार्थः नियमः कर्तुं शक्यते तद्वत् , तस्मान्नाभिजल्परूपः शब्दोऽर्थों भवतीति भावः। अथ दर्शनोत्प्रेक्षाभ्यामर्थमभिधेयत्वेनोपगृह्य तत्र न्यग्भूतस्वशक्तिर्बुद्धौ परिप्लवमानोऽयमित्थमनेन शब्देनोच्यत इत्यान्तरो विज्ञानलक्षणः शब्दात्मा श्रुत्यन्तरस्य-बाह्यस्य ध्वन्यात्मकस्य प्रवृत्ती हेतुः, सोऽभिजल्पाभिधेयाकारपरिग्राही बाह्याच्छब्दादन्य इति यद्भर्तृहर्यादिमतं पूर्वमुपदर्शितं तदपि बाह्यार्थसिद्धावेव स्यादित्याह-एवमेव चेति । सोऽयमित्यभिसम्बन्धः, तयोरपृथगात्मत्वे, लोकेऽर्थरूपतामिति कारिकात्रयभावार्थभूतोऽयं दर्शनोत्प्रेक्षाभ्यामित्यादिग्रन्थ इति कथयति-एवमेव 30 कारिकेति । दर्शनशब्दग्राह्यमाचष्टे-प्रधानपुरुषेश्वरादिमयमिति, प्रधानमयं पुरुषमयं ईश्वरमयं वेदं सर्वं जगदित्युपदर्श कानि दर्शनानीत्यर्थः । उत्प्रेक्षापि बाह्यार्थसिद्धौ स्थादित्याह-वस्तुनि भिन्न इति शब्दोऽर्थः सम्बन्धश्च निल्यो वा स्यादनित्यो
सि.क्ष. डे. छा. साधोः स्वार्थः। २ सि.क्ष. छा, डे. वस्तुन्यभिन्ने । द्वा० न० २४ (१०१)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org