________________
८००
न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे सोपपत्तिकं दर्शयति यावत् कुतोऽभिजल्पो ? हेय इति, सभावनं गतार्थम् , अर्थाभावे न घटते', अर्थसद्भावे युज्यत इति पिण्डार्थः, किञ्चान्यत्-श्रुत्यन्तरप्रवृत्तिहेतुरित्येतदपि त्वत्कल्पिताभिजल्पे नैवोपपद्यते, अस्मदिष्टे तूपपद्यते, तद्यथा श्रुतेरन्या श्रुतिः श्रुत्यन्तरम् , अन्तरेकीभूतोऽभिजल्पपृथग्भूतो ध्वनिर्व्यवहारानुपाती स्यात् , स त्वदिष्टाभ्यां शब्दार्थाभ्यां न प्रवर्तते, अकर्तृभ्यामचेतनाभ्यां करणकर्मभ्याम् , यथासंख्यं । करणकर्मत्वाच्छब्दार्थयोः, चेतनात्मत्वात्तु आत्मा स्वतंत्रः, स्वातंत्र्यात् कर्ता स प्रवृत्तिहेतुः श्रुत्यन्तरस्य
भवितुमर्हति, यथोक्तम् 'आत्मा बुद्ध्या समेत्यर्थान्' (पा० शि० का० ६) इत्यादि, इदञ्चायुक्तं श्रुत्यन्तरमिति विभज्य कथनम् , शब्दार्थयोरेकी य वर्तमानयोः काऽन्या श्रुतिः श्रुत्यन्तरमित्युच्यते ? तस्माद्विशेषाभावे कथमविभ्रान्तैरविभक्तः सन् विभक्तः शब्दात्मा उच्यते ? केन च विशेषेण श्रुत्यन्तराभावेन तत्प्रवृत्तिहेतुरुच्यते चैतन्यस्वातंत्र्यकृतं कर्तृत्वविशेषमन्तरेण श्रुत्यन्तरासम्भवे कस्य प्रवृत्तिहेतुत्वम् । 10 अत्राह
अस्ति विशेषः घटार्थप्रत्यायनार्थ श्रुतेरनुरूपा श्रुतिरेव युक्ता, कारणानुरूपत्वात् कार्याणाम् , नार्थो वैरूप्यात्, तस्माच्छुतिः श्रुत्यन्तरस्य प्रवर्तिका, नार्थो नाप्यात्मेत्यत्रोच्यते ननु तस्यापि श्रुत्यन्तरस्य प्रवर्तकोऽर्थ एव, अर्थाभावे प्रयोगानर्थक्यात् , निरुक्त्यर्थोऽप्यभिजल्पस्य
तथा घटते नान्यथा, आभिमुख्येन जल्पत्यर्थ शब्दः, तं प्रयुङ्क्तेऽर्थः अभिजल्पयति तद्विषय15 एवाभिजल्प इत्युच्यते, एतदुक्तं भवति अर्थविषयः शब्दः शब्दार्थकल्पनायां युक्ततरः स्यात्,
न तु त्वत्परिकल्पिते शब्दप्रेरिते, एवं तावद्भर्तृहर्यादिदर्शनमयुक्तम् । वा स्यादित्येवमुत्प्रेक्षा नियमेन बाह्यार्थसद्भाव एव स्यादिति भावः । प्रतिनियतबाह्यार्थासद्भावेऽभिजल्पेन सहार्थस्याभेदेऽव्यवस्थितैः शास्त्रसंस्कारोर्निमित्तैरेकस्यापि शब्दस्य बहुधाऽर्थः प्रकल्प्यतेऽतो दर्शनभेद इति प्ररूपणमपि न सङ्गच्छते शब्दातिरिक्तार्थाभावादित्याशयेनाह-इतरथेति । श्रुत्यन्तरस्य-बाह्यस्य ध्वन्यात्मकस्य प्रवृत्तौ हेतुरिति यदुक्तं तदपि न युज्यत इत्याह-श्रुत्यन्तरेति । 20 मन्मत एवैतत्सम्भवतीति दर्शयति-अस्मदिष्टे त्विति, श्रुतिः शब्दस्तस्मादन्या श्रुतिः-श्रुतज्ञानोपयोगलक्षणा श्रुत्यन्तरं आन्तर
ज्ञानात्मकमभिजल्पपृथग्भूतं शब्देनास्य ध्वन्यमानत्वाद्धनिरुच्यते स एव च व्यवहारमनुपतति चेतनात्मकत्वेन व्यवहारकर्तृत्वादिति भावः, श्रुतेद्रव्यशब्दादन्या श्रुतिः श्रुत्यन्तरं भावशब्दः अन्तरेकीभूतोऽभिजल्पपृथग्भूतः ज्ञानात्मनैकीभूतः शब्दोपयोगः स एव शब्देन ध्वननाद्धनिः व्यवहारमनुपततीति शब्दार्थः । त्वदभिमतेन बाह्यशब्देन वा तदर्थभूताभिजल्पशब्देन वाऽचेतनत्वादकर्तृभूतेन कर्मभूतेन वा न व्यवहारः सम्भवतीत्याह-स त्वदिष्टाभ्यामिति, व्यवहारस्त्वदिष्टाभ्यामित्यर्थः । तयोः 25 शब्दार्थयोः करणकर्मत्वात् , अचेतनाभ्यां व्यवहारो न प्रवर्त्तते इति भावः । मन्मते स शब्दोपयोगश्चेतनात्मकत्वात् प्रवृत्तिहेतुः स्यादित्याह-चेतनात्मत्वात्त्विति । तत्र तदुक्तवचनमेवोद्भावयति-यथोक्तमिति । सोऽयमित्यभिसम्बन्धात् शब्दार्थयोरेकीकरणात् श्रुतेरन्या श्रुत्यन्तरमपि न स्यादित्याह-इदञ्चायुक्तमिति । एवमेकीभवनेऽविशिष्टत्वाच्छब्दार्थयोः कथमविभक्ता श्रुतिर्विभक्ता भवतीति वक्तुं शक्नोत्यभ्रान्त इत्याह-तस्माद्विशेषाभाव इति । न हि शब्दार्थयोश्चेतनत्वं येन खातंत्र्या
दन्यस्य प्रवर्तकं भवेत् , तस्मादचेतनत्वादस्वतंत्रत्वाच्छब्दादन्यस्याभावाच्च न कस्यापि प्रवृत्तिहेतुः श्रुतिरित्याशयेनाह-केन च 30 विशेषेणेति । नन्वस्ति विशेषः घटाद्यर्थप्रत्यायनलक्षणः, अर्थगत्यर्थत्वाच्छब्दप्रयोगस्य, शब्दार्थयोश्च कार्यकारणभावः, शब्दो हि गवादिरूपेण परिणमते, परिणामपरिणामिनोश्च तादात्म्यं सर्वरभ्युपगम्यत एवेति श्रुतिः श्रुत्यन्तरस्य प्रवर्तिका भवत्येव, परिणामपरिणामिभावे चैतन्यस्यातंत्रत्वादानुरूप्यस्यैव तंत्रत्वादतो नार्थ आत्मा वा प्रवर्तकोऽननुरूपत्वादित्याशङ्कते-अस्ति विशेष इति ।
सि.क्ष.डे. घटते, अर्थसद्भावेन घटते, अर्थ० । २ सि.क्ष. डे. छा. प्रतिपत्ति । ३ सि.क्ष.डे. छा. रेकीभूतायांतवर्त।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org