________________
wwwmom
वसुरातमतभङ्गः]
द्वादशारनयचक्रम् (अस्तीति) अस्ति विशेषः, तद्यथा घटार्थप्रत्यायनार्थमित्यादि, कारणानुरूपत्वात् कार्याणां ध्वन्यात्मकशब्दोत्पत्तिकार्यदर्शनादन्तर्निविष्टोऽपि तदनुरूपः कारणभूतोऽनुमीयते शाल्यङ्करदर्शनाच्छालिबीजवत्, घटशब्दो नोर्द्धग्रीवादिलक्षणार्थः, तद्विरूपत्वात् , उपादानश्च श्रुतेरनुरूपा श्रुतिरेव युक्ता, नार्थः-- घटादिः, वैरूप्यात् , तस्माच्छ्रतिः श्रुत्यन्तरस्य प्रवर्तिका, नार्थो नाप्यात्मेत्ययं विशेष इति, अत्रोच्यते ननु तस्यापि श्रुत्यन्तरस्येत्यादि, एतदप्यनुमानं प्रतितर्कबाध्यम् , विज्ञानसन्निविष्टघटार्थप्रवर्त्या सा श्रुतिः, 5 श्रुतित्वात् , ननु प्रागुक्तमर्थप्रत्यायनार्थं शब्दः प्रयुज्यते, न वायसवाशितादिवन्निरर्थकः क्रीडितमेवास्त्विति चेत्यादि, तस्माच्छ्रुतित्वात् पूर्वश्रुतिवदर्थप्रवर्तितः शब्दः, अर्थाभावे प्रयोगानर्थक्यादिति, निरुक्त्यर्थोऽप्यभिजल्पस्य तथा घटते नान्यथा, जप जल्प व्यक्तायां वाचि, आभिमुख्येन जल्पत्यर्थं शब्दः, तं प्रयुङ्क्तेऽर्थः, अभिजल्पयति तद्विषय एवाभिजल्प इत्युच्यते, यद्याभिमुख्येनावस्थितमर्थं जल्पति ततो[ऽभि]जल्पः शब्दः, सोऽर्थो विषयोऽस्य, तद्विषय एवाभिजल्पः शब्दः, एतदुक्तं भवति, अर्थविषयः शब्दः शब्दार्थकल्पनायां 10 युक्ततरः स्यात्-अर्थोत्थापितशब्दाभिजल्पत्वपक्षेऽभिजल्पशब्दार्थपरिकल्पना युक्ततरा स्यात्, न त्वत्परिकल्पिते शब्दप्रेरिते, एवं तावद्भर्तृहर्यादिदर्शनमयुक्तम् ।।
यत्तु वसुरातो भर्तृहरेरुपाध्यायः स च स्वरूपानुगतमर्थमविभागेन सन्निवेशयति, तेन द्वावपि शब्दोऽर्थश्चाभ्युपगताविति प्राच्यादत्यन्तादर्शनात्तैमिरिकदर्शनमिदं तत्त्वदृष्टिं प्रत्यासीदति, अभिजल्पस्वरूपन्तु पुनस्तेनापि निरस्तम् , ननु स तेन पुष्यशब्दार्थयोरिष्टादन्या- 15 न्यलिङ्गादीनि सन्निवेशयिष्यति तथापि शब्दनयाभिहितान् दोषान् परिहर्तुमशक्त एव, ननु शब्दानुगतार्थ अन्तरविभागेनेति ब्रुवताऽर्थतंत्रः शब्दोऽभिहितो न शब्दतंत्रोऽर्थः, व्याचष्टे-तद्यथेति उपादानभूतो वाचकः शब्दः, तस्यार्थात्मना विवर्तनात् तयोश्च कार्यकारणभावादेव योऽर्थः स शब्दः, यः शब्दः सोऽर्थ इति तादात्म्यम्, न हि विजातीययोर्घटजलयोरिवोपादानोपादेयभावः सम्भवति, तस्मादूर्ध्वग्रीवादिलक्षणस्य नामवियुतस्य शब्दकार्यत्वासम्भवादेव शब्दस्वरूपो घट एव कार्य तत्प्रवर्तकोऽपि शब्द एवेति आन्तरशब्दस्य बाह्य उच्चार्यमाणशब्दः 20 प्रवर्तक इति भावः । कार्यकारणयोरनुरूपतायां निदर्शनमाह-शाल्यङ्करेति । अर्थभूतं वस्तु नानुरूपमित्याह-घटशब्द इति । उपादानमपि घटशब्दस्वरूपकार्यस्य शब्द एव स्यादित्याह-उपादानश्चेति । श्रुतेः प्रवर्तिका श्रुतिरेवानुरूप्यात् , शाल्यकुरप्रवर्तकशालिबीजवदिति तवानुमानम् , सा श्रुतिः विज्ञानसन्निविष्ट घटादिवस्तुप्रवा, श्रुतित्वात्, पूर्वश्रुतिवदिति प्रतितर्केण बाधितमित्युत्तरमाचष्टे-एतदप्यनुमानमिति । प्रतितर्क व्याचष्टे-ननु प्रागुक्तमिति। प्रागुक्तग्रन्थमेव स्मारयति-अर्थप्रत्यायनार्थमिति. परस्यार्थ बोधयितुं हि शब्दप्रयोगं कुर्वन्ति तज्ज्ञाः न तु निरर्थक क्रीडार्थ वा, तस्मादर्थ एव प्रधानम् , शब्दो- 25 त्थापकत्वात् , यथा तवोच्चार्यमाणा प्राथमिकी श्रुतिरन्तःशब्दव्यञ्जिकाऽर्थविवक्षया प्रयोक्त्रा प्रयुज्यत इत्यभ्युपगता, तथेयं श्रुतिरपि विज्ञान विषयीभूतार्थप्रवत्यैव न तु शब्दप्रवाति भावः । अभिजल्पशब्दव्युत्पत्त्यर्थोऽपि तदैव युज्यत इत्याह-निरुत्यर्थोऽपीति । निरुक्तिं दर्शयति-आभिमूख्येनेति, अर्थविषयकः शब्दोऽभिजल्प इत्यर्थः, तमभिजल्पमर्थः प्रयुङ्क्ते इत्यर्थः, शब्दमर्थोऽभिजल्पयति, अर्थप्रवत्र्योऽर्थविषयः शब्दोऽभिजल्प उच्यत इति भावः । यतोऽर्थमाभिमुख्येन जल्पति शब्दोऽत एवासावभिजल्प उच्यते, तस्य च विषयोऽर्थ एव, अर्थविषयक एवामिजल्प इत्याह-यद्याभिमुख्येनेति । अभिजल्पस्यार्थविषयकत्वे अर्थो- 30 स्थापितत्वे चैवामिजल्पशब्दार्थो घटत इति सारांशमाह-एतदुक्तं भवतीति । तदेवं भर्तृहयोदिमतनिराकरणमुपसहरतिएवं तावदिति । तदाचार्यमतं निराकर्तुमाह-यत्त वसुरात इति । यथाऽऽलोकाच्छुरितो घटो न स्वरूपेण तिरोभवति एवं शब्दस्वरूपोपरक्तोऽर्थोऽपि, एवञ्च वसुरातः शब्दाच्छुरितत्वेऽर्थस्य तत्स्वरूपव्यपगम नेच्छतीति, शब्दखरूपानुगतिमप्यर्थे इच्छती
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org