________________
८०२ न्यायागमानुसारिणीव्याख्यासमेतम्
[उभयनियमारे यद्यर्थमनुगतः शब्दोऽन्तरविभागेन सन्निवेश्येत ततः शब्दप्रेरितत्वाच्छब्दावधारणादर्थो व्युदस्तः स्यात् , किन्तु तद्विपरीतमर्थप्राधान्यावलम्बनं कृतं ततोऽर्थतंत्रत्वात् शब्दप्रवृत्तेः तदवस्था दोषाः, अतो विशेष एव व्यवस्थितः।
(यत्त्विति) यत्तु वसुरातो भर्तृहरेरुपाध्यायः सच स्वरूपानुगतमित्याद्याह तेन द्वावपि शब्दोऽ5 र्थश्चाभ्युपगतौ, सम्बन्धस्य द्विष्ठत्वात् सम्बन्धिनोरभ्युपगतिः, प्राच्यादत्यन्त[]दर्शनात्तैमिरिकदर्शनमिदं तत्त्वदृष्टिं प्रत्यासीदति, न दूरापयातम् , अभिजल्पस्वरूपन्तु पुनस्तेनापि निरस्तम् , किञ्च-ननु स तेनेत्यादि, एतस्मिन्नपि दर्शने यथा पुष्यशब्दार्थयोरन्तःसंनिवेशनमविभागेन सलिङ्गवचनकारकादिभेदयोरेवमेव इष्टाल्लिङ्गादेरन्यान्यलिङ्गादीनि अन्यशब्दार्थगतान्यपि सन्निवेशयिष्यति स इति सामान्योपसर्जनविशेषप्रधानवादिना शब्दनयेनाभिहितान् तत्सामानाधिकरण्याभावादिदोषान् परिहर्तुमशक्त एव तथापि, कस्मात् ? 10 ननु शब्दानुगतेत्यादि, स्वरूपमनुगतोऽर्थः, तमर्थमन्तरविभागेनेति ब्रुवताऽर्थतंत्रः शब्दोऽभिहितः, [न]शब्दतंत्रोऽर्थः, यद्यर्थमनुगतः शब्दोऽन्तरविभागेन सन्निवेश्येत ततः शब्दप्रेरितत्वाच्छब्दावधारणादर्थो व्युदस्तः स्यात् , किन्तु तद्विपरीतं शब्दावधारणव्युदसनात् अर्थप्राधान्यावलम्बनं कृतम् , ततोऽर्थतंत्रत्वात्-अर्थप्रधान तत्वाच्छब्दप्रवृत्तेः,-प्रवर्तको हि शब्दस्यार्थः, तस्मात्तदवस्थादोषाः, शब्दप्राधान्यावधारणे तु परिहृताः स्युः, तस्मादुक्तवदेव विशेषप्राधान्यवादिना अर्थान्तरनिरपेक्षाणां पुष्यतारानक्षत्रादिविशेषाणां नास्ति 15 सामानाधिकरण्यम्, अतो विशेष एव व्यवस्थितः, एषा तावद्वस्तुनोऽर्थपर्यायेषु भावना कृता ।
ranwwmmmmaman
त्याचष्टे-स च स्वरूपेति, स्वखरूपाभ्यामनुगतयोश्शब्दार्थयोनीरक्षीरवदविभागेनाध्यासमभ्युपैति, यतः शब्दार्थयोः कार्यकारणभावो वा योग्यता वा सम्बन्धः, स च द्विष्ठत्वाविनाभावीति शब्दार्थों द्वावपीच्छतीति भावः । मतमिदमर्थस्य शब्दाभिन्नत्वेनाऽऽदर्शनादन्धकल्पभर्तृहरिमतापेक्षयाऽर्थस्वरूपाभ्युपगमेन तैमिरिकदर्शनवत्तत्त्वदृष्टिं प्रति किञ्चित्समीपमुपयातीत्याह-प्राच्यादत्यन्तादर्शनादिति । अत्यन्ताभेदलक्षणोऽभिजल्पः शब्दः शब्दार्थ इति तु नानेनाभ्युपगम्यतेऽर्थस्याप्यभ्युपगतत्वादित्याशयेनाह20 अभिजल्पस्वरूपन्त्विति । एतस्मिन्नपि मते यदि लिङ्गवचनकारकादिविशिष्टशब्दार्थयोरविभागेनान्तःसन्निवेशनं क्रियते लाघ
वात् , अन्यथा प्रतिवचनलिङ्गादिविशेषं विलक्षणाः शब्दा भवेयुरिति गौरवं स्यात् पुष्यस्तारकाः पुनर्वसू नक्षत्रमित्यादिप्रयोगाश्चोपाधिविशेषविवक्षया वीक्रियन्ते तर्हि उभयनियमनयेन प्रारदर्शितविभिन्नलिङ्गवचनसामानाधिकरण्याभावादिदोषा दुर्निवारा एव भवेयुरित्याह-एतस्मिन्नपीति । कथं परिहारासम्भव इत्यत्राह-ननु शब्दानुगतेत्यादीति, शब्दोऽर्थमर्थस्वरूपानुगतमेवाविभागे
नात्मनि सन्निवेशयतीति त्वयाऽङ्गीक्रियते यथा गौर्वाहीक इत्यादौ वाहीके गवाध्यारोपे न केवलं गोमात्रं प्रतीयते किन्तु अध्यारोपि25 तगोरूपो वाहीक एवमध्यारोपितशब्दोऽर्थ एव प्रतीयत इति प्रधानमर्थ एव स्यान्न शब्दः, यदि शब्दखरूपानुगतमर्थमविभागेन
शब्दः सन्निवेश्येत तदाऽर्थस्य शब्दप्रेरितत्वात् शब्देन शब्दस्यैवावधारणादर्थों निरस्तो भवेत्, न चैवमर्थस्वरूपेणैवार्थस्यावभासनेनार्थप्राधान्यमेव स्वीकृतमिति भावः। अर्थप्राधान्ये तु तस्यैव प्रवर्तकत्वाच्छब्द उपसर्जनम् , अर्थस्य सर्वलिङ्गवचनत्वात् आपो दाराः,
टी तटमित्यादिविभिन्नलिंगवचनसामानाधिकरण्यानुपपत्तिः, विशेषविवक्षाया अप्यसम्भवादित्याशयेनाह-ततोऽर्थतंत्रत्वादिति । विशेषस्यैव प्रधानत्वे तस्यार्थान्तरनिरपेक्षत्वान्न केनापि सामानाधिकरण्यमस्तीति न कश्चिद्दोष इत्याह-उक्तवदिति । 30 एवमर्थमवलम्ब्यैकस्यापरसामानाधिकरण्यं न सम्भवतीति भावितमित्याह-एषा तावदिति । लिङ्गादयो व्यञ्जनपर्याया न शब्द
१ सि.क्ष. डे. रेवमेव । २ सि.क्ष. छा.लिङ्गादीनान्यश०।३सि. क्ष. डे. छा. 'रण्यादि भावादि०xxक्ष. । ४ क्ष. डे. विशेष एक एव ।
___Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org