________________
mammmwwwww
विशेषैकभवनात्मता]
द्वादशारनयचक्रम् शब्दगोचरातिक्रान्तेषु व्यञ्जनपर्यायेष्वनेनातिदेशः क्रियते
यथा च रूपादय एकैकभवनात्मका न पर्यायान्तरमपेक्षन्ते विशेषत्वात्तथा पुष्यतारानक्षत्रादिपुंलिङ्गादयः, परस्परविरोधित्वाद्विशेषाणामित्येकमेकमेव भवनं भवतीति कुतः सामानाधिकरण्यम् , पुष्यः पुमान् स कथं स्त्री भवति तारेति नपुंसकं वा नक्षत्रमिति, एवञ्च यथार्थाभिधानमेव न्याय्यम् , लक्षणञ्च यथार्थाभिधानं शब्दः, नामस्थापनाद्रव्यभिन्नलिङ्गा- 5 दिवाच्येष्टाकरणाद्भावयुक्तवाची शब्द इति च, तथाऽऽचार्यसिद्धसेनोऽप्याह-'णामं ठवणा दविये त्ति एस दबट्ठियस्स णिक्खेवो । भावो उ पजवट्ठियस्स परूवणा एस परमत्थो ।' (संमति० का० १-६) इति ।
यथा चेत्यादि, रूपादयो युगपद्भावाभिमता अप्येकैकभवनात्मका न पर्यायान्तरमपेक्षन्ते विशेषत्वादिति दृष्टान्तः, पुष्यतारानक्षत्रादिपुंल्लिङ्गादयः परस्परविरोधित्वाद्विशेषाणामिति दार्टान्तिकः, एकमेकमेव 10 भवनं भवति न द्वितीयमिति कुतः सामानाधिकरण्यम् ? पुष्यः पुमान् स कथं स्त्री भवति तारेति, नपुंसकं वा नक्षत्रमिति ?, एवं वचनकारकपुरुषोपग्रहादिभेदा न परस्परापेक्षा विशेषैकभवना इति भावनीयम् , एवश्चेत्याधुक्तार्थोपनयः, तत्र शब्दनयस्यैतदर्शनं यथार्थाभिधानमेव न्याय्यम् , लक्षणश्च 'यथार्थाभिधानं शब्दः' (तत्त्वार्थ भा० अ० १ सू० ३५) तथा 'नामस्थापनाद्रव्यभिन्नलिङ्गादिवाच्येष्टाकरणाद्भावयुक्तवाची शब्दः' ( ) इति च लक्षणान्तरम् , तत्र विभागेन द्रव्यं द्रव्यार्थवाच्यं पूर्वनयेषूक्तमिष्टं न 15 करोतीति नैगमादिगोचरमनेनापि व्यावर्तितमेव, शब्दनयेन व्यवहारगोचरनामद्रव्यार्थवाच्यमपीष्टं न करोतीत्यधुना व्यावर्तितम् , ऋजुसूत्रस्यार्थस्य गोचरश्च भिन्नलिङ्गादिवाच्यमिष्टं न करोतीति, यथार्थ] वचनादि साध्विति मन्यमानः शब्दनयः प्रवर्तते युक्त्या च, यथा तस्य मतं शब्दस्य तथा प्रकारान्तरं प्रदर्शितम् , तथाऽऽचार्यसिद्धसेनोऽप्याह-'णामं ठवणा दविये त्ति एस दव्व ट्ठियस्स णिक्खेवो । भावो उ पज्जवट्ठियस्स परूवणा एस परमत्थो' (संमति० का० १-६) इति । गोचराः, शब्दस्यार्थविषयत्वात् , ते लिङ्गादयोऽप्यर्थवत् परस्परानपेक्षा एकैकभवनात्मका इत्याख्याति-यथा चेति । पुष्यतारानक्षत्रादिपुंलिङ्गादयः एकैकभवनात्मकाः पर्यायान्तरानपेक्षाः, विशेषत्वात् , रूपादिवदित्यनुमानेन लिङ्गवचनादीनां परस्परानपेक्षकैकभवनात्मकत्वसिद्ध्या नापरेण सामानाधिकरण्यमित्याशयं वर्णयति-रूपादय इति, सहभवनात्मकत्वेनेष्टा रूपरसगन्धस्पर्शशब्दादयः पर्याया इत्यर्थः, स्त्रीपुंनपुंसकानां लिङ्गानां भिन्नत्वान्न पुष्यस्तारा नक्षत्रमिति सामानाधिकरण्यम् , यथा गौरश्व इति, संस्त्यानप्रसवस्थितिलक्षणा एते लिङ्गादयः शीतोष्णादिवत् परस्परविरुद्धाः, तस्मात् पुष्यो न तारा नक्षत्रं वेति स्त्रीनपुंसक-25 सामानाधिकरण्यं न भजत एवेति भावः । एवञ्च भावरूपमेवार्थमभिधत्ते शब्द इत्याह-तत्र शब्दनयस्येति । लक्षणमाहयथार्थेति, नामस्थापनाद्रव्यवियुतेन भावरूपेणार्थ शब्दोऽभिधत्ते, तस्मादेवाशेषाभिलषितेष्टसिद्धेरिति भावः । एतदेव लक्षणान्तरेणाह-नामस्थापनेति । पूर्वनयेषु नैगमसङ्ग्रहनयविषयीभूतद्रव्यस्याभिमतार्थप्रसाधकत्वाभावान्निराकृतमेव, व्यवहारनयगोचरीभूतद्रव्यस्यापि शब्दनयेनानेन व्यावर्तितमेवेत्याह-तत्र विभागेनेति, नयविभागेनेत्यर्थः । ऋजुसूत्रनयो वर्तमानानेकधर्मरूपमपि वस्तु घटादिशब्देनाभिधीयमानमभ्युपैति तदपीष्टं न करोति विभिन्नलिङ्गसंख्याकारकादिधर्माणामेकत्रासम्भवादित्यनेन 30 यथार्थाभिधानशब्दनयेन व्यावर्तितमित्याह-ऋजुसूत्रस्येति । नामादिनिक्षेपानां द्रव्यार्थपर्यायार्थप्रविभागव्यवस्थापकं सिद्धसेनाचार्यवचनमत्रोपन्यस्यति-तथेति, नामस्थापनाद्रव्याणि द्रव्यार्थिकस्य भावः पर्यायार्थिकस्य प्ररूपणाविषय इति तदर्थः ।
mamwammannam
20
१ सि. क्ष. डे. भववादिति ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org