________________
womewomen
mwww mmm
८०४
न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे अधुना सामान्यभेदं स्थापनाद्रव्यार्थमव्यावर्तितं व्यावर्तयितुकामः सम्बन्धयति
व्यवहारान्तःपातिस्थापनावाच्येष्टाकरणप्रदर्शनार्थन्तु स्थीयते यस्मिंस्तत्स्थानम् , भावः क्रिया, केन स्थीयते ? स्थानकत्रेति, क च स्थीयते ? आकारे, आ मर्यादया करणमभिविधिना, प्रस्तुतस्य रूपस्याभिविधिः परिसमापनमभिव्याप्तिः, तेनाऽऽकरणमाभवनम् , तस्मिन् 5 स्थानम् , का मर्यादा ? अन्यरूपविलक्षणम् , तस्य स्वतंत्रस्थातृसमवायिनः प्रयोजके हेतुकर्तरि विहितो णिः तस्य भावः स्थापना।।
(व्यवहारेति) व्यवहारान्तःपातिस्थापनावाच्येष्टाकरणप्रदर्शनार्थन्तु-व्यवहारनयान्तःपातिनी स्थापना सापीष्टं न करोतीत्येतत् प्रदर्शयिष्यते, स्थापनाद्रव्यार्थस्वरूपे चाविदिते न शक्यं तत्प्रदर्शयितुमिति स्थापनाद्रव्यार्थस्वरूपमेव तावदाख्यायते, तत्र स्थानक्रियायाः कर्तुः तिष्ठतः प्रयोजके समवेता ण्यन्तवाच्या 10 'ण्यासश्रन्थो युच्' (पा० ३-३-१०७) इति लक्षणात् क्रिया स्थापना, तां वक्तुकामः स्थानमेव तावड्या
चष्टे-स्थीयते यस्मिन् तत् स्थानं, भावकरणाधिकरणकर्मसाधनेषु अधिकरणं तावदाह वक्ष्यमाणार्थसम्बन्धात् भावः क्रिया स्थानं क; तिष्ठता स्थीयते, ततः तन्निर्णयार्थ पृच्छति-केन स्थीयत इति, तत्प्रतिवचनविशेषावचनात् सर्वगतिरिति, इतिशब्दो हेत्वर्थे, यस्मात् सचित्तस्य देवदत्तादेरचित्तस्य वा घटादेः
स्थानमिति विशेष्यानुक्तमतः सामान्यतो येन केनचित् स्थातव्यम् , यस्मिन्नित्यधिकरणस्योक्तस्य निर्णयार्थं 15 पृच्छति-क च स्थीयत इति, उच्यते-आकारे स्थीयते, 'आङ् मर्यादाभिविध्योः' (पा० २-१-१३) [आ] मर्यादया करणमभिविधिनाऽभिव्यायाऽऽकारः भूकृबोः सर्वधात्वर्थव्यापित्वादाकरणमाभवनमित्यर्थः, तत्राभिविधिमाचष्टे-अभिविधिः परिसमापनमभिव्याप्तिः, कस्य ? प्रस्तुतस्य रूपस्य-भावस्य वस्त्वात्मनः, तेनाभिविधिना प्रस्तुतरूपपरिसमापनेनाऽऽकरणमाभवनं तस्मिन् स्थानं, मर्यादया वेत्यर्थमायोजयति-का
अथ स्थापनाद्रव्यार्थ व्यावर्णयति-व्यवहारान्तरिति । व्यवहारान्तःपातिस्थापनाविषयोऽप्यभिमतार्थसाधकं न भवतीत्या20 दर्शयितुं स्थापनामाहेत्याशयेन व्याख्याति-व्यवहारनयान्तःपातिनीति । स्थापनाद्रव्यनिरूपणकारणमाह-स्थापना
द्रव्यार्थेति । ष्ठा गतिनिवृत्तावित्यस्माद्धातोय॑न्तात् 'ण्यासश्रन्थो युच्' इत्यनेन युच्प्रत्यये स्थापनेति रूपं भवति, तत्र तिष्ठन्तं प्रवर्त्तयति या क्रिया सा स्थापनेत्युच्यत इत्याह-तत्र स्थानक्रियाया इति, स्थानाक्रियायाः कर्ता इन्द्रादिः, स हि तिष्ठति प्रतिकृत्यादौ, तिष्ठन्तं तं यः प्रयोजयति तत्समवेता क्रिया प्रेरणारूपा ण्यन्तधातुवाच्या सा स्थापना शब्देनोच्यत इत्यर्थः । स्थानं दर्शयति-स्थीयते यस्मिन्निति, स्थानशब्दो भावे करणेऽधिकरणे कर्मणि च निष्पद्यते प्रकृते चाधिकरणव्युत्पत्तिसिद्धस्थान25 शब्दो ग्राह्यः क्व च स्थीयत इति वक्ष्यमाणप्रश्नोत्तरानुगुण्येनेत्याह-भावेति । भावोऽत्र कर्तृगता स्थानक्रिया ग्राह्येत्याह-भावः क्रियेति । कर्तारं निर्गतुं पृच्छति-केन स्थीयत इति । अस्योत्तरं विशेषेण वक्तव्यं सामान्यतो स्थानकर्तुः ज्ञातत्वात् परन्तु स्थानकāति सामान्यत एव प्रतिवचनात् सर्व एव स्थितिकर्त्तारो ज्ञायन्त इत्याह-तत्प्रतिवचनेति । सर्वगतिमेव स्फुटीकरोति
यस्मादिति । स्थीयते यस्मिन्निति व्युत्पत्तौ कस्मिन् स्थीयत इत्यस्योत्तरमाह-आकार इति स्थानकाऽऽकारे स्थीयत इत्यर्थः ... आकरणमाकारः, मर्यादयाऽभिव्याप्त्या वा भवनमित्यर्थमाह-आ मर्यादयेति । अभिविधिः पूर्णता, प्रस्तुतरूपपरिसमापनेन 30 भवनरूपे आकारे स्थीयत इत्यर्थमाह-अभिविधिरिति, घटादेहि स्वाकृतौ स्वस्वरूपं परिसमाप्तमित्याकारः प्रस्तुतरूपपरिसमा
सि. क्ष. स्थापमानाव्यनिष्टं न । २ सि. क्ष. छा. स्थापरातीवक्तु । ३ सि. क्ष. 'विध्याचष्टे । ४ सि. क्ष. छा. बेत्यनवयोजयति ।
wwanm
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org