________________
८०५
स्थापनास्वरूपम्]
द्वादशारनयचक्रम् मर्यादा ? अन्यरूपविलक्षणम् रूपान्तरव्यावृत्तिनियम इत्यर्थः, न घनाकारं किञ्चिदस्ति सर्वमाकारपरिग्रहेण भवति तिष्ठतीति स्थानमाकारो मर्यादाऽभिविधिभ्याम् , अस्य स्थानस्य स्वतंत्रस्थातृसमवायिनः प्रयोजके हेतुकर्तरि विहितो णिः, तस्य भावः क्रियाप्रकर्षयोजनाप्रयोजकत्वं हेतुकर्तृत्वं स्थापनादि ।
किमुक्तम्भवति ईषत्तिष्ठतः स्थातुरेकाग्र्याधानं स्वयं तिष्ठतोऽसद्भावेन सर्वत्र विशेष्य स्थाप्यमानपरिसमाप्तं स्थानं स्वविशिष्ट आकारेऽभिव्याप्य तिष्ठति, इन्द्रोऽयं न स्कन्द इत्यादि- 5 रूपान्तरव्यावृत्त्या मर्यादया नियतञ्च, अनिश्चितैकक्रियप्रयोज्यत्ववत् , यथा पचिपठिगम्यादिक्रियाऽवधारणाभावेनानिश्चितक्रियं स्वतंत्रकर्तारं हेतुकर्ता पच पचेति नियुक्त पचावेव स्थापयति क्रियान्तरव्यावृत्त्या तत्रैव स्थाने पच्याकारे नियमयति सा स्थापना, असद्भावेन वाऽतद्रूपेऽपि स्थूणेन्द्रवत् , तदेव हि वस्तु व्यक्ताव्यक्ताकारपरिणामं स्वयं तथा तथाऽऽकृतिवद्विशेषेऽभीष्टे स्थाप्यते ।
10 (किमिति) किमुक्तं भवति-ईषत्तिष्ठतो विप्रकीर्णरूपस्थानस्य स्थातुरेकाग्र्येण स्थानं-तदेकाठ्याधानम् , तद्व्याचष्टे-स्वयं तिष्ठतोऽसद्भावेन सर्वत्रेति, अक्ष[व]राटकाद्यसमाप्ताभिप्रेताकारं स्वयमेव तिष्ठदसद्भावेन तिष्ठति, तत्तु विशेष्य स्थाप्यमानपरिसमाप्तं स्थानं स्वविशिष्ट आकारेऽभिव्याप्य तिष्ठति, इन्द्रोऽयं [न] स्कन्द इत्यादिरूपान्तरव्यावृत्त्या मर्यादया नियतञ्च, किमिवेत्यत आह-अनिश्चितैकक्रियप्रयोज्यत्ववत्, यथा पचिपठिगम्यादिक्रियावधारणाभावेनानिश्चितक्रियं स्वतंत्रकर्तारं हेतुकर्ता पच पचेति नियुक्ते पचावेव 15 स्थापयति, क्रियान्तरव्यावृत्त्या तत्रैव स्थाने पच्याकारे नियमयति सा स्थापना-नियमः, एवं सर्वत्र[T]कारे सद्भावस्थापनया नियमः प्रस्तुतरूपस्य परिसमाप्त्या रूपान्तरविलक्षणतया मर्यादया वेति स्थानार्थः, तं व्याख्याय स्थापनार्थो व्याख्यातः शब्दव्युत्पत्त्या, एवं तीसद्भावस्थापनाया नियमयितुरभावान्न व्यापिता लक्षणस्येति चेन्नेत्युच्यते सुखप्रतिपाद्यत्वादादौ सद्भावस्थापनेत्थं प्रतिपादिता, तत्समानं प्रतिपादनमितरस्या
पनेन भवनरूप इति भावः । अथ मर्यादामाह-अन्यरूपविलक्षणमिति । निष्कृयार्थमाह-न हीति. विवक्षिताकारस्य ह्यन्य-20 द्रूपमविर्वाक्षताकारः तद्विलक्षणं व्यावृत्तिः, किञ्चिदपि वस्तु नानाकारे भवतीति मर्यादार्थः, सर्वञ्चाकारपरिग्रहेण भवतीति अभिविधेरर्थः। खतंत्रस्थातृसमवायिन एवम्भूतस्थानस्य यः प्रयोजकः स्थापयिता तस्य भावविशेषः स्थापनेत्युच्यत इत्याह-अस्य स्थानस्येति। भावार्थमाह-किमुक्तम्भवतीति । व्याचष्टे-किमुक्तमिति,या स्थितिः विप्रकीर्णरूपा इतस्ततः प्रसृता तस्या ऐकाग्र्येण व्यवस्थापनमित्यर्थः । एतदेवाह-स्वयं तिष्ठत इति, यद्वस्तु यत्र क्वापि स्वाभिप्रेते तिष्ठति न मर्यादया न वाऽभिव्याप्या तिष्ठति किन्त्वसद्भावेनानियमिततया, यदा तु तत्स्थाप्यमानं भवति तदा स्वविशिष्टे आकारे इन्द्र एव नान्य इत्यन्यरूपव्यावृत्तिलक्षणमर्यादया 25 नियमेन प्रस्तुते खखरूपपरिसमापनरूपाभिव्याप्या तिष्ठतीति भावः । तत्र निदर्शनमाह-अनिश्चितेति, अनिश्चितक्रिय कर्तारं प्रयोजको यथैकस्यां क्रियायां नियोजयति, नियुज्यमानश्च सः क्रियान्तरे शयनगमनादिभिर्व्यावृत्तः सन पचिक्रियायामेवाभिव्याप्य प्रवर्तते तद्वदिति भावः। अमुमेवाभिप्रायमाह-यथेति । हेतुकर्तुः प्रयोज्यस्य यन्नियतक्रियायां नियमनं स एव स्थापनानियम इत्याशयेनाह-सा स्थापना-नियम इति, क्रियान्तरव्यावृत्तिपूर्वकं कर्तुरेकक्रियायां स्थापनमिति भावः । आकारे व्यवस्थापनादियं स्थापना सद्भावस्थापनेत्याह-एवं सर्वति। असद्भावस्थापनायामव्याप्तिमाशङ्कते-एवं तहीति। समाधत्ते- 30
१ सि.क्ष. छा. ना रूपान्तर । २ छा. क्रियाप्रकर्थयोजनाप्रयोजनरप्रयोजकत्वं । ३ सि.क्ष.डे. छा. ईषत्तिष्ठते ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org