________________
८०६
न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे मपीत्यत आह-असद्भावेन वाऽतद्रूपेऽपि स्थूणेन्द्रवत् , तदेव हि वस्तु व्यक्ताव्यक्तारपरिणामं स्वयं तथा तथा[ऽऽकृतिवद्विशेषेऽभीष्टे स्थाप्यते यथा स्थूणा वा संस्कृतावस्थायामप्यव्यक्ततरावयवाकारायां विशिष्यमाणा चित्रावस्थां व्यक्तावयवाकारामप्रत्यासीदती इन्द्र इति स्थाप्यते, तस्मात् सापि स्थाने नियम्यते, अतो व्याप्येव लक्षणम् ।
एतेनाव्यक्ततराऽवस्था व्याख्यातेत्यतिदिशति
तथाऽक्षादिषु, तस्माद्यथा बालादिपिच्छकद्रव्यपाचकादिनामक्रियाभावभेदा विविधा उपपन्नाः सत्याश्चैवं तदाकार एक एव देवदत्तः सर्वभेदोऽपि नान्योन्यश्च, आकारपरमार्थत्वाभेदात् , एवं चित्रलेप्यपुस्तादिभेदोपपत्तावपि तथा तिष्ठतस्तस्य तस्य स्थानस्य प्रयोजनात्
सा स्थापना, तत्कर्मणस्तत्त्वापत्तेरिति व्यापिता स्थापनाया इत्येवं स्याद्वादी ब्रूते, स्थापना10 द्रव्यैकान्तवादिनस्तु न किञ्चिदाकारव्यतिरिक्तमस्त्यतो भ्रान्तिमात्रं भेदा इति ।
तथाऽक्षादिष्विति, गतार्थम् , तस्माद्यथा बालादीत्यादि, उक्तोपपत्तिनिगमनं सभावनमुदाहरणं यावद्देवदत्तः, बालत्वस्य कारणद्रव्याणि पिच्छकादीनि, युवत्वादीनाञ्चान्यानीति द्रव्यभेद उपपन्नः, तथा पाचको लावकोऽध्यापक इत्यादिर्नामभेदः, क्रियायाः क्षायोपशमिकवीर्यात्मकत्वाद्भावभेदश्वोपपन्नः, विविध
शब्दादेवमादिभेदा गृहीताः, सत्याञ्चैवं द्रव्यनामभावभेदोपपत्तौ देवदत्ताकारस्याभिन्नत्वात्तदाकारो देवदत्त 15 एकः सर्वभेदोऽपि नान्योऽन्यश्च, आकारपरमार्थत्वाभेदादिति भावयित्वा तेनोदाहरणेन दार्टान्तिकेषु चित्रादिष्वपि भावयितुमाह-एवं चित्रलेप्यपुस्तादिभेदोपपत्तावपि तथा तिष्ठतस्तस्य स्थानस्य प्रयोजनात् सा स्थापना, किं कारणं ? तत्कर्मणस्तत्त्वापत्तेः-चित्रकरकर्मणस्तदिन्द्रत्वापत्तेः, पिच्छकद्रव्यपाचकादिनामभावभेदकर्मणां देवदत्ताकारत्वापत्तिवदिति व्यापिता स्थापनायाः, स्याद्वादी तु सद्भावासद्भावद्रव्यनामभावादिभेदवैद्वस्तु वाञ्छन्नेवं ब्रूते, स्थापनाद्रव्यैकान्तवादिनस्तु[न] किञ्चिदाकारव्यतिरिक्तमस्ति, अतो भ्रान्तिमात्रं भेदाः। 20 असद्भावेनेति, स्थूणादावपि चित्रादाविवेन्द्रादेर्व्यक्ततराकारस्यासद्भावेऽपि अव्यक्त आकारोऽस्त्येव संस्कृतेऽसंस्कृते च, आकार
स्यापि सद्भावादेव च स्थान एव नियम्यते नातो नियमयितुरभावाल्लक्षणमव्यापीति भावः । बुद्ध्याऽऽरचिताका रेष्वक्षादिष्वपि नास्त्यव्याप्तरित्याह-तथाऽक्षादिष्विति । स्थापनाया द्रव्यत्वमुपदर्शयति तस्माद्यथेति, नामभेदे द्रव्यमेदे भावभेदे सत्यपि चाऽऽकारलक्षणस्थापनाया एकत्वादेक एव देवदत्त उच्यते तत्र बाल्ययौवनाद्यवस्थानां द्रव्याणि पिच्छकादय इति द्रव्यभेदः, पाचकोऽयं लावकोऽयमध्यापकोऽयमित्येवं नामभेदाः क्षायोपशमिकवीर्यात्मकक्रिया भावभेदः, एवं सत्यपि द्रव्यादिभेदे देवदत्ता25 कारस्यैकत्वादेक एव देवदत्तो भवति नान्योन्य इति भावः । तदेवं नामादिभेदेऽपि तिष्ठतो देवदत्ताऽऽकारस्य यथा प्रयोजकः तथा चित्रादावपीति दार्टान्तिकं भावयति-एवं चित्रलेप्येति, चित्रकराद्यालिखितं चित्रम् , दुहितृकादिसूत्रचीवरादिविरचितं पुस्तम् , एते सद्भावस्थापनारूपाः, अक्षादयोऽसद्भावस्थापनारूपा बोध्याः । हेतुमाह-तत्कर्मण इति, इन्द्रसमवेतस्थानक्रियाप्रयोजकचित्रकरादिनिष्ठकर्मण इन्द्रत्वापत्तरित्यर्थः । पूर्वोदितदेवदत्तदृष्टान्तमाह-पिच्छकद्रव्येति, यथा पिच्छकादिद्रव्यमेदाः पाच
कलावकादिनामभेदाः क्षायोपशमिका वीर्यात्मकक्रियामेदा देवदत्ताकारत्वमापद्यन्ते तथा चित्रकरादिकर्माणि इन्द्रत्वमापद्यन्त इति 30 भावः । अत्र मतभेदमादर्शयति-स्याद्वादी त्विति, नामस्थापनादिभेदविशिष्टं वस्तु स्याद्वादिनां मते परमार्थ इति भावः। आकारव्यतिरेकेण पदार्थानामवगमासम्भवात् पदार्थमात्रस्याकारव्याप्यत्वेनाकृतिरेव मुख्यं तत्त्वं तद्व्यतिरिक्तस्य कस्यचिद्व्यस्यानाकृतेर्ज्ञानोपायाभावेनासत्त्वं शशशृङ्गादिवदिति आकृतिमात्रमेव द्रव्यमुच्यत इति एकान्तनयो मन्यत इत्याह-स्थापना द्रव्येति ।
१ सि.क्ष. छा. "त्तदाकारत्वोदे०। २ सि.क्ष. छा. भेदवास्ववस्तु ।
mmaramanaw
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org