________________
فاه
स्थापनया निक्षेपः]
द्वादशारनयचक्रम् एषा च स्थापना निक्षेपानुयोगद्वारान्तर्गताऽर्थेन अभिहिता, तस्मात् स्थापनया निक्षेप इति तृतीयासमासे स्थापनानिक्षेप इत्यस्य व्याख्यानार्थमाह
स्थापना सद्भावासद्भावाभ्यां वस्तु निक्षिपति, अतद्भूतात्मकं वस्तु तद्भावमापादयत्यास्मानमात्मनेत्युक्तं भवति, पुरुषान्नामकर्मणो देवदत्तादितावत् , यथा पुरुषो नामकर्मप्रागमूर्त्तात्मा लक्षणतः सत्तात्मा कर्मत्वेन मूतात्मना परिवर्तते आभवति ततश्च नामकर्मणो देवदत्तादिता 5 तथा चित्रकरादिः, तत्रात्मवदतथाभूतस्य तथात्वापादनात्तदेकता चित्रकर्मादिदेवदत्तस्य ।
(स्थापनेति) स्थापना सद्भावासद्भावाभ्यां वस्तु निक्षिपति-सद्भावेनासद्भावेन च स्वात्मनि वस्तु स्थापयतीत्यर्थः, अतद्भूतात्मकं वस्तु तद्भावं-आकारात्मानमापादयत्यात्मानमात्मनेत्युक्तम्भवति, किमिव ? यथा पुरुषो नामकर्मप्रागमूर्त्तात्मा लक्षणतः सत्तात्मा कर्मत्वेन मूर्त्तात्मना परिवर्त्तते आभवति ततश्च नामकर्मणो देवदत्तादिता-तस्मादुपात्तात् कर्मणो नारकतिर्यग्योनिदेवदत्ताख्यमनुष्यत्वापत्तिरेव दृष्टान्तः, 10 दार्टान्तिकः-तथा चित्रंकरादिरित्यादि, तद्व्याख्या-तत्रात्मवदतथाभूतस्य तथात्वापादनात्तदेकता चित्रकर्मादिदेवदत्तस्येति-यथा जीवकर्मणोरन्योन्यात्मापत्त्या भिन्नाभिमतयोरेकत्वापत्तिराख्याता तथा चित्रगतवर्णकादिदेवदत्तत्वापत्तिरपीत्यर्थः, अथवाऽभ्युपगच्छामो जीवकर्मणोरपि भेदम् , एक एव जीवाख्योऽर्थः पारिणामिकजीवभव्याभव्यत्वादिभावापत्तिपरिणामः, क्षायौपशमिकौदयिकादिपरिणामश्चैकद्वित्रिचतुरिन्द्रियतिर्यक्नारकादिः सर्व एव देवदत्तः कर्मात्मैक्सादिति दृष्टान्तः, महाश्वेतत्वादिदेवदत्ताकाराभेदश्चित्रेऽपीति 15 दान्तिकोऽर्थः ।
कर्मणः स्थापनात्मकत्वोक्तिनिक्षेपानुयोगद्वारमनुसृत्य, तथा च स्थापनानिक्षेप इति पदस्य स्थापनया निक्षेप इति तृतीयासमासः कार्य इत्याह-एषा चेति । तृतीयासमासार्थमाह-स्थापनेति । व्याचष्टे-सद्धावेनेति, स्थाप्यमानवस्त्वाकृतिसद्भावेन तदसद्भावेन वा खतोऽत्यन्तभेदरहिते वस्तुनि इन्द्रादिवस्तु स्थापयतीत्यर्थः । स्वतोऽत्यन्तभेदरहितत्वमेवोपदर्शयति-अतद्भूतात्मकमिति, एतेन कथञ्चिद्भेद आदर्शितः, साक्षादिन्द्रादिरूपत्वाभावात् काष्टचित्रादेः, आकारात्मानमिति कथञ्चिदभेदो दर्शितः, अन्यथा 20 कुड्यादिवत्तस्य तत्प्रतिकृतिरेव न स्यादिति भावः । तत्र निदर्शनमादर्शयति-यथा पुरुष इति, देवदत्तादिनामकर्मणः प्राक् सत्वरूपोऽमूर्तः पुरुषो नामकर्मणा देवदत्तादिर्भवति, एवञ्च पुरुषो नामकर्मणः प्रभावात् नारकोऽयं तिर्यगयं देवदत्तादिरूपो मनुष्योऽयमिति तत्तद्रूपतामापद्यते, तस्मान्नामकर्मणा पुरुषस्य नारकतिर्यग्योनिदेवदत्ताख्यमनुष्यत्वापत्तिरिति स्थापनयाऽतद्भूतात्मक वस्तु तद्भावमापादयत्यात्मनाऽऽत्मानमित्यर्थे दृष्टान्त इति भावः । दार्टान्तिकमर्थ व्याचष्टे-तत्रात्मवदिति, पुरुषस्येव देवदत्ता देर्वस्तुनश्चित्रगतदेवदत्तत्वापत्तिरिति भावः। तमेव भावमाह-यथा जीवकर्मणोरिति, व्याख्येयं जीवकर्मणोमिन्नयोरेकत्वापत्तिम- 25 भ्युपगम्य, एकत्वापत्तिमनभ्युपगम्यापि व्याचष्टे-अथवेति, त्वप्रत्ययस्य प्रत्येकमभिसम्बन्धाजीवत्वं-जीवभावः स्वार्थ भावप्रत्ययः, असंख्येयप्रदेशा चेतनव जीवत्वम् , भव्या सिद्धिर्यस्यासौ भव्य उत्तरपदलोपो भीमादिवत्, भव्य एव भव्यत्वम् , अभव्यः सिद्धिगमनायोग्यः, स एवाभव्यत्वम्, एते त्रयः पारिणामिकाभावाः स्वाभाविका न कर्मकृता उच्यन्ते, कर्मणः क्षयोपशमाभ्यां निवृत्तः क्षायौपशमिको भावः ज्ञानाज्ञानाद्यष्टादशभेदः, कर्मविपाकाविर्भाव उदयः, तत्प्रयोजनस्तन्निवृत्तो वा परिणामः औदयिकः गत्याद्यकविंशतिरूपः, सर्व एवैते जीवाख्य एकोऽर्थः स एव च देवदत्तत्वमापद्यन्ते कर्मात्मनोरभेदादिति दृष्टान्तार्थः । दार्टान्तिकार्थमाह-महाश्वेत- 30
१ सि. क्ष. छा. पुरुषात्तमकर्म । २ सि. 'लक्षणतः सत्तात्मा' इति नास्ति । क्ष. वक्षणतः सत्तात्मा। ३ सि. क्ष.छा. ख्यमन्ययत्वा०। ४ सि.क्ष. छा. चरित्रकरादि । ५ क्ष. तमवदतथा० । सि. इन्नात्मवदतथा०।
द्वा० २५ (१०२)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org