________________
८०८
न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे तदर्शयति
यथा च जीवत्वादि तत्पूर्वरूपं अव्यक्ताकारं सततं तिष्ठत् स्थाप्यते तथा पुद्गलानामपि वर्णादिपारिणामिका भावा अतस्तयोरेकता, आकारतत्त्वैकत्वात् ।
यथा च जीवत्वादि तत्पूर्वरूपमित्यादि दण्डको गतार्थः, अथवा जीवस्य कर्मपुद्गलानामपि 5 नास्ति परस्परतो भेदो धर्माभेदादित्यत आह-यथा च जीवत्वं तत्पूर्वं जीवपूर्व पारिणामिकेन चैतन्येन सर्वरिणामाभिमुखेनाव्यक्ताकारमसद्भावस्थापनं सततं तिष्ठत् स्थाप्यते तथा पुद्गलानामपि वर्णादिपारिणामिका भावा असद्भावस्थापनेन महाश्वेता सिन्दूरादिवर्णकजातम् , अतस्तयोरेकता, कस्मात् ? आकारतत्त्वैकत्वात् बुद्ध्या क्रियमाणत्वेनाभेदात् तत्परिणामात्मकत्वात् तथा तथा स्थाननियमादभेद इति ।
अत्र चोदयति10 यदि स्थापनया व्यतिरिक्तार्थस्वरूपं स्थाप्यं वस्त्वापद्यते ततः कस्मात् स्थाप्यवस्तुस्वरूपं उद्देश्योऽर्थो नापद्यते ? इन्द्रतामक्षादिरापद्यते नाक्षतामिन्द्र इत्यत्र को विशेषहेतुः ? अत्रोच्यते नन्वसावपीन्द्रनामगोत्रकर्मस्थाप्यत्वात् स्थापनानिक्षेपात्मकतां नातिवर्त्तते, तस्मात् स्थापनानिक्षेपत्वे सत्येव जीवकर्मणोर्योगवक्रादिपरिणामवैचित्र्यं व्यक्ताव्यक्ताकारवैश्वरूप्यं
न न युज्यते । 15 यदि स्थापनयेत्यादि, अयमभिप्रायः-यदि स्थाप्याकारानाकारवस्तुनोऽतिरिक्तस्योद्देश्यस्य देव
दत्तस्य स्वरूपं चित्रादि स्थाप्यवस्त्वापद्यते ततस्तद्वत् चित्रादिः स्थाप्यस्य स्वरूपं कस्मात् देवदत्तादिरुद्देश्योऽर्थो नापद्यते, तुल्ये स्थापयितृवशात् व्यतिरिक्तार्थखरूपापत्तिहेतुत्वे स्थापनायाः, तथेन्द्रतामक्षादिरापद्यते, नाक्षतामिन्द्र इत्यत्र को विशेषहेतुः ? इति सद्भावासद्भावस्थापनयोश्चोद्यमेतत् , अत्रोच्यते-नन्व
सावपीत्यादि यावन्न न युज्यते, नैतदनिष्टम् , इष्यत एवैतदतो न दोषः, यथा चित्रलेप्यादिस्थाप्यमिन्द्रो20 देशेनेन्द्रो भवति तथेन्द्रोऽप्यक्षादिर्भवति, अपि च[7]सा[व]पीन्द्रनामगोत्रकर्मस्थाप्यत्वात् स्थापनानिक्षेपात्मकतां
त्वादीति, आदिना सिन्दूरादिवर्णकजातमादेयम् , इदमेव व्याचष्टे-यथा चेति।व्याचष्टे-यथा च जीवत्वादीति, जीवभव्याभव्यत्वादिपरिणामवानेक एव जीवः यथाऽसद्भावस्थापनया देवदत्तत्वापत्तिं प्राप्नोति तथा पुद्गलवर्णपरिणामभूता महाश्वेतसिन्दूरादिभावा असद्भावस्थापनया देवदत्तत्वमापद्यन्ते बुद्ध्या आकारस्य देवदत्तत्वस्य च स्थाप्यस्थापकभावस्य क्रियमाणत्वेनाभेदात् स्थाप्यस्थापकयोश्च परिणामपरिणामिभावात् , काष्टपुस्तचित्राक्षादिस्थाननियमाच्च तयोरभेद इति भावः प्रतिभाति । ननु देवदत्तादि आकारेड25 नाकारे वा वस्तुनि चित्राक्षादौ स्थाप्यत इति चित्रादि देवदत्तस्वरूपमापद्यते इत्युच्यते, तथैवमविशेषाद्देवदत्तादि चित्रादिस्वरूपं
कुतो नापद्यत इत्याशङ्कते-यदि स्थापनयेति । व्याचष्टे-अयमभिप्राय इति, स्थाप्यो देवदत्तादिः, तस्याकारभूतादनाकारभूताद्वा चित्रादेर्व्यतिरिक्तस्य-भिन्नस्य स्थापनाया उद्देश्यभूतस्य देवदत्तादेः स्वरूपमित्यर्थः, अविशिष्टत्वमेव हेतुत्वेनाह-तुल्य इति, स्थापनाया हेतुः स्थापयित्रा उद्देश्यभूतदेवदत्तादिव्यतिरिक्तवस्तुखरूपापादनं, तच्च व्यतिरिक्तार्थस्वरूपापादनं चित्रादिवद्देव.
दत्तादावप्यस्त्यवेति तुल्यत्वमिति भावः । सद्भावस्थापनायामापत्तिमुक्त्वाऽसद्भावस्थापनायामपि तामाह-तथेन्द्रतामिति । 30 परस्पररूपतापत्ताविष्टापत्तिं करोति-नैतदनिष्टमिति । इन्द्रादिरपि स्थापनानिक्षेपात्मकतां नातिवर्त्तते, प्रागमूर्तात्मनः पुरुषात्
नामकर्मणो देवदत्तादितायाः प्रागुक्तत्वादित्याह-असावपीति । पुरुषेऽपि नामकर्मणो नामकर्मण्यपि पुरुषस्य स्थापना स्यादेव,
१छा.xx
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org