________________
स्थापनाया निक्षेपः]
द्वादशारनयचक्रम् नातिवर्त्तते, पुरुषान्नामकर्मणो देवदत्तादितेत्यादि ग्रन्थेन भावितत्वात् , तस्मात् स्थापनानिक्षेपत्वे सत्येव जीवकर्मणोः योगवादिपरिणामवैचित्र्यं [व्यक्ता व्यक्ताकारवैश्वरूप्यमभिहितचित्रलेप्यादिदृष्टान्तसाधर्म्य नातिवर्त्तते, अतो युज्यत एवैतत् , न न युज्यते, द्विः प्रतिषेधस्य प्रकृत्यापत्तेः, एवंतावत् स्थापनया निक्षेप इति तृतीयासमासे स्थापनानिक्षेपद्रव्यार्थनयव्यापिता दर्शिता ।
अथ च स्थापनाया निक्षेप इति कर्मणि षष्ठी कृत्वा समासः, किं कर्म ? स्थापनैव, का सा? आकारः, कोऽसौ ? वस्त्वात्मा, स एव निक्षिप्यते, क्व? स्वात्मनि, कः ? घटादिः, केन ? कुम्भकारादिभिरिति, मुमुक्षुभिरात्मा कर्मामिश्रः स्वात्मनि, अविविक्तः सन् विविक्तरूपत्वेन, तथेन्द्रोऽपि प्रदर्श्यते, न हि तदाकारमन्तरेणेन्द्रः, घट इव विकुक्षित्वादिविनाभूत इति ।
अथ चेत्यादि, षष्ठीसमासेऽपि दर्शयितुमाह-स्थापनाया निक्षेप इति समासः कर्मणि षष्ठी कृत्वा, किं कर्म ? स्थापनैव, का सा स्थापना ? आकारः, कोऽसावाकारः ? वस्त्वात्मा, स एव निक्षिप्यते, क? 10 स्वात्मनि, कः ? घटादिः, केन ? कुम्भकारादि[भ]रिति व्याख्यातः षष्ठीसमासार्थोऽपि वस्तुतः प्रस्तुतः, तद्व्यापकत्वप्रदर्शनार्थमाह-मुमुक्षुभिरात्मा स्वात्मनि, निक्षिप्यत इति वर्त्तते, कीदृश इति चेत्-कर्मामिश्रः, स्थाप्यते स्वाकारेऽविविक्तः सन् विविक्तरूपत्वेन, तथेन्द्रोऽपीत्यादि, अविविक्तविविक्तस्थानलक्षणस्थापनानिक्षेपात्मकत्वं जगतः प्रत्यक्षीक्रियते, व्यापित्वाल्लक्षणस्यास्य इन्द्रानिन्द्रयोर्विवेकमजानतां पुंसां स इन्द्रः साक्षात् प्रदर्श्यते, कस्मात् ? यस्मान्न तदाकारमित्यादि, नयनशबलवर्मताद्याकारमन्तरेणेन्द्राभावात् , तदाकार- 15 तत्त्व एवेन्द्र इत्युक्तत्वात् , किमिव ? घट इव विकुक्षित्वादिविनाभूतः, यथा घटो विकुक्षित्वाद्याकारादृते नास्ति तदात्मक एवास्ति तथेन्द्रोऽपि स्वाकारविनाभूतो नास्ति, तदात्मैवास्तीति ।
पुरुषनामकर्मणोरन्योऽन्यापत्तिमन्तरेण शुभाशुभनिमित्तयोगवक्रादिपरिणामासम्भवेनैकद्वितीद्रियादि वैश्वरूप्यमात्मनो न स्यादित्याहपुरुषादिति । अन्योन्यरूपापत्तिः पुरुषनामकर्मणोयुज्यत एव न युज्यत इति नेत्ययोगव्यवच्छेदमाह-अतो युज्यत इति तृतीयासमासपक्षमुपसंहरति-एवं तावदिति । स्थापना कुम्भकारादिमिनिक्षिप्यत इत्यर्थे स्थापनाया निक्षेप इति कर्मणि षष्टीं 20 विधाय समासे स्थापनानिक्षेप इति भवतीति तत्पक्षाश्रयेण तं निरूपयति-अथ चेति । व्याचष्टे-षष्ठीसमासेऽपीति । कर्मणि षष्ठीं कृत्वेति, कर्माद्येकार्थसमवायिनि फलभूते शेषे षष्टीं कृत्वेत्यर्थः । वस्त्वात्मलक्षणाकार एव निक्षेपणकर्मीभूता स्थापनेल्याह-किं कर्मेति । कुम्भकारादिकर्तृकं घटादिवरूपाधिकरणकं निक्षेपणमित्याह-क्क ? स्वात्मनीति । कुम्भकारादिकर्तृकघटादिस्वात्माधिकरणकनिक्षेपणस्य षष्ठीसमासार्थस्याप्यत्र समासे सम्भवोऽस्तीत्याह-व्याख्यात इति । कर्मषष्ठीसमासार्थस्य व्यापकत्वप्रदर्शनाय दृष्टान्तान्तरमाह-मुमुक्षभिरिति, मुमुक्षुभिः कर्मासम्पृक्त आत्मा खात्मनि कर्मा भिन्नोऽपि भिन्नत्वेन 25 स्थाप्यत इति लक्षणस्य व्यापनाझ्यापित्वमिति भावः । सामान्यस्वरूपेऽभेदात्मनि द्रव्ये विशेषाणां सर्वेषां कथञ्चिद्रेदरूपेण व्यवस्थापनेन द्रव्यपर्यायात्मकत्वाजगतस्तद्रूपेणैव प्रत्यक्षविषयत्वमित्याह-अविविक्तेति । प्रत्यक्षविषयत्वमेवादर्शयतिइन्द्रानिन्द्रयोरिति । तत्र हेतुमाह-यस्मादिति. इन्द्रव्यपदेशयोग्याकारस्य तत्र सद्भावादिति भावः । न ह्याका किमपि वस्तु भवितुमर्हतीति द्रढयितुं निदर्शनमाह-घट इवेति । स्थापनायां निक्षेप इति सप्तमीतत्पुरुषसमासाश्रयेणाह
१ सि. क्ष. डे. छा. प्रस्तुतो यपिकत्व प्र० । २ सि. क्ष. छा. तदाकारेत्यादि ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org