________________
८१०
न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे अथ वा स्थापनायां निक्षेपो न नाम्नि, यतो नामापि सहार्थेन तत्तत्तंत्रमेव, स्थानकरणजन्मानो वर्णाः सङ्गत्योच्चरन्तः सुप्तिङन्तादिविशेषाकाराः, पुद्गलाश्च नामाख्यातवाच्यद्रव्यक्रियाकाराः, सर्व भूताकारतत्त्वस्थापनाविपरिणामविजृम्भितमात्रम् , तदभावे शब्दार्थयोरभावात् , एवं तावन्नामनिक्षेप उक्तः।
अथ वा स्थापनायामित्यादि, सप्तमीसमासो वा स्थापनायां निक्षेपः स्थापनानिक्षेप इति, एवकारार्थो द्रष्टव्यः, तद्व्याचष्टे-न नानि-न शब्दे निक्षिप्यते, किं तर्हि ? स्थापनायामेव निक्षिप्यते, कस्मादिति चेदत आह-यतो नामापि सहार्थेन तत्तत्तंत्रमेव-आकारतंत्रमेव शब्दोऽर्थश्व, तद्भावयति-स्थानकरणेत्यादि, अकारादयो वर्णाः प्रतिनियतकंठादिस्थानकरणजन्मानः सङ्गत्या-नैरन्तर्येणोच्चरन्तः सुप्तिङन्तादिविशेषाकाराः, पुद्गलाश्च नामाख्यातवाच्यद्रव्यक्रियार्थाकाराः, सर्वं सद्भूताकारतत्त्वस्थापनाविपरिणामवि10 जृम्भितमात्रम् , किं कारणं ? तदभाव इत्यादि, आकाराभावे शब्दार्थयोरभावात्-आकाराग्रहणे चैतयोरग्रहणात्, एवं तावन्नामनिक्षेपः स्थापनानिक्षेपान्तर्भूत उक्तः ।
द्रव्यनिक्षेपोऽपि स्थापनान्तर्भूत इति ब्रूमः तद्यथा
द्रव्यमपि स्थापनानिक्षेप एव, आकारमयत्वात् , यथा श्रीपर्णीदारु द्रव्यं तस्य तस्यान्तर्लीनाकारम् , भावोऽपि क्रियोपयोगरूपादिनीलादिशिवकादिरूपभेदैः साकार एव, 15 एवं निक्षेपत्रयं स्थापनानिक्षेप एव रूपान्तरव्यावत्तेनेन रूपान्तरकरणात्मकस्थापनास्वरूपानतिक्रमात् ।
द्रव्यमपीत्यादि, द्रव्यनिक्षेपोऽपि स्थापनानिक्षेप एव, आकारमयत्वाद्रव्यस्य, यथा श्रीपर्णीदारु द्रव्यंकारणमन्तीनाकारं तस्य तस्याऽऽकारविशेषस्य तदव्यक्तसामान्यनिक्षेपः-तथाऽऽकारसम्परिग्रहमात्रमिति
अथवेति । सर्व वाक्यं सावधारणमिति न्यायेनैवकारोऽत्र विद्यत इत्याह-एवकारार्थ इति, नामद्रव्ययोर्न निक्षेप इति 20 परव्यवच्छेदो लभ्यते, तस्मान्नामद्रव्यनिक्षेपयोः स्थापनानिक्षेपान्तर्गतत्वमेव, न तु पार्थक्यमिति भावः । तत्र प्रथमं न नाम्नि निक्षिप्यत इति दर्शयति-न नाम्नीति । तत्र कारणमाह-यतो नामापीति, शब्दार्थयोराकाराधीनत्वादित्यर्थः । शब्दस्याऽऽकृतितन्त्रत्वं स्फुटयति-स्थानकरणेति, स्थानं कण्ठताल्वादि, करणमन्तःकरणम् , तत्र प्राणो बुद्धितत्त्वेन अन्तराविष्ट ऊर्द्धममिप्रवृत्तः तत्तत्स्थानेषु सम्बद्धो शब्दपरमाणूनकारादिरूपेण भिन्नतया परिणमयति, ते च वर्णाः तत्तदर्थप्रकाशनयोग्यतयाऽव्यवधानेनोच्चरन्तो घटमिति सुबन्तपदत्वेनाऽऽनयेति तिङन्तपदत्वेन च परिणमन्ति, तस्मात् सुबन्ताकारत्वं तिङन्ताकारत्वं पौद्गलिकस्य नामद्रव्यस्य 25 घटादेः पृथुबुध्नोदराद्याकारवदक्षतमेवेति भावः । शब्दस्य नामाख्यातरूपस्य सुबन्ततिङन्तादिविशेष आकारः, सामान्याकारश्च
तद्वाच्यभूते द्रव्यक्रिये, वाच्यवाचकयोस्तादात्म्यात्, सर्वे चैत आकाराः सद्भावस्थापनापरिणामा इत्याह-सुप्तिङन्तादीति । न हि निराकारः कश्चिच्छब्दोऽर्थो वा गृह्यत इत्याह-आकाराभाव इति । नामनिक्षेपं स्थापनानिक्षेपे आकारत्वादन्तर्भावयित्वा द्रव्यनिक्षेपोऽपि तदन्तर्गत एवेत्यादर्शयति-द्रव्यमपीति। व्याचष्टे-द्रव्यनिक्षेपोऽपीति । यदाकारमयं तत्सर्व स्थापना निक्षेप एवेति हेतुमाह-आकारमयत्वादिति-आकारप्रचुरत्वादित्यर्थः । परिणामा हि सर्वे परिणामिनि साधनाभिव्यक्तिप्राक्कालेड30 व्यक्ताकारास्तिष्ठन्तीति द्रव्यं तेषामव्यक्तस्थापनानिक्षेपविषयत्वात्स्थापनैवेत्याह-यथा श्रीपर्णीति । भावनिक्षेपमप्यन्तर्भावयति
सि.क्ष. छा. तत्र तंत्रमेव ।
२ शब्दार्थश्च । ३ सि.क्ष. कंठादितास्था ।
सि. क्ष. सर्वेनभूता।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org