________________
सद्भावस्थापना]
द्वादशारनयचक्रम् स्थापनैव द्रव्यमपि, एवं नामद्रव्यनिक्षेपौ स्थापनानिक्षेप एव, भावोऽपीत्यादि, भावनिक्षेपोऽपि स्थापनैव, आगम[तो नोआगमत]श्च, आगमतस्तत्प्राभृतज्ञ उपयुक्त इत्युपयुक्तो भावः पारिणामिकः, क्षायोपशमिकश्चेष्टा जीवस्य वीर्यान्तरायक्षयोपशमजो भावः, पुद्गलानान्तु रूपादियुगपद्भावी पारिणामिको भावः, नीलादिवा तद्विशेषः, शिवकाद्ययुगपद्भावी वेत्येवमादिरूपा भेदा यस्य सोऽयं क्रियोपयोगरूपादिनीलादिशिवकादिरूपभेदो भावः साकार एव-आभवनमेव पूर्वोक्तविधिना, एवं निक्षेपत्रयं स्थापनानिक्षेप एव संक्षेपतः, । रूपान्तरव्यावर्त्तनेन रूपान्तरकरणात्मकस्थापनास्वरूपानतिक्रमात् ।
एतल्लक्षणानुगृहीतत्त्वादसद्भावस्थापनाऽव्यक्ताकारसती स्थापनेत्यापादयितुकामः पराशङ्कानिवृत्त्यर्थमाह- अक्षाद्यसद्भावस्थापनायामपि रूपान्तरश्चेव्यावर्त्य रूपान्तरं न कुर्यादिन्द्रादेरक्षनिक्षेपप्रतिपाद्यस्यावरोधः स्यात् तस्मादविरुद्धाभिप्रेताकारे वृत्तो नाम्ना इन्द्र इति बुद्ध्या वाऽध्यारोप- 10 स्तत्कर्मणः, द्रव्यार्थस्थापनेन्द्रस्थूणावत्, एतत्तत्त्वाध्यवसायादेव लिङ्गसमाचारदेवताप्रतिमानमस्करणादि लोके रूढत्वात् स्थापनैव सर्वमिति स्थापनाद्रव्यार्थनयमतमुक्तम् ।
अक्षाद्यसद्भावेत्यादि, अत्रापि रूपान्तरश्चेद्ध्यावर्त्य रूपान्तरं न कुर्यात् रूपान्तरस्येन्द्रादेरक्षनिक्षेपप्रतिपाद्यस्यावरोधः -प्रतिपत्तिर्न स्याद्भवितुम् , तस्मादविरुद्धाभिप्रेताकारे वृत्तो नाम्ना-शब्देनेन्द्र इति बुद्ध्या वाऽध्यारोपः तत्कर्मणः-अक्षनिक्षेपस्थापनाकर्मणः, किमिव ? द्रव्यार्थस्थापनेन्द्रस्थूणावत्-यथा रूपा- 15
भावनिक्षेपोऽपीति। चेतनाचेतनयोरपि भावरूपयोः साकारत्वाविनाभावित्वात् स्थापनान्तर्गतत्वमेवेति दर्शयति-आगमत इति प्राभृतज्ञस्तत्र उपयुक्तश्च जीवः उपयोगरूपः, प्राभृतं पूर्वान्तर्गतं यो जानाति स प्राभृतज्ञः, तथोपयोगयुतश्च, अनुपयुक्तस्य भावत्वानुपपत्तेः, अनुपयुक्तो द्रव्यमिति लक्षणात्, उपयोगात्मा जीवश्च जीवत्वस्य पारिणामिकत्वात् पारिणामिक उच्यते, चेष्टा च वीर्यान्तरायक्षयोपशमजन्यत्वेन क्षायौपशमिको भावश्चेतनस्य, पौद्गलिकानान्तु भावः पारिणामिक एव, तत्र सहभाविनो रूपादयस्त द्विशेषाश्च नीलादयो भावाः, क्रमभाविनश्च शिवकस्थासकादयः, सर्वे चैते भावाः साकारा एव यत एव चैते प्रस्तुतरूपपरि- 20 समापनेन रूपान्तरव्यावृत्त्या च भवन्ति अत एव स्थापनास्वरूपं नातिक्रामन्तीति भावः । नामद्रव्यभावनिक्षेपाणां स्थापनात्वमेव प्रकटयति-एवं निक्षेपत्रयमिति । भवतु रूपान्तरव्यावृत्त्या प्रस्तुतरूपपरिसमापनेन च भवनमेतेषां स्थापनात्वं कुतः? न ह्याकारमात्र स्थापनेत्यत्राह-रूपान्तरेति, स्थूगादौ ह्ययमिन्द्र इति स्थाप्यते स्थूणात्वादिलक्षणरूपान्तरव्यावर्तनेनेन्द्रत्वादिरूपान्तरत्वमापाद्यत इति स स्थापनया इन्द्र उच्यते तथैवैतेऽपीति भावः । असद्भावस्थापनायामप्येतल्लक्षणं व्यापकमिति प्रदर्शयितुं विचारयति-अक्षादीति रूपान्तरव्यावृत्तिपूर्वकरूपान्तरकरणलक्षणस्थापनाया अक्षादावनङ्गीकारेऽक्षादाविन्द्रादीनां या प्रतिपत्तिोंके-25 नानुभूयते तस्याः प्रतिबन्धः स्यादिति व्याचष्टे-अत्रापीति असद्भावस्थापनाविषयीभूताक्षादावित्यर्थः, तथा चाकार एव न स्थापना निक्षेपनियामकः, किन्तु अभिप्रायाकारान्यतरसम्बन्धवत्त्वं तन्नियामकम् , सद्भावस्थापनायामाकारसम्बन्धोऽसद्भावस्थापनायामभिप्रायसम्बन्धः प्रयोजक इति भावः । तस्मादविरुद्धति, बलवदनिष्टाननुबन्धीष्टसाधनताकेत्यर्थः, अभिप्रेताकारे-तद्गतगुणस्मृतिजनकसंस्कारोद्बोधकाभिप्रायविषयीभूते आकारे प्रवृत्त इन्द्रादिशब्देनेन्द्रादिबुद्ध्या वाऽध्यारोपः। एवञ्चाऽऽगमबोधितबलवदनिष्टाननुबन्धीष्टसाधनताकतद्गतगुणस्मृतिजनकसंस्कारोद्वोधकाभिप्रायाऽऽकारान्यतरसम्बन्धवत्त्वं स्थापनाया रूपान्तरव्यावृत्तिपूर्वक-30 रूपान्तरकरणलक्षणायाः प्रयोजकमिति ध्येयम्, स्थापनानिक्षेपे नामनिक्षेपस्यान्तर्गतत्वात् नाम्नाऽऽरोपः भावनिक्षेपस्यान्तर्गतत्वादयाऽऽरोप इत्युक्तम्, द्रव्यनिक्षेपस्यापि तदन्तर्गतत्वेन दृष्टान्ततयोद्भावितम्, अत्र पक्षे प्रयोजककोटावागमबोधितत्वं न देयम्, तत्र स्थापनाव्यतिरिक्तत्वेन तेषामभिधानादिति । दृष्टान्तं स्फुटयति-यथा रूपान्तरेति । एतत्रयमतेन लोकसंवाद दर्शयति
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org.